Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 6
________________ आवश्यक हारिभद्री| यवृत्तिः विभाग: १ ॥२५४॥ शबलाकारा, जरामय्यवचनाच्च तस्याः सदाकरणमुक्त, सा चाभ्युदयफला, कालान्तरं च नास्ति यस्मिन्नपवर्गप्रापणक्रि- यारम्भ इति, तस्मात्साधनाभावान्नास्ति मोक्षः, ततश्चामूनि मोक्षाभावप्रतिपादकानि, शेषाणि तु तदस्तित्वख्यापकानीत्यतः संशयः, तथा संसाराभावो मोक्षः, संसारश्च तिर्यग्नरनारकामरभवरूपः, तद्भावानतिरिक्तश्चात्मा, ततश्च तदभावे आत्मनोऽप्यभाव एवेति कुतो मोक्षः। तत्र वेदानां चार्थ न जानासि, तेषामयमर्थः-'जरामय्यं वा वाशब्दोऽप्यर्थे, ततश्च यावज्जीवमपि, न तु नियोगत इति, ततश्चापवर्गप्रापणक्रियारम्भकालास्तिताऽनिवार्य्या, न च संसाराभावे तदव्यतिरिक्तत्वात् आत्मनोऽप्यभावो युज्यते, तस्यात्मपर्यायरूपत्वात् , न च पर्यायनिवृत्तौ पर्यायिणः सर्वथा निवृत्तिरिति, तथा च हेमकुण्डलयोरनन्यत्वं, न च कुण्डलपर्यायनिवृत्तौ हेनोऽपि सर्वथा निवृत्तिः, तथाऽनुभवात् , इत्थं चैतदङ्गीकर्तव्यम् , अन्यथा पर्यायनिवृत्तौ पर्यायिणः सर्वथा निवृत्त्यभ्युपगमे पर्यायान्तरानुपपत्तिः प्राप्नोति, कारणाभावात्, तदभावस्य च सर्वदाऽविशिष्टत्वात् , तस्मात्संसारनिवृत्तावप्यात्मनो भावात् वस्तुस्वरूपो मोक्ष इति ॥ छिण्णमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि उ सह खंडियसएहिं ॥ ६४१॥ व्याख्या-पूर्ववदेव । एकादशो गणधरः समाप्तः। उक्ता गणधरसंशयापनयनवक्तव्यता । साम्प्रतमेतेषामेव वक्तव्यताशेषप्रतिपिपादयिषया द्वारगाथामाहखेत्ते काले जम्मे गोत्तमगार छउमत्थपरियाए। केवलिय आउ आगम परिणेव्वाणे तवे चेव ॥६४२॥ दारगाहा एकारान्ताः शब्दाः प्राकृतशैल्या प्रथमैकवचनान्ता द्रष्टव्याः, ततश्च गणधरानधिकृत्य क्षेत्रं-जनपदग्रामनगरादि ॥२५४॥ Jalt Educat i onal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 478