Book Title: Vachak Siddhachandra Gani Krut Mangalvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229319/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ वाचक- सिद्धिचन्द्रगणिकृतः मङ्गलवादः ॥ - सं. विजयशीलचन्द्रसूरि विक्रमना १६मा तथा १७मा शतको मां प्रभावशाली जैनाचार्य श्रीहीरविजयसूरिजीए तथा तेमना प्रतापी शिष्य-प्रशिष्योए ज्ञानाभ्यास अने साहित्यसर्जनना क्षेत्रे जे खेडाण कर्यु छे, तेनी तुलना तो मात्र ११ - १२मा शतकमां, सोलंकीकाळमां थयेला साहित्यिक खेडाण साथै ज करी शकाय तेम छे. आ समयमा अनेक जैन मुनिवरोए काव्य, साहित्य, अलंकार, तर्क, व्याकरण, आगम वगेरे विषयो पर ग्रंथो तेमज टीकाग्रंथोनो मबलख फाल आप्यो छे, जेनी नोंध लीधा विना कोई इतिहासकार रही न शके. आ सर्जक वृन्दमांना ज एक समर्थ ग्रंथकार ते वाचक सिद्धिचन्द्र गणि. पोताना गुरु वाचक भानुचन्द्र गणिनी साधे, गुर्वाज्ञानुसार तथा बादशाहोनी विनंतिथी, शाह अकबर तेमज जहांगीरना दरबारोमां दायकाओ पर्यंत शाहमान्य पवित्र विद्वान धर्मोपदेशक साधु तरीकेनुं स्थान- मान भोगवनार, अकबरना हाथे "खुशफहम "नुं बिरुद प्राप्त करनार, १०८ अवधानो करनार, रूप, वाक्पटुता, विद्वत्ता अने फकीरीने कारणे बादशाहो तथा नूरजहां जेवी बेगमोने पण प्रभावित करनार वाचक सिद्धिचन्द्र गणिए रचेला ग्रंथोनी उपलब्ध यादी आ प्रमाणे छेः कादम्बरी-वृत्ति (उत्तरार्ध), वासवदत्ता - वृत्ति, विवेकविलास वृत्ति, काव्यप्रकाशखण्डन, अनेकार्थनाममाला( अमरकोषनानार्थ) वृत्ति, भानुचन्द्रगणिचरित, प्राकृतसुभाषितसंग्रह, मंगलवाद इत्यादि. पोतानो अछडतो परिचय आपतां वासवदत्ता -वृत्तिना आरंभमां तेओए जे नोंध आपी छे, ते अत्यंत महत्त्वपूर्ण तथा अचंबो पमाडे तेवी छे : तत्पट्टपाथोनिधिवृद्धिचन्द्रः श्रीसिद्धिचन्द्राभिधवाचकेन्द्रः । बाल्येऽपि यं वीक्ष्य मनोज्ञरूप-मकब्बरः पुत्रपदं प्रपेदे ॥ पुनर्जहांगीरनरेन्द्रचन्द्र - प्रदीयमानामपि कामिनीं यः । हठेन नोरीकृतवान् युवाऽपि, प्रत्यक्षमेतत् खलु चित्रमत्र ॥ सिद्धिचन्द्र गणि पण, पोताना समयनी परंपरानुसार 'न्यायचिन्तामणि' ग्रंथना प्रकांड अध्येता हता. ते अध्ययनना परिणामे खीली उठेली तेमनी तार्किक प्रज्ञानो उन्मेष, तेमना काव्यप्रकाशखण्डन तथा प्रस्तुत 'मंगलवाद' जेवा ग्रंथोमां प्रगटतो जोवा मळे छे.. Page #2 -------------------------------------------------------------------------- ________________ 'मंगलवाद' ए तेमनी अप्रकट रचना तो छे ज, परंतु अज्ञात रचना पण छे. जैन साहित्यनो संक्षिप्त इतिहास (मो.द.