Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 16
________________ मावश्यक-हारिभद्रीयवृत्तिः प्रतिपद्यते, भेदाश्च पर्यायाएवेति,अथवा नामस्थापनाद्रव्याणि भावमङ्गलस्यैवाङ्गानि, तत्परिणामकारणत्वात् , तथा च मङ्गलोद्यभिधानं सिद्धार्दाभिधानं चोपश्रुत्य अर्हस्पतिमास्थापनां च दृष्ट्वा भूतयतिभावं भव्ययतिर्शरीरं चोपलभ्य प्रायः सम्यग्दर्शनादिभावमङ्गलपरिणामो जायते, इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-तत्र नोआगमतोऽर्हनमस्करादि भावमङ्गलमुक्त, अथवा नोआगमतो भायमङ्गलं नन्दी, तत्र नन्दनं नन्दी, नन्दन्त्यनयेति वा भव्यप्राणिने इति नन्दी, असावपि च मङ्ग लवन्नामादिचतुर्भेदभिन्ना अवगन्तव्येति, तत्र नामस्थापने पूर्ववत् , द्रव्यनन्दी द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तो, नोआगमतस्तु ज्ञशरीरभव्यशरीरोभयव्यतिरिक्ता च द्रव्यनन्दी द्वादशप्रकारस्तूर्यसंघातः 'भंभा मुकुंद मद्दल कडंब यलरि हुडुक कंसाला । काहलितलिमा वंसो, संखो पणवो य बारसमो॥१॥' तथा भावनन्द्यपि द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता उपयुक्तः, नोआगमतः पञ्चप्रकारं ज्ञानं, तश्चेदम्-- आभिणियोहियनाणं मुयनाणं घेव ओहिनाणं च । तह मणपज्जवनाणं केवलनाणं च पंचमयं ॥१॥ जानीते. २ निक्षेपचतुष्कस्य भिन्नभिन्नाधिकरणतामाश्रित्याइ.३ अवयवाः ४ भावमङ्गलनिदानवात्. ५ आदिना ज्ञामनिर्जरादिग्रहः. विशेषनाम्नां कारणतायै, मादिना जिनेन्द्रादिः. . सम्यग्दर्शनादेः प्रवलकारणत्वात् , शय्यम्भवादिवत् . ८ 'इमेणं सरीरसमुस्सएणं जिणविवेणं भावेणं भावस्सएसि पयं सेभकाले सिक्खिस्सइ न ताव सिक्खति' इति अनुयोगद्वारवचनात् . ९ ज्ञात्वा पा वा १० क्लिष्टस्याभावात्. ११ शानचारित्रोपयोगप्रहः १२ 'कयपंचनमुक्कारस्म दिन्ति सामाइयाइयं विहिणा' इतिवचनात्सूत्रापेक्षं, १३ अनुयोगापेक्षं, नन्यनुयोगस्यैकदेशस्वादू . १४ कर्तृतामापमाः. १५ 'दब्वे तूरसमुदभो' हति वचनात, क्रियाविशिष्ट इत्यध्याहार्यमन्यथा नामनन्दीस्वापत्तेः. *तिलिमा १-४. तदुपयुक्तः १-३-. व्याख्या-अर्थाभिमुखो नियेतो बोधः अभिनिबोधः, अभिनिबोध एव आभिनिबोधिकं, विनयादिपाठात् अभिनिबोधशब्दस्य “विनयादिभ्यष्ठम्" (पा० ५.४-३४ ) इत्यनेन स्वार्थ एव ठक्प्रत्ययो, यथा विनय एव वैनयिकमिति निबोधे वा भवं तेन वा निर्वतं तन्मयं तत्प्रयोजनं वाअथवा अभिनिबुध्यते तद् इत्याभिनिबोधिक, अवग्रहादिरूपं मतिज्ञानमेव, तस्य स्वसंविदितरूपत्वात्, भेदोचारादित्यर्थः, अभिनिबुध्यते वाऽनेने त्याभिनिबोधिक, तदावरणकर्मक्षयोपशम इति भावार्थः, अभिनिबुध्यते अस्मादिति वाऽऽभिनिबोधिकं, तदावरणकर्मक्षयोपशम एव, अभिनिबुध्यतेऽस्मिन्निति वा क्षयोपशम इत्याभिनिबोधिकं, आत्मैव वाऽभिनिबोधोपयोगपरिणामानन्यत्वाद् अभिनिबुध्यत इत्याभिनिबोधिकं, तज्ज्ञानं चेति समासः।