Book Title: Agam Sutra Satik 19 Nirayavalika UpangSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 17
________________ १४ निरयावलिका-उपाङ्गसूत्रम्-१/७ नमस्यामि-प्रणमामि, सत्कारयामि-आदरंकरोमि वस्त्राद्यर्चनंवा, सन्मानयामिउचितप्रतिपत्येति कस्याणं-कल्याणहेतुं, मङ्गलंदुरितोपशमनहेतुं, देवं चैत्यमिव चैत्यं, पर्युपासयामि-सेवे, एतत्, नोऽस्माकं, प्रेत्यभवे-जन्मान्तरे, हिताय पथ्यात्रवत्, सुखाय-शर्मणे, क्षमाय-सङ्गतत्वाय, निःश्रेयसाय-मोक्षाय, आनुगामिकत्वाय-भवपरम्परासु सानुबन्धसुखाय, भविष्यति, इति कृत्वा-इति हेतोः, संपेक्षते पर्यालोचयति, संप्रेक्ष्य चैवमवादीत्-शीघ्रमेव 'भो देवाणुप्पिया' ! धर्माय नियुक्तं धार्मिकं, यानप्रवरं, - ____ -'चाउग्घंटेआसरह' तिचतोघण्टा; पृष्ठतोऽग्रतः पार्श्वतश्च लम्बमाना यस्यसचतुर्घण्टः, अश्वयुक्तोरथोऽश्वरथस्तमश्वरथं, युक्तमेवाश्वादिभिः, उपस्थापयत-प्रगुणीकुरुत, प्रगुणीकृत्य ममसमर्पयत । 'हाय'त्तिकृतमज्जना,स्नानानन्तरं 'कयबलिकम्म त्तिस्वगृहे देवतानां कृतबलिकर्मा, 'कयकोउयमंगलपायच्छित्त' ति कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानीव दुःस्वप्नादिव्यपोहायावश्यंकर्तव्यत्वात् प्रायश्चितानि यया सा तथा। तत्र कौतुकानि-मषीपुण्ड्रादीनि, मङ्गलादीनि सिद्धार्थदध्यक्षतदूर्वाङ्गुरादीनि, 'सुद्धप्पावेस्साइंवत्थाइंपरिहिया' 'अप्पमहग्धाभरणालंकियसरीरा' (इति) सुगमम्, 'बहूहिंखुजाहिंजावे' त्यादि, तत्रकुब्जिकाभिः-वक्रजङ्घाभिः, चिलातीभिः-अनार्यदेशोत्पन्नाभिः, वामनाभिः-इस्वशरीराभिः, वटभाभिः-मडहकोष्ठाभिः, बर्बरीभिः-बर्बरदेशसंभवाभिः, बकुशिकाभिः यौनकाभिः पण्हकाभिः इसिनिकाभिः वासिनिकाभिः लासिकाभिः लकुसिकाभिः द्रविडीभिः सिंहलोभिः आरबीभिः पक्वणीभिः बहुलीभिः मुसण्डीभिः शबरीभिः पारसीभिः नानादेशाभिःबहुविधानार्यदेशोत्पन्नाभिरित्यर्थः, विदेशस्तदीयदेशापेक्षया चम्पानगरी विदेशः तस्य परिमण्डिकाभिः, "इंगियचिंतियपतअथियवियाणियाहिं तत्र इङ्गितेन-नयनादिचेष्टाविशेषण चिन्तितंच-परेण हदिस्थापितंप्रार्थितंच-अभिलषितंच विजानन्तियास्तास्तथाताभिः, स्वस्वदेशे यनेपथ्यं परिधानादिरचना तद्वद्गृहीतो वेषो यकाभिस्तस्तथा ताभिः, निपुणनामधेयकुशला यास्तास्तथा ताभिः, अतएव विनीताभिः युक्तेति गम्यते, तथा चेटिकाचक्रवालेन अर्थात् स्वदेशसंभवेन वृन्देन परिक्षिप्ता या सा तथा । 'उवट्ठाणसाला' उपवेशनमण्डपः । 'दुरुहइ' आरोहति । यत्रैव श्रमणो भगवान् तत्रैवोपागता-संप्राप्ता, तदनु महावीरं त्रिःकृत्वो वन्दते स्तुत्या, नमस्यति-प्रणमति, स्थिता चैव ऊर्ध्वस्थानेन, कृताञ्जलिपुटा अभिसंमुखा सती पर्युपास्ते । धर्मकथाश्रवणानन्तरं 'त्रिःकृत्वो' वन्दयित्वा (वन्दित्वा) एवमवादीत्-‘एवं खलु भंते' इत्यादि सुगमम् । अत्र कालीदेव्याः पुत्रः कालनामा कुमारोहस्तितुरगरथपदातिरूपनिजसैन्यपरिवृतः कूणिकरादजनियुक्तश्चेटकराजेन सह रथमुशलं सङ्गामयन् सुभटैश्चेटकसत्कैर्यदस्य कृतं तदाह-'हयमहियपवरवीरघाइयनिवडियचिंधज्झयपडागे' (हतः) सैन्यस्य हतत्वात्, मथितो मानस्य मन्थनात्, प्रवरवीराः-सुभटा घातिताः-विनाशिता यस्य, तथा निपातिताश्चिहध्वजाः-गरुडादिचिह्नयुक्ताः केतवः पताकाश्च यस्य स तथा, ततः पदचतुष्टयस्य कर्मधारयः । अत एव 'निरालोयाओ दिसाओ करेमाणे' ति निर्गतालोका दिशः कुर्वन्चेटकराजः (स्य) सपक्खं सपडिदिसि तिसपक्ष-समानपार्श्वसमानवामेतरपार्श्वतया, सप्रतिदिक्-समानप्रतिदिक्तयाऽत्यर्थमभिमुख इत्यर्थः, अभिमुखागमने हि परस्परस्य समाविव दक्षिणवामपाश्र्धी भवतः, एवं विदिशावपीति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46