Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 5
________________ 'इह' अस्मिन् प्रवचने खलुशब्दोऽवधारणे इहैव प्रवचने न शेषेषु शाक्यादिप्रवचनेषु, अथवा 'इहेति मनुष्यलोके, खलुशब्दो ४ वाक्यालङ्कारे, 'जिनमत'मिति रागादिशत्रून् जयति स्म (इति) जिनः, स च यद्यपि छनस्थवीतरागोऽपि भवति तथाऽपि तस्य तीर्थ प्रवर्तकत्वायोगादुत्पन्नकेवलज्ञानस्तीर्थकुदभिगृह्यते, सोऽपि च वर्द्धमानस्वामी, तस्य वर्तमानतीर्थाधिपतित्वात् , तस्य जिनस्य-वर्द्धमानखामिनो मतम्-अर्थतस्तेनैव प्रणीतत्वादाचारादि दृष्टिवादपर्यन्तं द्वादशाङ्गं गणिपिदक, कथम्भूतं वर्द्धमानस्वामिजिनमतमित्याह-जिनानुमतं जिनानाम्-अतीतानागतवर्तमानानामृपभपद्मनाभसीमन्धरस्वामिप्रभृतीनामनुमतम्-आनुकूल्येन संमतं वस्तुतत्त्वमपवर्गमार्गच प्रति मनागपि विसंवादाभावारिति ज़िनानुमतम् , एतेन सर्वेषामपि तीर्थकृतां परस्परमविसंवादिवचनता प्रवेदिता, पुनः कथम्भूतमित्याह-'जिनानुलोम जिनानाम्-अवध्यादिजिनानामनुलोमम्-अनुकूलमनुगुणामिति भावः, एतशादवध्यादिजिनवप्राः, तथाहि| यथोक्तमिदं जिनमतमासेवमानाः साधयोऽवधिमनःपर्यायकेवललाभमासादयन्त्येवेति, तथा 'जिनप्रणीत' जिनेन-भगवता बर्द्धमान-2 स्वामिना प्रणीतं समतार्थसङ्ग्रहात्मकमातृकापदवयप्रणयनाजिनप्रणीतं, भगवान हि वर्द्धमानस्वामी केवलज्ञानावातावादी बीजबुद्धिखादिपरमगुणकलितान् गौतमादीन गणधारिणः प्रत्येतन्मातृकापदत्रयमुक्तवान् "उप्पन्ने इ वा विगमे इ वा धुवे इ वा” इति, एतच्च पदत्रयमुपजीव्य गौतमाइयो द्वादशाङ्गं विरचितवन्तस्ततो भवत्येतजिनमतं जिनप्रणीतमिति, एतेनागमस्य सुत्रतः पौरुषेयत्वमावेदितं, पुरुषव्यापारमन्तरेण वचनानामसंभवात् , न खलु पुरुषव्यापारमन्तरेण नभसि ध्वनन्तः शब्दा उपलभ्यन्त इति, तेन यदवादि परैः -वचनाजिनसंबुद्धिस्तन्नरर्थक्यमन्यथा । अपौरुषेयमेवेदं, धर्माधर्मनिबन्धनम् ।। १॥ इति तदपास्तमक्सेयमिति, तत्र मा भूकस्याप्येवमाशवा-यथेदमविज्ञातार्थमेव तत्त्वत: साक्षात्सर्वज्ञादपि श्रवणे सर्वज्ञविवक्षाया अत्यक्षलेन ग्रहणाभावे विषक्षिप्तशब्दार्थपरि

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 935