Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 7
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [-], उद्देशक [-1, मूलं [-], नियुक्ति: [१], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: योहियसिद्धा इत्थीलिंगसिद्धा पुरिसलिंगसिद्धा नपुंसगलिंगसिद्धा सलिंगसिद्धा अन्नलिंगसिद्धा गिहिलिंगसिद्धा एगसिद्धा अणेगसिद्धा" इत्यत आह-'सर्वसिद्धेश्यः सर्वे च ते सिद्धाश्चेति समासस्तेभ्यः, अ-12 थवा-सिद्धिगतिमुपगतेभ्यः' इत्यनेन सर्वथा सर्वगतात्मसिद्धपक्षप्रतिपादनपरदुर्नयस्य व्यवच्छेदमाह, तथा| चोक्तमधिकृतनयमतानुसारिभिः- "गुणसत्त्वान्तरज्ञानानिवृत्तप्रकृतिक्रियाः । मुक्ताः सर्वत्र तिष्ठन्ति, व्यो-मा ६ मवत्तापवर्जिताः॥१॥" व्यवच्छेदश्चतेषां सामीप्येन सर्वात्मना सिद्धिगतिगमनाभावात्, 'कर्मविशुद्धेश्या' दाइत्यनेन तु सकर्मकाणिमादिविचित्रैश्वर्यवत्सिद्धप्रतिपादनपरस्येति, उक्तं च प्रक्रान्तनयदर्शनाभिनिविष्टे: "अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा । मोदन्ते सर्वभावज्ञास्तीर्णाः परमदुस्तरम् ॥१॥” इत्यादि, व्यवच्छेदश्चैतेषां कर्मसंयोगेन अनिष्ठितार्थत्वाद्वस्तुतः सिद्धत्वानुपपत्तेरिति, 'सर्वसिद्धेभ्यः' इत्यनेन तु भगधैव सर्वथा अद्वैतपक्षसिद्धप्रतिपादनपरस्येति, तथा चोक्तं प्रस्तुतनयाभिप्रायमतावलम्बिभिः-"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥ १॥” व्यवच्छेदश्चास्य सर्वथा अद्वैते बहु वचनगर्भसर्वशब्दाभावात् [सिद्धिगतिगमनाभावात्। 'नत्वा प्रणम्येति, अनेन तु समानकर्तृकयोः पूर्वहै काले क्त्वाप्रत्ययविधानान्नित्यानित्यैकान्तवादासाधुत्वमाह, तत्र क्वाप्रत्ययार्थानुपपत्तेः, तत्र नित्यैकान्तवादे वातावदात्मन एकान्तनित्यत्वादपच्युतानुत्पन्नस्थिरैकस्वभावत्वाद्भिन्नकालक्रियाद्वयकर्तृत्वानुपपत्तेः, क्षणिकैका १ गुणाः सत्वरजस्तमोरूपाः सत्त्वमात्मा तयोरन्तर विशेष इति वि. प. T ~6~Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 577