Book Title: Agam Sutra Satik 19 Nirayavalika UpangSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं -१
आवासम् अवगृह्य-अनुज्ञापनापूर्वकं गृहीत्वा संयमेन तपसा चात्मानं भावयन् विहरति आस्ते स्म । 'परिसा निग्गय' त्ति परिषत् - श्रेणिकराजादिको लोकः निर्गता- निःसृता सुधर्मस्वामिवन्दनार्थम् । धर्मश्रवणानन्तरं “जामेव दिसिं पाउब्भूआ तामेव दिसिं पडिगय” त्ति यस्या दिशः सकाशात् प्रादुर्भूता - आगतेत्यर्थः तामेव दिशं प्रतिगता इति ।
मू. (३) ते णं काले णं ते णं समए णं अज्जसुहम्मस्स अनगारस्स अंतेवासी जंबू नामं अनगारे समचउरंससंठाणसंठिए जाव संखित्तविउलतेयलेस्से अज्जसुहम्मस्स अनगारस्स अदूरसामंते उडुंजाणू जाव विहरति ।
७
वृ. तस्मिन् काले तस्मिन् समये आर्यसुधर्मणोऽन्तेऽवासी आर्यजम्बूनामाऽनगारः काश्यपगोत्रेण । 'सत्तुस्सेहे' सप्तहस्तोच्छ्रायः, 'समचउरंससंठाणसंठिए' यावत्करणादिदं दृश्यं 'वज्ररिसहनारायसंघयणे कणगपुलगनिघसपम्हगोरे' कनकस्य सुवर्णनस्य 'पुलग' त्ति यः पुलको - लवः तस्य यो निकषः - कषपट्टरेखालक्षणः तथा 'पम्हेति' पद्मगर्भः तद्वद्यो गौरः स तथा, वृद्धव्याख्या तु- कनकस्य न लोहादेर्यः पुलकः - सारो वर्णातिशयः तत्प्रधानो यो निकषो-रेखा तस्य यत् पक्ष्म-बहलत्वं तद्वद्यो गौरः स कनकपुलकनिकषपक्ष्मगौरः । तथा 'उग्गतवे' उग्रम्अप्रधृष्यं तपोऽस्येति कृत्वा ।
'तत्ततवे' तप्तं - तापितं तपो येन स तप्ततपाः एवं तेन तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूपः संतापित इति । तथा दीप्तं तपो यस्य स दीप्ततपाः, दीप्तं तु-हुताशन इव ज्वलत्तेजः कर्वनदाहकत्वात् । 'उराले' उदारः - प्रधानः । 'घोरे' घोरः - निघृणः परीषहेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्तव्ये । तथा 'घोरव्वए; घोराणि - अन्यैर्दुरनुचराणि व्रतानि यस्य स तथा । तथा धोरैस्तपोभिस्तपस्वी घोरतपस्वी । “संखित्तविउलतेयलेस्से" संक्षिप्ताशरीरान्तर्निलीना विपुला - अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्था तेजोलेश्या - विशिष्टतपो जन्यलब्धिविशेषप्रभावा तेजोलेश्या (यस्य सः) एवं गुणविशिष्टो जम्बूस्वामी भगवान् आर्यसुधर्मणः स्थविरस्य "अदूरसामंते" त्ति दूरं विप्रकर्षः सामन्तं समीपम् उभयोरभावोऽदूरसामन्तं ( तस्मिन्) नातिदूरे नातिसमीपे उचिते देशे स्थित इत्यर्थः ।
कथं ? 'उहंजाणू' शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याभावाच्च उत्कटुकासनः सन्नपदिश्यते ऊर्ध्वे जानुनी यस्य स ऊर्ध्वजानुः, अधः शिराः अधोमुखः नोर्ध्वं तिर्यग्वा निक्षिप्तदृष्टिः, किं तु नियतभूभागनियमित दृष्टिरिति भावना । यावत्करणात् 'झाणकोट्टोवगए' ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो ध्यानकोष्ठोपगतः, यथाहि - कोष्ठके धान्यं प्रक्षिप्तमविप्रकीर्णं भवति एवं स भगवान् धर्मध्यानकोष्ठमनुप्रविश्य इन्द्रियमनांस्यधिकृत्य संवृतात्मा भवतीति भावः । संयमेनसंवरेण तपसा ध्यानेन आत्मानं भावयन्- वासयन् विहरति- तिष्ठति ।
मू. (४) तए णं से भगवं जंबू जातसड्ढे जाव पज्जुवासभाणे एवं वयासि-उवंगाणं भंते! समणे णं जाव संपत्तेणं के अड्डे पन्नत्ते ? एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं एवं उवंगाणं पंच वग्गा पन्नत्ता, तं जहा निरयावलियाओ १ कप्पवडिंसियाओ २ पुफियाओ ३ पुप्फचूलियाओ ४ वहिदसाओ ५ ।
जणं भंते! समणेणं जाव संपत्तेणं उबंगाणं पंच वग्गा पन्नत्ता तं जहा-निरयावलियाओ जाव वहिदसाओ पढमस्स णं भंते वग्गस्स उवंगाणं निरयावलियाणं समणेणं भगवया जाव
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46