________________
व्याख्या—त्रयश्च गौतमगोत्राः इन्द्रभूत्यादयः, भारद्वाजाग्निवैश्यायनवाशिष्टाः यथायोगं व्यक्तसुधर्ममण्डिकाः, काश्यप गौतम हारीत सगोत्राः मौर्याकम्पिक चलभ्रातर इति, कौण्डिन्यसगोत्रौ द्वौ मेतार्यप्रभासावित्येतानि गणधराणां गोत्राणीति गाथार्थः ॥ द्वारम् || अगारपर्यायद्वारव्याचिख्यासयाऽऽह—
पण छायालीसा बायाला होइ पण्ण पण्णा य । तेवण्ण पंचसडी अडयालीसा य छायाला ॥। ६५० ॥ व्याख्या – पञ्चाशत् षडुत्वारिंशत् द्विचत्वारिंशत् भवति पञ्चाशत् पञ्चाशच्च त्रिपञ्चाशत् पञ्चषष्टिः अष्टचत्वारिंशत् षटूचत्वारिंशत् इति गाथार्थः ॥
छत्तीसा सोलसगं अगारवासो भवे गणहराणं । छउमस्थयपरियागं अहकमं कित्तइस्सामि ॥ ६५९ ॥ दारं ॥ व्याख्या - षटूत्रिंशत् षोडशकम् 'अगारवासो' गृहवासो यथासत्यम् एतावान् गणधराणाम् इति गाथार्द्धम् । द्वारम् । अनन्तरद्वारावयवार्थप्रतिपिपादयिषयाऽऽह पश्चार्द्ध - छद्मस्थपर्यायं 'यथाक्रमं ' यथायोगं कीर्त्तयिष्यामि इति गाथार्थः ॥ तीसा बारस दसगं बारस बायाल चोद्द सदुगं च । णवगं बारस दस अट्ठगं च छउमत्थपरियाओ ॥ ६५२ ॥ दारं ॥ गाथेयं निगदसिद्धा ॥ केवलिपर्यायपरिज्ञानोपायप्रतिपादनायाह
छउमत्थपरीयागं अगारवासं च वोगसित्ता णं । सव्वाउगस्स सेसं जिणपरियागं वियाणाहि ॥ ६५३ ॥ व्याख्या—छद्मस्थपर्यायम् अगारवासं च व्यवकलय्य सर्वायुष्कस्य शेषं जिनपर्यायं विजानीहीति गाथार्थः ॥ स चायं जिनपर्यायः -
Jain Educationonal
For Personal & Private Use Only
nelibrary.org