Book Title: Aavashyaksutram Part 02 Author(s): Haribhadrasuri, Publisher: Agamoday Samiti View full book textPage 8
________________ आवश्यक ॥२५५॥ Jain Educa धरो जात इति गाथार्थः ॥ कालद्वारावयवार्थः प्रतिपाद्यते तत्र कालो हि नक्षत्रचन्द्रयोगोपलक्षित इतिकृत्वा यद्यस्य गणभृतो नक्षत्रं तदभिधित्सुराह— | जेट्ठा कित्तिय साई सवणो हत्थुत्तरा महाओ य । रोहिणि उत्तरसाढा मिगसिर तह अस्सिणी पूसो || ६४६ ।। व्याख्या - ज्येष्ठाः कृत्तिकाः स्वातयः श्रवणः हस्त उत्तरो यासां ताः हस्तोत्तरा - उत्तरफाल्गुन्य इत्यर्थः, मघाश्च | रोहिण्यः उत्तराषाढा मृगशिरस्तथा अश्विन्यः पुष्यः, एतानि यथायोगमिन्द्रभूतिप्रमुखानां नक्षत्राणीति गाथार्थः ॥ द्वारम् । जन्मद्वारं प्रतिपाद्यते - मातापित्रायत्तं च जन्मेतिकृत्वा गणभृतां मातापितरावेव प्रतिपादयन्नाह— वसुभूई धमित्ते धम्मिल धणदेव मोरिए चेव । देवे वसू य दत्ते बले य पियरो गणहराणं ॥ ६४७ ॥ व्याख्या - वसुभूतिः धनमित्रः धर्मिलः धनदेवः मौर्यश्चैव देवः वसुश्च दत्तः बलश्च पितरो गणधराणां तत्र त्रयाणामाद्यानामेक एव पिता, शेषाणां तु यथासङ्ख्यं धनमित्रादयोऽवसेया इति गाथार्थः ॥ | पुहवीय वारुणी भद्दिला य विजयदेवा तहा जयंती य । णंदाय वरुणदेवा अहभद्दा य मायरो ॥ ६४८ ॥ दारं ॥ व्याख्या - पृथिवी च वारुणी भद्रिला च विजयदेवा तथा जयन्ती च नन्दा च वरुणदेवा अतिभद्रा च मातरः, तत्र | पृथिवी त्रयाणामाद्यानां माता, शेषास्तु यथासङ्ख्यमन्येषां, नवरं विजयदेवा मण्डिकमौर्य्ययोः पितृभेदेन द्वयोर्माता, धनदेवे पञ्चत्वमुपगते मौर्येण गृहे धृता सैव, अविरोधश्च तस्मिन् देश इति गाथार्थः ॥ गोत्रद्वारप्रतिपादनाय आहतिष्णि य गोयमगोत्ता भारद्दा अग्गिवेसवासिठ्ठा । कासवगोयमहारिय कोडिण्णदुगं च गोत्ताहं ॥ ६४९ ॥ national For Personal & Private Use Only हारिभद्री यवृत्ति विभागः १ ॥२५५॥ Jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 478