________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [-], उद्देशक [-1, मूलं [-], नियुक्ति: [१], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
योहियसिद्धा इत्थीलिंगसिद्धा पुरिसलिंगसिद्धा नपुंसगलिंगसिद्धा सलिंगसिद्धा अन्नलिंगसिद्धा गिहिलिंगसिद्धा एगसिद्धा अणेगसिद्धा" इत्यत आह-'सर्वसिद्धेश्यः सर्वे च ते सिद्धाश्चेति समासस्तेभ्यः, अ-12 थवा-सिद्धिगतिमुपगतेभ्यः' इत्यनेन सर्वथा सर्वगतात्मसिद्धपक्षप्रतिपादनपरदुर्नयस्य व्यवच्छेदमाह, तथा|
चोक्तमधिकृतनयमतानुसारिभिः- "गुणसत्त्वान्तरज्ञानानिवृत्तप्रकृतिक्रियाः । मुक्ताः सर्वत्र तिष्ठन्ति, व्यो-मा ६ मवत्तापवर्जिताः॥१॥" व्यवच्छेदश्चतेषां सामीप्येन सर्वात्मना सिद्धिगतिगमनाभावात्, 'कर्मविशुद्धेश्या' दाइत्यनेन तु सकर्मकाणिमादिविचित्रैश्वर्यवत्सिद्धप्रतिपादनपरस्येति, उक्तं च प्रक्रान्तनयदर्शनाभिनिविष्टे:
"अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा । मोदन्ते सर्वभावज्ञास्तीर्णाः परमदुस्तरम् ॥१॥” इत्यादि, व्यवच्छेदश्चैतेषां कर्मसंयोगेन अनिष्ठितार्थत्वाद्वस्तुतः सिद्धत्वानुपपत्तेरिति, 'सर्वसिद्धेभ्यः' इत्यनेन तु भगधैव सर्वथा अद्वैतपक्षसिद्धप्रतिपादनपरस्येति, तथा चोक्तं प्रस्तुतनयाभिप्रायमतावलम्बिभिः-"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥ १॥” व्यवच्छेदश्चास्य सर्वथा अद्वैते बहु
वचनगर्भसर्वशब्दाभावात् [सिद्धिगतिगमनाभावात्। 'नत्वा प्रणम्येति, अनेन तु समानकर्तृकयोः पूर्वहै काले क्त्वाप्रत्ययविधानान्नित्यानित्यैकान्तवादासाधुत्वमाह, तत्र क्वाप्रत्ययार्थानुपपत्तेः, तत्र नित्यैकान्तवादे वातावदात्मन एकान्तनित्यत्वादपच्युतानुत्पन्नस्थिरैकस्वभावत्वाद्भिन्नकालक्रियाद्वयकर्तृत्वानुपपत्तेः, क्षणिकैका
१ गुणाः सत्वरजस्तमोरूपाः सत्त्वमात्मा तयोरन्तर विशेष इति वि. प.
T
~6~