________________
'इह' अस्मिन् प्रवचने खलुशब्दोऽवधारणे इहैव प्रवचने न शेषेषु शाक्यादिप्रवचनेषु, अथवा 'इहेति मनुष्यलोके, खलुशब्दो ४ वाक्यालङ्कारे, 'जिनमत'मिति रागादिशत्रून् जयति स्म (इति) जिनः, स च यद्यपि छनस्थवीतरागोऽपि भवति तथाऽपि तस्य तीर्थ
प्रवर्तकत्वायोगादुत्पन्नकेवलज्ञानस्तीर्थकुदभिगृह्यते, सोऽपि च वर्द्धमानस्वामी, तस्य वर्तमानतीर्थाधिपतित्वात् , तस्य जिनस्य-वर्द्धमानखामिनो मतम्-अर्थतस्तेनैव प्रणीतत्वादाचारादि दृष्टिवादपर्यन्तं द्वादशाङ्गं गणिपिदक, कथम्भूतं वर्द्धमानस्वामिजिनमतमित्याह-जिनानुमतं जिनानाम्-अतीतानागतवर्तमानानामृपभपद्मनाभसीमन्धरस्वामिप्रभृतीनामनुमतम्-आनुकूल्येन संमतं वस्तुतत्त्वमपवर्गमार्गच प्रति मनागपि विसंवादाभावारिति ज़िनानुमतम् , एतेन सर्वेषामपि तीर्थकृतां परस्परमविसंवादिवचनता प्रवेदिता, पुनः कथम्भूतमित्याह-'जिनानुलोम जिनानाम्-अवध्यादिजिनानामनुलोमम्-अनुकूलमनुगुणामिति भावः, एतशादवध्यादिजिनवप्राः, तथाहि| यथोक्तमिदं जिनमतमासेवमानाः साधयोऽवधिमनःपर्यायकेवललाभमासादयन्त्येवेति, तथा 'जिनप्रणीत' जिनेन-भगवता बर्द्धमान-2 स्वामिना प्रणीतं समतार्थसङ्ग्रहात्मकमातृकापदवयप्रणयनाजिनप्रणीतं, भगवान हि वर्द्धमानस्वामी केवलज्ञानावातावादी बीजबुद्धिखादिपरमगुणकलितान् गौतमादीन गणधारिणः प्रत्येतन्मातृकापदत्रयमुक्तवान् "उप्पन्ने इ वा विगमे इ वा धुवे इ वा” इति, एतच्च पदत्रयमुपजीव्य गौतमाइयो द्वादशाङ्गं विरचितवन्तस्ततो भवत्येतजिनमतं जिनप्रणीतमिति, एतेनागमस्य सुत्रतः पौरुषेयत्वमावेदितं, पुरुषव्यापारमन्तरेण वचनानामसंभवात् , न खलु पुरुषव्यापारमन्तरेण नभसि ध्वनन्तः शब्दा उपलभ्यन्त इति, तेन यदवादि परैः
-वचनाजिनसंबुद्धिस्तन्नरर्थक्यमन्यथा । अपौरुषेयमेवेदं, धर्माधर्मनिबन्धनम् ।। १॥ इति तदपास्तमक्सेयमिति, तत्र मा भूकस्याप्येवमाशवा-यथेदमविज्ञातार्थमेव तत्त्वत: साक्षात्सर्वज्ञादपि श्रवणे सर्वज्ञविवक्षाया अत्यक्षलेन ग्रहणाभावे विषक्षिप्तशब्दार्थपरि