SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ तद्वक्तव्यं जन्मभूमिः, तथा कालो नक्षत्रचन्द्रयोगोपलक्षितो वाच्यः, जन्म वक्तव्यं, तच्च मातापित्रायत्तमित्यतो मातापितरौ वाच्यौ, गोत्रं यद्यस्य तद्वाच्यम् , 'अगारछउमत्थपरियाए' त्ति पर्यायशब्दः उभयत्राप्यभिसम्बध्यते, अगारपर्यायोगृहस्थपर्यायो वाच्यः, तथा छद्मस्थपर्यायश्चेति, तथा केवलिपर्यायो वाच्यः, सर्वायुष्कं वाच्यं, तथा आगमो वाच्यः, कः कस्यागम आसीत् ?, परिनिर्वाणं वाच्यं, कस्य भगवति जीवति सति आसीत् कस्य वा मृते इति, तपश्च वक्तव्यं, किं| केनापवर्ग गच्छता तप आचरितमिति ?, चशब्दात्संहननादि च वाच्यम्, इति गाथासमुदायार्थः ॥ इदानीमयवयवार्थः। प्रतिपाद्यते-तत्र क्षेत्रद्वारावयवार्थाभिधित्सयाऽऽह| मगहा गोब्बरगामे जाया तिण्णेव गोयमसगोत्ता । कोल्लागसन्निवेसे जाओं विअत्तो सुहम्मो य ॥३४३॥ व्याख्या-मगधाविषये गोबरग्रामे सन्निवेशे जातास्त्रय एवाद्याः 'गोयमे'त्ति एते त्रयोऽपि गौतमसगोत्रा इति, कोल्लागसन्निवेशे जातो व्यक्तः सुधर्मश्चेति गाथार्थः ॥ | मोरीयसन्निवेसे दो भायरो मंडिमोरिया जाया । अयलो य कोसला' महिलाए अकंपिओ जाओ॥ ६४४ ॥ ___ व्याख्या-मौर्यसन्निवेशे द्वौ भ्रातरौ मण्डिकमौर्यों जाती, अचलश्च कौशलायां मिथिलायामकम्पिको जात इति गाथार्थः॥ तुंगीय सन्निवेसे मेयजो वच्छभूमि' जाओ। भगवंपि य प्पभासो रायगिहे गणहरो जाओ॥६४५॥ दारं॥ व्याख्या-तुङ्गिकसन्निवेशे मेतार्यों वत्सभूमौ जातः, कोशाम्बीविषय इत्यर्थः, भगवानपि च प्रभासो राजगृहे गण Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy