Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
मावश्यक-हारिभद्रीयवृत्तिः यथा मतिश्रुते विपर्ययज्ञाने भवतः, एवमिदमपि मिथ्यादृष्टेविभङ्गज्ञानं भवतीति विपर्ययसाधात् , य एव च मतिश्रुतयोः स्वामी स एव चावधेरपि भवतीति स्वामिसाधर्म्यात् , विभङ्गज्ञानिनः त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपज्ज्ञानत्रयं संभवतीति लाभसाधाच्च । तथा मनःपर्यवज्ञानं, अयं भावार्थः-परिः सर्वतो भावे, अवनं अवः, अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः पर्यवनं वा पर्यव इति, मनसि मनसो वा पर्यवो मनःपर्यवः, सर्वतस्तत्परिच्छेद इत्यर्थः, स एव ज्ञानं मनःपर्यवज्ञानं, अथवा मनसः पर्याया मनःपर्यायाः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यनर्थान्तरं, तेषु ज्ञानं मनःपर्यायज्ञानं, तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं, इदं चार्धतृतीयद्वीपसमुद्रान्तर्वतिसं. ज्ञिमनोगतद्रव्यालम्बनमेवेति, तथाशब्दोऽवधिज्ञानसारूप्यप्रदर्शनार्थः, कथम् ?, छन्नस्थस्वामिसाधर्म्यात् , तथा पुद्गलात्रालम्बनत्वसाम्यात् , तथा क्षापोपशमिकभावसाम्यात् , तथा प्रत्यक्षत्वसाम्याच्चेति । केवलमसहायं मत्यादिज्ञाननिरपेक्षं, शुद्धं वा केवलं, तदावरणकर्ममलकलङ्काङ्करहितं, सकलं वा केवलं, तत्प्रथमतयैव अशेषतदावरणाभावतः संपूर्णोत्पत्तेः, असाधारणं वा केवलं, अनन्यसदृशमितिहदयं, ज्ञेयानन्तत्वादे अनन्तं वा केवलं, यथावस्थिताशेषभूतभवनाविभावस्वभावावभासीति भावना, केवलं च तज्ज्ञानं चेति समासः, चशब्दस्तुक्तसमुच्चयार्थः, केवलज्ञानं च पञ्चमकमिति, अथवाऽनन्त
विषयसप्तमी. २ सम्बन्धे षष्ठी. ३ बिना दर्शनं ज्ञानेनानेन विशेषोपयोग इति, विशुद्धतराणि वा मनोद्व्याणि जानात्यनेनेति ज्ञापनाय वा. ४ अरूपिद्रव्यालम्बनम्यवछेदाय मात्रेति. ५"जीवो अक्खो अस्थम्वावणभोयणगुणणिो जेणं । तं पइ वह नाणं,जं पञ्चक्खं तयं तिविहं" (वि०८९) इति. ६ अपेक्षाऽत्र सहावस्थानरूपा. ७ मत्यादीनां स्वावरणोपेतत्वात् , अङ्को लक्ष्म. ८ उत्पत्तिसमय एव.९न तारतम्यवत् म्यूनं वा कदापि. १० अन्यस्य कस्यापि रूप्यरूपिसूक्ष्मदूरेतरादिपदार्थाप्राहकत्वात्. " आधारापेक्षया संख्येयत्वेऽपि. * .यसंभवतो परि.. राभिहितज्ञानसारूप्यप्रदर्शक एव, अप्रमत्तभावयतिस्वामिसाधात् विपर्ययाभावयुक्तत्वाञ्चेति गाथासमासार्थः॥
आह-मतिज्ञानश्रुतज्ञानयोः कः प्रतिविशेष इति, + उच्यते, उत्पन्नाविनष्टार्थग्राहक साम्प्रतकालविषयं मतिज्ञानं, श्रुतज्ञानं तु त्रिकालविषयं उत्पन्नविनष्टानुत्पन्नार्थग्राहकमिति, भेदकृतो वा विशेषः, यस्मादवग्रहाद्यष्टाविंशतिभेदभिन्नं मतिज्ञानं, तथाऽङ्गानङ्गादिभेदभिन्नं च श्रुतमिति, अथवाऽऽरंमप्रकाशकं मतिज्ञानं, स्वपरप्रकाशकं च श्रुतमित्यलं प्रसङ्गेन, गमनिकामात्रमेवैतदिति । अत्राह-एषां ज्ञानानामित्थं क्रमोपन्यासे किं प्रयोजनं