Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ अङ्कः ] अनर्घराघवम् । १३ (विमृश्य सहर्षस्मितम् ।) मारिष, रामायणमिति शृणोषि तत्रभवतः कवित्वावतारप्रथमतीर्थस्य वल्मीकजन्मनो मुनेः सरखतीनिर्यासो यशःशरीरमिक्ष्वाकूणाम् । श्यः न्तीति हारा रम्याः स्रज इव स्रजो हाराश्च ताः स्रजश्चेति कर्मधारयः । तेन हारस्रजोऽक्षरमाला इत्यर्थः । सुहृदां शोभनमनसां सुकवीनां तत्त्वज्ञानिनां वा कण्ठेषु लुठन्ति संबध्यन्ते । शोभनं हृद्येषां ते सुहृदः । ' स्वान्तं हृन्मानसं मनः' इत्यमरः । यद्वा हारस्रज इव हारस्रजो हाराणां मालाः । गद्यपद्यानीत्यर्थः । कीदृ| उन्मीलन्दीप्यमानः कमनीयः काम्यो यो नायकगुणग्रामो नायकगुणसमूहस्तस्योपसंवल्गनं संबन्धः शोभादिप्रतिपादनं वा । तेन प्रौढा उद्भटा अहंकृतयोऽहंकारा यासु ताः । इह मालाकर्तुरहंकारस्तत्कार्य उपचरितः । अन्यनाटकेभ्योऽतिवैलक्षण्येनाहंकार उचित एव । इह नायकः प्रधानपात्रम् । 'प्रधानपात्रताख्यातो नृत्ये यः स्यात्स नायकः' इति भरतः । इह च नायकस्य श्रीरामस्य जगद्विलक्षणतया कवेरहंकारः समूल एव । 'उपसंवर्धन -' इति पाठे संबन्ध एवार्थः । 'अलंकृतयः' इति पाठस्तु रम्यः । पुनः कीदृश्यः । सुकविना शास्त्राण्येवामृतानि सुधाः, चेत एव शुक्तिका, तया शतशो बहुवारं निपीय सादरं पीत्वा क्रमेण वान्तैरुद्गीर्णैरक्षरमूर्तिभिरक्षराणि मूर्तय आकार संनिवेशा येषां तैर्गद्यपद्यादिभिर्गुम्फिता रचिता । गुम्फनं गुम्फः । भावे घञ् । ततस्तारकादित्वादितच् । ते सति 'अनिदितां -' इत्यनुनासिकलोपपत्तिः । इह गद्यादिलाभो विशेषणद्वारेति न्यायेन । कीदृशैः । मुक्तं त्यक्तमफलमसारं यैः सारभूतैः । अन्या अपि हारस्रजो मुक्तामालाः शुक्तिकया बहुशः पानीयं पीत्वा क्रमेण वान्तैर्मुक्ताफलैर्विरचिता भवन्ति । कीदृशैः । अक्षराः क्षरणशून्याः । स्वच्छा इति यावत् । मूर्तयो येषाम् । अतिस्वच्छैरित्यर्थः । कविरिह शिल्पादिपण्डितः । ' कविः काव्यकरे सूरौ' इत्यमरः । नायको हारमध्यमणिः । गुणा ग्रथनसूत्राणि तारवृत्तत्वादयो वा । उपसंवल्गनं संबन्धः प्रशंसाभिरुपस्थानं वा । अहंकृतिरुज्ज्वलतेति ध्वनिः । शतश इत्यत्र 'बह्वल्पार्थात् -' इति शस् । निपीयेति 'पी पाने' इत्यस्य रूपम्, न तु पिबतेः । तत्र 'न त्यपि' इतीत्वनिषेधात् । 'सुधायाममृतं जले' इति विश्वः । वान्तैरित्यत्र ग्राम्यत्वेऽपि गौणवृत्तित्वाद्गुणत्वम् । तथा च दण्डी - 'निष्ठयूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥' इति । नायकलक्षणं रसप्रकाशे — 'शुद्धोत्तुङ्ग - कुल: कलासु कुशलस्त्यागी युवा निर्गदो मानी वाक्पटुरुज्वलाकृतिरथो गम्भीरचेष्टः स्थिरः । विश्रम्भी सुजनः प्रियंवद उदारोऽसौ मतो नायकः सोऽत्र स्यादनुकूलदक्षिणशठा धृष्टश्चतुर्धा पुनः ॥ एतच्चतुष्टयनायकमध्ये भगवान्दक्षिणनायकः । तल्लक्षणं तु रसिकसर्वस्वे~~~‘यो गौरवं भयं प्रेम सद्भावं पूर्वयोविति । न मुञ्चत्यन्यचित्तोऽपि दक्षि सौ स्मृतो यथा ॥' 'नायको नेतरि श्रेष्ठे हारमध्यमणावपि' इति विश्वः । 'ग्रामः संवसथे सङ्घ' इति च । स्मितलक्षणम् – 'ईषत्प्रफुल्लितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 331