________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
(नान्द्यन्ते) सूत्रधारः-अलमतिविस्तरेण । भो भो लवणोदवेलावनालीतमालतरुकन्दलस्य त्रिभुवनमौलिमण्डनमहानीलमणेः कमलाकुचकलशकेलिकस्तूरिकापत्राङ्कुरस्य भगवतः पुरुषोत्तमस्य यात्रायामुपस्थानीयाः सभासदः, कुतश्चिद्वीपादागतेन कलहकन्दलनाम्ना कुशीलवेन रौद्रबीभत्सभयानकाद्भुतरसभूयिष्ठं कमपि प्रबन्धमभिनयता नित्यं किलायमुद्वेजितो लोकः ।
प्रयोक्तव्यः । तथा 'काभ्यां त्रिभुवनतिलको राजा' इति । तस्मै कस्मै । महाकल्पे प्रलये विरमति निवृत्ते सति । संहारेच्छायां गतायां सर्गेच्छायां प्रवृत्तायामिति भावः । असौ प्रसिद्ध आत्मभूर्ब्रह्मा कस्य पदार्थस्य किमधिकरणा किमाधारा कीदृग्व्यवस्थितिराकारसंनिवेश इति द्रष्टुमुपलब्धुं प्रतिक्षणं प्रतिमुहूर्त यस्योदरमविशत्प्रविष्टः । विशेः कर्तरि लङ् । नाभिरेव पन्था नाभीपथः । 'ऋक्पूरब्धू:--' इत्यकारः समासान्तः । स एवैकमद्वितीयं निकेतनमालयो यस्य स तथा । एतेन ब्रह्मण: पद्मासनत्वेन सदा संनिधाना
प्रतिक्षणं पद्मनाभोदरप्रवेशः सुशक इति सूचितम्। त्रिभुवनमेव पूनगरं तस्य शिल्पी निर्माता । इह 'ऋक्पू:-' इत्यकारः समासान्तो न भवति । तद्विधेरनित्यत्वात् । 'त्रिभुवनपुनःशिल्पी' इति पाठे त्रयाणां भुवनानां पुनर्घटक इत्यर्थः । विश्वंभररूपस्य विष्णोरुदरे त्रैलोक्यमस्ति । अयं च स्रष्टा त्रिभुवनं निर्मित्सुः । निर्माणस्य च पूर्वदर्शनव्यतिरेकेणानिर्वाहात् । किं किं खरूपं केन प्रकारेणावस्थितमिति ज्ञातुं तस्योदरं प्रविष्टः । प्राचीना सृष्टिविस्मृतैवेति भावः । वारंवारघटनात्पुनःशब्द उचित एव । अनेन पद्येन दशग्रीवे विरमत्यात्मभू रामो लङ्कोदरं तत्संनिवेशदर्शनाय प्रविष्ट इति सूचितम् । यद्वा तस्मिन्विरते तत्तत्संनिवेशदर्शनायायोध्यामेवाविशदिति सूचितम् । अ. नयोः पद्ययोः प्रसादनामा वाक्यार्थगुणः । तथा च सरस्वतीकण्ठाभरणे—'यत्तु प्राकट्यमर्थस्य प्रसादः सोऽभिधीयते' इति । यथा-'अयमुदयति निद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम् । विरह विधुरकोकद्वन्द्वबन्धुर्विभिन्दन्कुपितकपिकपोलक्रोडताम्रस्तमांसि ॥' अत्र पद्मिनीविकासकरणे उदयशैलावतरणे कोकशोकापहरणे तमोविदारणेऽनुक्तोऽपि सूर्यरूपोऽर्थः प्रकटमुपलक्ष्यते। तथा कौमोदकीधारणे चन्द्रसूर्यचक्षुष्मत्त्वे नाभ्यां पुण्डरीकपरिपालन उदरे त्रिलोक्याः समावेशेऽनुक्तोऽपि विष्णुरूपोऽर्थो लक्ष्यत इति । जगन्निधय इत्यत 'नमःखस्ति-' इत्यादिना चतुर्थी । विरमतीत्यत्र 'व्यापरिभ्यो रमः' इति परस्मैपदत्वाच्छचन्तात्सप्तमी । त्रिभुवनेत्यत्र सुप्सुपेति समासः । न तु समाहारद्विगुः । तथा सति त्रिभुवनीति स्यात् । 'पू: स्त्री पुरीनगर्यो' इत्यमरः ॥ 'नान्द्यन्ते सूत्रधारः' इति वक्ष्यमाणलक्षणं नाटकाद्यपद्यं नान्दी । तथाहि—'देवतादे
For Private and Personal Use Only