SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥२५५॥ Jain Educa धरो जात इति गाथार्थः ॥ कालद्वारावयवार्थः प्रतिपाद्यते तत्र कालो हि नक्षत्रचन्द्रयोगोपलक्षित इतिकृत्वा यद्यस्य गणभृतो नक्षत्रं तदभिधित्सुराह— | जेट्ठा कित्तिय साई सवणो हत्थुत्तरा महाओ य । रोहिणि उत्तरसाढा मिगसिर तह अस्सिणी पूसो || ६४६ ।। व्याख्या - ज्येष्ठाः कृत्तिकाः स्वातयः श्रवणः हस्त उत्तरो यासां ताः हस्तोत्तरा - उत्तरफाल्गुन्य इत्यर्थः, मघाश्च | रोहिण्यः उत्तराषाढा मृगशिरस्तथा अश्विन्यः पुष्यः, एतानि यथायोगमिन्द्रभूतिप्रमुखानां नक्षत्राणीति गाथार्थः ॥ द्वारम् । जन्मद्वारं प्रतिपाद्यते - मातापित्रायत्तं च जन्मेतिकृत्वा गणभृतां मातापितरावेव प्रतिपादयन्नाह— वसुभूई धमित्ते धम्मिल धणदेव मोरिए चेव । देवे वसू य दत्ते बले य पियरो गणहराणं ॥ ६४७ ॥ व्याख्या - वसुभूतिः धनमित्रः धर्मिलः धनदेवः मौर्यश्चैव देवः वसुश्च दत्तः बलश्च पितरो गणधराणां तत्र त्रयाणामाद्यानामेक एव पिता, शेषाणां तु यथासङ्ख्यं धनमित्रादयोऽवसेया इति गाथार्थः ॥ | पुहवीय वारुणी भद्दिला य विजयदेवा तहा जयंती य । णंदाय वरुणदेवा अहभद्दा य मायरो ॥ ६४८ ॥ दारं ॥ व्याख्या - पृथिवी च वारुणी भद्रिला च विजयदेवा तथा जयन्ती च नन्दा च वरुणदेवा अतिभद्रा च मातरः, तत्र | पृथिवी त्रयाणामाद्यानां माता, शेषास्तु यथासङ्ख्यमन्येषां, नवरं विजयदेवा मण्डिकमौर्य्ययोः पितृभेदेन द्वयोर्माता, धनदेवे पञ्चत्वमुपगते मौर्येण गृहे धृता सैव, अविरोधश्च तस्मिन् देश इति गाथार्थः ॥ गोत्रद्वारप्रतिपादनाय आहतिष्णि य गोयमगोत्ता भारद्दा अग्गिवेसवासिठ्ठा । कासवगोयमहारिय कोडिण्णदुगं च गोत्ताहं ॥ ६४९ ॥ national For Personal & Private Use Only हारिभद्री यवृत्ति विभागः १ ॥२५५॥ Jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy