________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः ]
अनर्घराघवम् ।
१३
(विमृश्य सहर्षस्मितम् ।) मारिष, रामायणमिति शृणोषि तत्रभवतः कवित्वावतारप्रथमतीर्थस्य वल्मीकजन्मनो मुनेः सरखतीनिर्यासो यशःशरीरमिक्ष्वाकूणाम् ।
श्यः
न्तीति हारा रम्याः स्रज इव स्रजो हाराश्च ताः स्रजश्चेति कर्मधारयः । तेन हारस्रजोऽक्षरमाला इत्यर्थः । सुहृदां शोभनमनसां सुकवीनां तत्त्वज्ञानिनां वा कण्ठेषु लुठन्ति संबध्यन्ते । शोभनं हृद्येषां ते सुहृदः । ' स्वान्तं हृन्मानसं मनः' इत्यमरः । यद्वा हारस्रज इव हारस्रजो हाराणां मालाः । गद्यपद्यानीत्यर्थः । कीदृ| उन्मीलन्दीप्यमानः कमनीयः काम्यो यो नायकगुणग्रामो नायकगुणसमूहस्तस्योपसंवल्गनं संबन्धः शोभादिप्रतिपादनं वा । तेन प्रौढा उद्भटा अहंकृतयोऽहंकारा यासु ताः । इह मालाकर्तुरहंकारस्तत्कार्य उपचरितः । अन्यनाटकेभ्योऽतिवैलक्षण्येनाहंकार उचित एव । इह नायकः प्रधानपात्रम् । 'प्रधानपात्रताख्यातो नृत्ये यः स्यात्स नायकः' इति भरतः । इह च नायकस्य श्रीरामस्य जगद्विलक्षणतया कवेरहंकारः समूल एव । 'उपसंवर्धन -' इति पाठे संबन्ध एवार्थः । 'अलंकृतयः' इति पाठस्तु रम्यः । पुनः कीदृश्यः । सुकविना शास्त्राण्येवामृतानि सुधाः, चेत एव शुक्तिका, तया शतशो बहुवारं निपीय सादरं पीत्वा क्रमेण वान्तैरुद्गीर्णैरक्षरमूर्तिभिरक्षराणि मूर्तय आकार संनिवेशा येषां तैर्गद्यपद्यादिभिर्गुम्फिता रचिता । गुम्फनं गुम्फः । भावे घञ् । ततस्तारकादित्वादितच् । ते सति 'अनिदितां -' इत्यनुनासिकलोपपत्तिः । इह गद्यादिलाभो विशेषणद्वारेति न्यायेन । कीदृशैः । मुक्तं त्यक्तमफलमसारं यैः सारभूतैः । अन्या अपि हारस्रजो मुक्तामालाः शुक्तिकया बहुशः पानीयं पीत्वा क्रमेण वान्तैर्मुक्ताफलैर्विरचिता भवन्ति । कीदृशैः । अक्षराः क्षरणशून्याः । स्वच्छा इति यावत् । मूर्तयो येषाम् । अतिस्वच्छैरित्यर्थः । कविरिह शिल्पादिपण्डितः । ' कविः काव्यकरे सूरौ' इत्यमरः । नायको हारमध्यमणिः । गुणा ग्रथनसूत्राणि तारवृत्तत्वादयो वा । उपसंवल्गनं संबन्धः प्रशंसाभिरुपस्थानं वा । अहंकृतिरुज्ज्वलतेति ध्वनिः । शतश इत्यत्र 'बह्वल्पार्थात् -' इति शस् । निपीयेति 'पी पाने' इत्यस्य रूपम्, न तु पिबतेः । तत्र 'न त्यपि' इतीत्वनिषेधात् । 'सुधायाममृतं जले' इति विश्वः । वान्तैरित्यत्र ग्राम्यत्वेऽपि गौणवृत्तित्वाद्गुणत्वम् । तथा च दण्डी - 'निष्ठयूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥' इति । नायकलक्षणं रसप्रकाशे — 'शुद्धोत्तुङ्ग - कुल: कलासु कुशलस्त्यागी युवा निर्गदो मानी वाक्पटुरुज्वलाकृतिरथो गम्भीरचेष्टः स्थिरः । विश्रम्भी सुजनः प्रियंवद उदारोऽसौ मतो नायकः सोऽत्र स्यादनुकूलदक्षिणशठा धृष्टश्चतुर्धा पुनः ॥ एतच्चतुष्टयनायकमध्ये भगवान्दक्षिणनायकः । तल्लक्षणं तु रसिकसर्वस्वे~~~‘यो गौरवं भयं प्रेम सद्भावं पूर्वयोविति । न मुञ्चत्यन्यचित्तोऽपि दक्षि
सौ स्मृतो यथा ॥' 'नायको नेतरि श्रेष्ठे हारमध्यमणावपि' इति विश्वः । 'ग्रामः संवसथे सङ्घ' इति च । स्मितलक्षणम् – 'ईषत्प्रफुल्लितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः ।
For Private and Personal Use Only