________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
काव्यमाला। नटः-अथ किम् । सूत्रधारः-तत्प्रतिबद्धप्रबन्धानुबन्धिनी परिषदाज्ञा ।
नट:-(विहस्य ।) अहो, सकलकविसार्थसाधारणी खल्वियं वाल्मीकीया सुभाषितनीवी। मूत्रधारः-मारिष, किमुच्यते ।
अपि कथमसौ रक्षोराजस्तताप जगत्रयी___मपि कथमभूदिक्ष्वाकूणां कुले गरुडध्वजः । अपि कथमृषौ दैव्यो वाचः स्वतः प्रचकाशिरे
सुचरितपरीपाकः सर्वः प्रबन्धकृतामयम् ॥ ७ ॥ अदृष्टदन्तकुसुमैरुत्तमानां स्मितं भवेत् ॥' इति । मारिष इति नटसंबोधनम् । यदाह भरतः-सूत्रधारः पुनः पारिपार्श्वकेनाभिधीयते । भाव इत्येव तेनासावपि मार्षस्तु मारिषः ॥' इति । 'उत्कृष्टो विद्यया भावः किंचिदूनस्तु मारिषः' इत्यपि भरतः । तत्रभवतो मान्यस्य । तच्छब्दात्प्रथमान्तात् 'इतराभ्योऽपि दृश्यन्ते' इति भवच्छब्दयोगेन त्रल् । 'लाध्ये तत्रभवानुक्तः' इति त्रिकाण्डः । अवतीर्यतेऽत्र ह्यवतारः। 'अवे तृस्त्रोर्घञ्' इत्यधिकरणे घञ् । नत्ववतरणमवतारः। तथा सति 'ऋदोरप्' इत्यप् स्यात् । यद्वा 'कृत्यल्युटो बहुलम्' इति बहुलवचनादवतारणमेवावतार इति घञ् । यद्वा अवतार इत्यत्र 'क्वचिदपवादविषयेऽप्युत्सर्गः प्रवर्तते' इति न्यायेन भावे घञ् । कवित्वस्यावतारः कवित्वावतारः। तत्राधिकरणे घनि कवित्वावतारः कवित्वावतरणाधिकरणं चासौ प्रथमतीर्थ आद्योपाध्यायश्चेति समासः । तस्य भावघत्रि कवित्वावतरणे प्रथमोपाध्यायस्य प्रथमोपायस्य चेत्यर्थः । 'तीर्थ शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु' इति विश्वः । वल्मीको मुनिभेदः, ततो जन्म यस्य । वाल्मीरित्यर्थः । सरस्वती वाणी । निर्यासः सारभूतः । यशोरूपं शरीरं यशःशरीरम् । शाकपार्थिवादिः । इक्ष्वाकूणां सूर्यवंश्यानाम् । अथ किं खीकारे । 'यत्सत्यमिति भावार्थमथ किं स्वीक्रियार्थकम्' इति भरतः। तदिति । रामायणाश्रयनाटकानुवर्तिनीत्यर्थः । परिषत्सभा। सार्थः समूहः । साधारणी तुल्या । साधारणादनि 'टिड्डाणञ्-' इति ङीप् । खलु निश्चये । सुभाषितं शोभनवाक्यम् । सु पूजायाम् । तदेव नीवी मूलधनम् । 'नीवी स्याद्वसनग्रन्थौ नीवी मूलधनेऽपि च' इति विश्वः । नीवीव नीवी । कविसार्थानामस्या उपजीव्यत्वात् । किमुच्यते । किमज्ञातं ख्याप्यत इत्यर्थः । अपीत्यादि । अपिः सर्वत्र प्रश्ने संभावनायामसंभवोक्तौ वा । कथमेतानि संभाव्यन्त इत्यर्थः । 'अपिः संभावनाप्रश्नशङ्कागर्हासमुच्चये' इति विश्वः । यदीदं सकलकविनिवहोपजीव्यं न भवति तदा रक्षोराजो रावणो जगत्रयीं त्रैलोक्यमपि कथं तताप संतप्तीकृतवान् । एकस्य जगत्रयतापनेऽशक्तेः । गरुडध्वजो विष्णुर्वा इक्ष्वाकूणां रघूणां वंशे कथम
For Private and Personal Use Only