इति, उच्यते, परोक्षत्वादिसाधर्म्यान्मतिश्रुतसद्भावे च शेषज्ञानसंभवात् आदावेव मतिश्रुतोपन्यासः, मतिज्ञानस्य पूर्व किमिति चेत्, उच्यते, मतिपूर्वकत्वात् श्रुतस्येति, मतिपूर्वकत्वं चास्य “श्रुतं मतिपूर्वम्" ( ०यनेकद्वादशभेदम् श्रीतत्त्वार्थे अ० १ सू० २०) इति वचनात्, तत्र पायो मतिश्रुतपूर्वकत्वात्प्रत्यक्षत्वसाधाच्च ज्ञानत्रयोपन्यास इति, तापि कालविपर्ययादिसाम्यान्मतिश्रुतोपन्यासानन्तरमेवावधेरुपन्यास इति, तदनन्तरं च छानस्थिकादिसाधान्मनःपर्यायज्ञानस्य, तदनन्तरं भावमुनिस्वाम्यादिसाधात्सर्वोत्तमत्वाच केवलस्येति गाथार्थः॥१॥
साम्प्रतं 'यथोद्देशं निर्देशः' इति न्यायादू ज्ञानपञ्चकादावुद्दिष्टस्य आभिनिबोधिकज्ञानस्य स्वरूपमभिधीयते-तश्चाभि
न शेयज्ञानानामित्यर्थः २ मत्यादीनामपि तेन स्वरूपनिरूपणात् . ३ संक्षेपविवरणरूपरवात् . ४ भावश्रुतस्य. ५ मिथ्याटेविज्ञानावाप्तौ न प्रार मतिश्रुते स्त इति प्राय इति । ६ ज्ञानत्रयोपन्यासे. ७ लाभादिप्रहः. ८ पुद्गलावलम्बनस्वादिः ९ विपर्ययाभावस्वादिः. भत्रोच्यते । निबोधिकज्ञानं द्विधा, श्रुतनिश्रितमश्रुतनिश्रितं च, यत्पूर्वमेव कृतश्रुतोपकारं इदानीं पुनस्तदनपेक्षमेवानुप्रवर्तते तदू अवग्रहादिलक्षणं श्रुतनिश्रितमिति । यत्पुनः पूर्वं तदंपरिकर्मितमतेः क्षयोपशमपटीयस्त्वात् औत्पत्तिक्यादिलक्षणं उपजायते तदश्रुतनिश्रितमिति । आह-"तिवग्गसुत्तत्थगहियपेयाला' इति वचनात् तत्रापि किश्चित् श्रुतोपकारादेव जायते, तत्कथमश्रुतनिश्रितमिति, उच्यते,. अवग्रहादीनां श्रुतनिश्रिताभिधानाद् औत्पत्तिक्यादिचतुष्टयेऽपिच अवग्रहादिसद्भावात् यथायोगमश्रुतनिश्रितत्वमवसेयं, न तु सर्वमेवेति, अयमत्र भावार्थः-श्रुत कृतोपकारनिरपेक्षं यदौत्पत्तिक्यादि तदश्रुतनिश्रितं, प्रातिभमितिहृदयं, वैनयिकी विहायेत्यर्थः, बुद्धिसाम्याच्च तस्या अपि निर्युक्तौ उपन्यासोऽविरुद्ध इत्यलं प्रसङ्गेन । तत्र श्रुतनिश्रितमतिज्ञानस्वरूपप्रदर्शनायाह
उग्गह ईहाऽवाओ य धारणा एव हुंति चत्तारि । आभिणियोहियनाणस्स भेयवत्थू समासेणं ॥२॥ व्याख्या-तत्र सामान्यार्थस्याशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणं अवग्रहः, तदर्थविशेषालोचनं ईहा, तथा प्रक्रान्तार्थविशेषनिश्चयोऽवायः, चशब्दः पृथक् पृथक् अवग्रहादिस्वरूपस्वातन्त्र्यप्रदर्शनार्थः, अवग्रहादीनां ईहादयः
औत्पत्तिक्यादिविषयकवस्तुसम्बन्धिपरिकर्म न श्रुतकृतमिति । २ परिकर्म विना. ३ "प्रज्ञा नवनवोल्लेखशालिनी प्रतिभा मता" सैव प्रातिभं, नस्वत्र श्रुतकेवलातिरिकं सामर्थ्ययोगजन्यं प्रातिभम्. ४ सकृच्छ्रतनिश्रितस्वात् त्यागः, बाहुल्यापेक्षया तदननुसरणं स्वश्रुतनिश्रितवं, यद्वा पूर्वमशिक्षितशाखार्थस्थाश्रुतनिश्रितत्वं वैनयिकी वन्यथेति हानं, विमर्शप्राधान्याच बुद्धिचतुष्टयान्तर्भावः । श्रुतकृतो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 340