Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
कल्पतरुः–'सूत्रधारः पठेन्नान्दीमन्यो वा रङ्गभूमिगः । मङ्गलं सूचयित्वा तु ललितेन शुभाविन्ताम् ॥' अपरे तु–'पटान्तरित एव नान्दी पठित्वा सूत्रधारः प्रविशति वदति च' इत्याहुः । ननु 'अलमतिविस्तरेण' इत्यसंगतम् । 'रङ्गं प्रसाद्य मधुरैः श्लोकैः काव्यार्थसूचकैः । ऋतुं कंचिदुपादाय भारती वृत्तिमाश्रयेत् ॥ भेदैः प्ररोचनायुक्तैर्वीथीप्रहसनामुखैः । सूत्रधारो नटी ब्रूते मार्ष वाथ विदूषकम् ॥ खकार्य प्रस्तुताक्षेपि चित्रोक्त्या यत्तदामुखम् ॥' इत्यादीनां प्रस्तावनापूर्वकर्तव्यनान्द्यङ्गानामनभिधानादिति नासंगतम् । प्रस्तुताभिनेयस्यातिविस्तरतया प्रेक्षकाणां प्रवृत्तिन स्यादिति तत्प्रवृत्त्यर्थं तत्प्रयोगस्य संगतत्वात् । अन्यथानेकसमयेन तत्पर्यवसाने रङ्गभङ्गप्रसङ्ग इत्यानन्त्यात् । सकलपूर्वरङ्गस्य निर्वाहयितुमशक्यत्वान्नान्दीपाठेनैव संक्षिप्यत इति भावः । आवश्यकत्वात् । तथा चोक्तम्-'यद्यप्यङ्गानि भूयांसि पूर्वरङ्गस्य नाटके । तथाप्यवश्यं कर्तव्या नान्दी विघ्नोपशान्तये ॥' इति । अलंशब्दस्य तृतीयान्तपदसाचिव्येन निष्फलाभिधायकत्वम् । यदाहुनिष्फलपर्याये पाञ्चजन्ये हरिमिश्राः—'भवति हि तृतीयान्तेन समन्वितमलम् इति ॥
प्रस्तुतकथनीये श्रोतृणामनवधानेऽनवधेयवचनत्वमरण्यरुदितत्वं च स्वस्य स्यादिति तान्संबोधयन्निदानी प्रस्तावनामाह-भोभो इत्यादि । भो भोः सभासदः सभ्याः, अयं लोको जनो नित्यं प्रत्यहं केनचित्कुशीलवेन नटेनोद्वेजितो व्याकुलीकृत इति प्रसिद्धिः । किल प्रसिद्धौ । भो भो इति संबोधने । अव्यये वीप्सायां द्विरुक्तिः । 'अथ संबोधनार्थकाः । स्युः पाटप्याडङ्गहेहैभोः' इत्यमरः । . 'भरता इत्यपि नटाश्चारणाश्च कुशीलवाः' इत्यमरः । उद्वेजित इत्यत्र ण्यन्तत्वान्न 'विज इट्' इति ङित्त्वम् । कीदृशेन । कमप्यतिशयितं प्रबन्धं नाटकमभिनयता नृत्यता । कीदृशम् । रौद्रमुग्रम्, बीभत्सं विकृतम्, भयानकं दारुणम् , अद्भुतमाश्चर्यम् , एते रसा भूयिष्ठाः प्रचुरा यत्र तम् । एषां कटोरत्वादुद्वेगः । भूयिष्ठपदस्य राजदन्तादिपाठात्परनिपातः । रौद्रादयो हि नाट्ये रसविशेषाः। तदुक्तं भरते-'शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताश्च नव नाट्ये रसाः स्मृताः ॥' इति । कीदृशेन कुशीलवेन । कलहस्य कन्दलं प्रकाण्डं नाम यस्य तेन । अतिकलहशालिनेत्यर्थः । 'कलहकन्द-इति पाठे कलहस्य कन्दो मूलं नाम यस्य तेन । कुतश्चिद्दीपात्सिहलादेरागतेन । सभासदः कीदृशाः । पुरुषोत्तमस्य हरेर्यात्रायां पूजोत्सव उपस्थानीया उपस्थिताः । कीदृशस्य । लवणमुदकं यत्र स लवणोदः । 'उदकस्योदः संज्ञायाम्' इत्युदादेशः । तस्य वेलां तीरं तत्र वनाली वनपतिस्तत्र यस्तमालतरुस्तापिच्छवृक्षस्तस्य कन्दलस्य प्रकाण्डस्येव । 'वेला तत्तीरनीरयोः' इत्यमरः । 'तमालो वरुणे खड्ने तापिच्छे तिलकेऽपि च' इति विश्वः । 'कन्दलं तु नवाङ्कुरे' इति धरणिः । मौलिमस्तकम् । मण्डनमलंकारः। नीलमणिरिव नीलमणिः श्यामरत्नम् । कमला लक्ष्मीस्तस्याः कुचावेव कलशौ तयोः केलि: क्रीडा तदर्थ कस्तूरिकया पत्रं पत्रावली तदङ्करस्येव । हरेः कृष्णत्वात्रिभिरिह रूपकम् । पुरुषोत्तम इत्यत्र यद्यपि पुरुषाणामुत्तम इति न निर्धारणषष्ठीसमासनिषेधः स्यात् । पुरुषश्चासावुत्तमश्चेति कर्मधारये विशेषण
For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 331