तथा श्रयत इति श्रुतं शब्द एव,भावश्रुतकारणत्वादिति भावार्थः, अथवा श्रूय तेऽनेनेति श्रुतं, तदावरणाक्षयोपशम इत्यर्थः, श्रूयतेऽस्मादिति वा श्रुतं, तदावरणक्षयोपशम एव, श्रूयतेऽस्मिमिति वा क्षयोपशम इति श्रुतं, शृणोतीति वाऽऽत्मैव तदुपयोगानन्यत्वात् , श्रुतं च तज्ज्ञानं चेति समासः,चशब्दस्त्वनयोरेनू तुल्यकक्षतोभावनार्थः, स्वाम्यादिसाम्यात्, कथम् , य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य "जस्थ मइनाणं तत्थ सुयणाण" पदार्थनान्तरीयकः, २ नियतविषयं, नतु द्विचन्द्रादिवत्. ३ प्रकाश्यप्रकाशकोभयरूपत्वादित्यर्थः, प्राक् प्रकाशकम् . ४ एकत्वात् कर्तृकम्मैक्यात्. ५ 'भावाकोः' इत्यभिनिबोधशब्दनिष्पत्तौ प्राग्वदाभिनिबोधिकशब्दनिष्पत्तिः, कर्तरि तु लिहादित्वादच्, ६ बहुलवचनात् कर्माविष्वपि को नपुंसके, प्राभृतको द्रव्यमिति भव्यमादेतिवचनात्याभृताद्वा निष्पत्तिरेवमन्यत्राप्यूशम् . . ज्ञानद्वयानन्तरं चस्थ पाठात्. ८ तुल्यपक्षतोद्वोधनाय. * कृदन्तव्युत्पत्तये, उपसर्गावत्र विशेषको धातोः । प्रकाशकमतौ ' भिन्नत्वाशङ्कापनोदाय कर्म. १-४. मिति वचनात्, तथा यावान्मतिज्ञानस्य स्थितिकालस्तावानेवेतरस्य, प्रवाहापेक्षया अतीतानागतवर्तमानः सर्व एव, अप्रतिपतितैकजीवापेक्षया च षट्षष्टिसागरोपमाण्यधिकानीति, उक्तं च भाष्यकारेण “दोवारे विजयाइसु गयस्स तिण्णधुए अहव ताई । अइरेगं णरभविअं णाणाजीवाण सबद्धं ॥१॥" यथा च मतिज्ञानं क्षयोपशमहेतुकं, तथा श्रुतज्ञानमपि, यथा च मतिज्ञानमादेशतः सर्वद्रव्यादिविषयम्, एवं श्रुतज्ञानमपि, यथा च मतिज्ञानं परोक्षम् , एवं श्रुतज्ञानमपि इति, एवकारस्त्ववधारणार्थः, परोक्षत्वमनयोरेवावधारयति, आभिनिबोधिक श्रुतज्ञाने एव परोक्ष इति भावार्थः । तथा अवधीयतेऽनेन इत्यवधिः, अवधीयते इति अधोऽधो विस्तृतं परिच्छिद्यते, मर्यादया वेति, अवधिज्ञानावरणक्षयोपशम एव, तदुपयोगहेतुत्वादित्यर्थः, अवधीयतेऽस्मादिति वेति अवधिः, तैदावरणीयक्षयोपशम एव, अवधीयतेऽस्मिन्निति वेत्यवधिः, भावा वधिः, भावार्थः पूर्ववदेव, अवधानं वाऽवधिः, विषयपरिच्छेदनमित्यर्थः, अवधिश्चासौ ज्ञानं च अवधिज्ञानं, चशब्दः खल्वनन्तरोक्तज्ञानद्वयसाधर्म्यप्रदर्शनार्थः, स्थित्यादिसाधात् , कथम् , यावान्मतिश्रुतस्थितिकालः प्रवाहापेक्षया अप्रतिपतितैकसत्त्वाधारापेक्षया च, तावानेवावधेरपि, अतः स्थितिसाधात् , एकेन्द्रियादिषु क्षयोपशमसद्धावाद्वयोः संज्ञासद्भावाच श्रुतसत्ता (वि.१०२ प्रभृतिके), सम्यग्ज्ञानापेक्षया. २ श्रीमता जिनभद्रगणिक्षमाश्रमणेन. द्वौ बारी विजयाविषु गतस्य श्रीन् वारान् अच्युतेऽथवा तानि (षट्पष्टिसागरोपमाणि) अतिरिक्त नरभविक (अप्रतिपतितकजीवापेक्षया) मानाजीवानां सर्वाद (वि.४३५). ४ ओघादेशात्सूत्रादेशाद्वा. ५ आदिना क्षेत्रकालभावग्रहा. ६ द्रव्येन्द्रियमनोनिष्पायस्वात्. . दर्शनरूपबोधव्यवच्छेदाय. ८ रूपि. ग्यास्मिकया. ९क्षयोपशमस्याभावरूपत्वेनेदम्. भारमस्वरूपं ज्ञानमित्युक्तमिदम्. " सदावरण. १-४. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 340