Book Title: Aavashyaksutram Part 02 Author(s): Haribhadrasuri, Publisher: Agamoday Samiti View full book textPage 3
________________ COMMOSAMROCESS तावत्पुण्यमेवापचीयमानं दुःखकारणं, तस्य सुखहेतुत्वेनेष्टत्वात् , स्वल्पस्यापि स्वल्पसुखनिर्वर्तकत्वात् , तथा चाणीयसो| हेमपिण्डादणुरपि सौवर्ण एव घटो भवति, न मार्तिक इति, न च तदभावो दुःखहेतुः, तस्य निरुपाख्यत्वात् , न च सुखाभाव एव स्वसत्ताविकलो दुःखं, तस्यानुभूयमानत्वात् , ततश्च स्वानुरूपकारणपूर्विका दुःखप्रकर्षानुभूतिः, प्रकर्षा-1 नुभूतित्वात् , पुण्यप्रकर्षानुभूतिवत् , न च पुण्यलेश एवानुरूपं कारणमस्या इति, एवं दृष्टान्तोऽप्याभासितव्यः, केवलपुण्यवादनिरासः । केवलपापपक्षेऽपि विपरीतमुपपत्तिजालमिदमेव वाच्यं, नापि तत्सर्वथाऽन्योऽन्यानुविद्धस्वरूपं निरंशवस्त्वन्तरमेव, सर्वथा सम्मिश्रसुखदुःखाख्यकार्यप्रसङ्गाद्, असदृशश्च सुखदुःखानुभवो, देवानां सुखाधिक्यदर्शनात्, नारकाणां च दुःखाधिक्यदर्शनात्, न च सर्वथा सम्मिश्रकरूपस्य हेतोरल्पबहुत्वभेदेऽपि कार्यस्य स्वरूपेण प्रमाणतोऽल्पबहुत्वं विहाय भेदो युज्यते, न हि मेचककारणप्रभवं कार्य्यमन्यतमवर्णोत्कटतां बिभर्ति, तस्मात् सुखातिशयस्यान्यन्निमित्तमन्यच्च दुःखातिशयस्येति।न च सर्वथैकस्य सुखातिशयनिबन्धनांशवृद्धिर्दुःखातिशयकारणांशहान्या सुखातिशयप्रभवाय कल्पयितुं न्याय्या, भेदप्रसङ्गात् , तथा च यदृद्धावपि यस्य वृद्धिर्न भवति तत्ततो भिन्नं प्रतीतमेव, एवं सर्वथैकरूपता पुण्यपापयोर्न घटते, कर्मसामान्यतया त्वविरुद्धाऽपि, यतः-'सात (सद्वेद्य) सम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यमन्यत्पाप (तत्त्वा० अ०८ सू० २६) मिति, सर्व चैतत्कर्म, तस्माद्विविक्ते पुण्यपापे स्त इति । संसारिणश्च सत्त्वस्यैतदुभयमप्यस्ति, किञ्चित्कस्यचिदुपशान्तं किञ्चित्क्षयोपशमतामुपगतं किञ्चित्क्षीणं किञ्चिदुदीर्णम् , अत एव च सुखदुःखातिशयवैचित्र्यं जन्तूनामिति । SCOM JainEducation For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 478