________________
1
१
.
ज्ञानायोगात् केवलं म्लेच्छस्येवाऽऽर्योक्तानुभाषणमात्रमिदमिति, तथा चोक्तमपरैः-"आर्याभिप्रायमज्ञात्वा, म्लेच्छवागयोगतुल्यता । ॥ सर्वज्ञादपि हि श्रोतुस्तदन्यस्यार्थदर्शने ॥ १ ॥"तत आह-जिनप्ररूपित' जिनेन-भगवता बर्द्धमानस्वामिना यथा श्रोतृणामधिगमो
भवति तथा सम्यप्रणयनक्रियाप्रवर्तनेन प्ररूपित, किमुक्तं भवति ?-यद्यपि नाम श्रोता न भगवद्विवक्षा साक्षादधिगच्छति तथा. प्यनादिर शान्दो व्यवहारः साक्षाद्विवक्षामहणमन्तरेणापि भवति यथासक्रेतं शब्दार्थावगमो, बालादीनां तथा दर्शना सकलशाब्दव्यवहारोच्छेदप्रसक्तेः, चित्रा अपि. शब्दा भगवतैव सङ्केतिताः असावीचित्यादिना च नियतमधे प्रतिपादयन्ति, ततचित्रार्थशब्दश्रवणेऽपि भवति यथाऽवस्थितार्थावगमो, न चान्यथाऽवबुध्यमानांस्तान्न निषेधति, अविप्रतारकत्वात्, न चोपेक्षते, तीर्थप्रवर्तनाय प्रवृत्तवात् , ततो गणभृतां साक्षात् परम्परया शेपसूरीणामापे यथाऽवस्थितार्थावगम इति नेदमविज्ञातार्थमिति, अन्ये वाहु:भगवान्न प्रवचनप्रयासमाधत्ते, केवलं तत्पुण्यप्राग्भारवशादेव श्रोतृगां प्रतिभास उपजायते यथा-इस्थमित्यं भगवान् तत्त्वमाचष्टे, उक्तं च तदाधिपस्यादाभासः, सत्त्वानामुपजायते । स्वयं तु यनरहितश्चिन्तामणिरिव स्थितः ।। २ ॥” इति, तन्मतविकुट्टनार्थमाह-'जिनाख्यात' जिनेन-भगवता वर्द्धमानामिना प्रकृष्टपुण्यसंभारविपाकोदयतस्तथा व्यापारयोगेन आख्यातं-कथितं जिनाख्यात, साक्षात्कथनव्यापारोपलम्भेऽपि यदि तदाधिपत्यमात्रात्तथाप्रतिभासः श्रोतणामित्यभ्युपगम्यते ततोऽन्यत्रापि तथाकल्पनाप्रसनः, तथा च प्रत्यक्षविरोध इति यत्किञ्चिदेव, भगवांश्चाख्यातवान् सम्यग योग्येभ्यः श्रोतृभ्यो नायोग्येभ्यः, अमूढलक्षत्वात् , सम्यगयोग्यश्च श्रोता श्रोतृलक्षणोपेतः, श्रोतृलणानि चामनि-मध्यस्थो बुद्धिमानीं, जात्यादिगुणसंगतः । श्रुतकृच यथाशक्ति, श्रोता पात्रमिति स्मृतः ॥१॥” ततः फलवदेवेदं जिनाख्यातमित्यावेदयाह-'जिनानचीर्ण जिना इह हिताप्त्यनिवर्त्तकयोगसिद्धा