Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla Publisher: ZZZ Unknown View full book textPage 7
________________ गणधारिणः परिगृह्यन्ते, विचित्रार्थत्वात्सूत्राणां, ततोऽयमर्थः-जिनैः-हितात्यनिवर्त्तकयोगसिद्धैर्गणधारिभिरनुचीर्ण-सम्यक् तदर्थाव-NE गमासङ्गशक्तिग निवर्त्तकसमभावप्राप्त्या धर्ममेघनामकसमाधिरूपेण परिणमितं जिनानुचीर्णम् , अत एव तथारूपसमाधिभावतः समुबसिवातिविशेषगावे या माक्तिरिति दर्शयन्नाह 'जिनप्रज्ञप्त' जिन:-हितात्यनिवर्तकयोगिभिः प्रज्ञप्त-तदन्यसस्वानुपहाय सूत्रत आचाराद्यङ्गोपाङ्गादिभेदेन रचितं जिनप्रज्ञाप्तम् , उक्तं च–अत्थं भासइ अरिहा सुत्तं गंथति गणहरा निघणं । सासणस्स हियहाए तओ सुत्तं पवत्तई॥ १ ॥” इति, इदं च हितप्रवृत्तादिरूपेभ्यो जिनेभ्यो देशनीयं, तेषामेव सभ्यग्विनेययोग| भावतो हिताविघातकरणात् , इत्येतदुपदर्शयन्नाह-जिनदेशितं' जिना इह हितग्रवृत्तगोत्रविशुद्धोपायाभिमुखापायविमुखादयः परिगृह्यन्ते, तथा मूलटीकाकृता व्याख्यानात् , जिनेभ्यो-हितप्रवृत्तादिरूपेभ्य: शुश्रुषादिभिर्व्यक्तभावेभ्यो देशितं-कथितं गणधरैरपि |जिनदेशितं, तथा च जम्बूस्वामिप्रभृतय एवंविधा एवेति निरूपणीयमेतत् , अथ प्रकृतिसुन्दरमिदमिति कस्मादजिनेभ्योऽपि चोपदिश्यते ?, उच्यते, तेषां स्वतोऽसुन्दरत्वेनानर्थोपनिपातसम्भवात् , दृष्टं च पात्रासुन्दरतया स्वतः सुन्दरमपि रविकरायुलकादीनामन य, आह च-"पंजियब्वं धीरेण हियं जं जस्स सव्वहा । आहारोवि हु मच्छरस न पसत्थो गलो मुवि ॥१॥" अस्मार्थस्य संदर्शनायाह-'जिनप्रशस्तै' जिनानां-गोत्रविशुद्धोपायाभिमुखापायविमुखहितप्रवृत्तादिभेदानां प्रशस्तं-निरुजपथ्यान्नवत् उचितसेवनया हितं जिनप्रशस्तम् , एवंभूतं जिनमतम् 'अनविचिन्त्य औत्पत्तिक्यादिभेदभिन्नया बुद्ध्या पोलोच्य 'तत जिनमतं 'श्रद्दधानाः' १अर्थ भाषतेऽईन् सूत्रं प्रश्नन्ति गणधरा निपुणम् । शासनस्य हितार्थ ततः सूत्रं प्रवर्तते ॥१॥२ प्रयोक्तव्यं धीरेण हितं यद्यस्य सर्वथा । आहारोऽपि च मत्स्यस्य न प्रशस्तो गरो भुवि ॥१॥Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 935