देसाई) तथा जैन परम्परानो इतिहास (दर्शनविजयजी त्रिपुर्य) जेवा संदर्भ ग्रंथोमां एमनी विविध कृतिओनी उपलब्ध यादीओमां पण 'मंगलवाद'नुं नाम नथी. आ ग्रंथनी नकल पण अद्यावधि क्याय जोवा मळी नथी. आनी एक मात्र प्रति, ते पण ग्रंथकार मुनिराजना पोताना ज हस्ताक्षरमां, भावनगरनी श्री जैन आत्मानन्द सभामांना पं. श्री भक्तिविजयजी ग्रंथसंग्रहमां मोजूद छे. तेनी झेरोक्स नकलना आधारे आ संपादन अहीं प्रस्तुत छे. नवीन न्यायना अभ्यासीओ मंगलवाद अने ईश्वरवादथी अवश्य परिचित होय ज. एमां ज एमनी तार्किकतानो पायो नंखातो होय छे. एज कारणे आ विषय एमने माटे रसप्रद पण बनी ज रहेवानो. आवा मजाना विषयने लईने रचाएली एक कृतिनो उद्धार आ स्वरूपे थई शके छे तेनो आनंद छे. __ आ ग्रंथनी झेरोक्स नकल करावी आपवा बदल, भावनगरनी श्रीजैन आत्मानन्द सभाना तंत्रवाहकोनो आभार मानुं छु. वाचक सिद्धिचन्द्र गणि विशे अत्रे नोंधेली केटलीक विगतो "जैन परंपरानो इतिहास-३" (ले. त्रिपुटी-मुनि दर्शनविजयजी, ई. १९६४, अमदावाद)न्य आधारे लीधेल छे. --x--x-- वाचक सिद्धिचन्द्रगणिकृतः मङ्गलवादः एँ नमः ॥ शवेश्वरपुराधीशं श्रेयोवल्लीनवाम्बुदम् । विघ्नौघमत्तमातङ्ग-पञ्चास्यं श्रीजिनं भजे ॥१॥ अथ मङ्गलवादः प्रारभ्यते ॥ तत्र "मङ्गलमङ्गं . ग्रन्थः प्रधानं, समाप्तिः फलं, विघ्नध्वंसो द्वारं" इत्युदयनाचार्यः । अङ्गत्वं च यद्यपि न तावत् फलवत्सन्निधिमत्त्वे सत्यफलत्वं, मङ्गले ऽफलत्वाभावात् समाप्तिफलकत्वात् । नाऽपि प्रधानफलाति Page #3 -------------------------------------------------------------------------- ________________ रिक्तफलाजनकत्वं, मङ्गलेन प्रधानफलातिरिक्तस्य प्रधानस्यैव जननात् । नाऽपि प्रधानतत्फलातिरिक्तफलाजनकत्वं, विघ्नध्वंसस्य तदुभयभिन्नस्य जननात् । तथापि अधिकाररूपकामनाविषयप्रधानतत्फलातिरिक्तफलाजनकत्वमेवाऽङ्गत्वम् । विघ्नध्वंसकामना तु नाऽधिकाररूपा, यत्कामनया प्रवर्तते तस्या एवाऽधिकाररूपत्वात् । सा च प्रस्तुते समाप्तिकामनैव । न चैवं खादिरताऽङ्गं न स्यात, अधिकाररूपकामनाविषयवीर्यलक्षणफलसाधनत्वादिति वाच्यं, वीर्यस्य प्रधानव्यतिरेकेण व्यतिरेके प्रधान फलत्वादेव। न हि यागं विक्रियमाणः खादिरो यूपो वीर्याय भवतीत्यन्यत्र विस्तरः । मङ्गलं प्रधानं, अदृष्टं द्वारं, समाप्तिः फलमित्येके। विघ्नसंसर्गाभाव एव द्वारमित्यपरे। मङ्गलं प्रधानं, विघ्नप्रागभाव एव फलमित्यन्ये । मङ्गलं प्रधानं, विघ्नध्वंस: फलमिति चिन्तामणिकृतः । तत्र चिन्तामणिकारीय एव पक्षश्चेतसि चमत्कारमादधान: पक्षान्तरस्पृहामपि निवर्तयति। तथाहि- न तावन्मङ्गलं समाप्तिकारणं, अन्वयव्यतिरेकव्यभिचाराभ्यां मङ्गले सत्यप्यसमासे:, मङ्गलं विनाऽपि समाप्तेः । न च नाऽन्वयव्यभिचारो दोषाय, दण्डे सति क्वचिद् घटाभावदर्शनात्, दण्डस्य कारणत्वाभावापत्तेरिति वाच्यं, लौकिकस्थले तस्याऽदोषत्वेऽपि वैदिकस्थले दोषत्वात् । अन्यथाऽन्वयव्यभिचारशङ्कया वैदिके कर्मणि क्वापि निःशङ्कं न प्रवर्तेत । न चाऽयं प्रधानो नियमो न त्वङ्गे कृतप्रयाजस्यापि ज्योतिःष्टोमं विना स्वर्गादर्शनादिति वाच्यं, तथापि व्यतिरेकव्यभिचारस्य वज्रलेपत्वात् । प्रयाजं विना स्वर्गाभाव इति व्यतिरेकस्य प्रयाजेऽङ्गेऽपि सत्त्वात्, प्रकृते तदभावाच्च । अत्र केचित् जन्मान्तरीयमङ्गलस्य तत्र कारणत्वेन न व्यतिरेकव्यभिचार इत्याहुः । तन्न, ऐहिकसमाप्ति प्रति जन्मान्तरीयमङ्गलस्याऽहेतुत्वात् । 'इदं मे समाप्यतां' इति कामनया क्रियमाणस्य तस्य तदानींतनसमाप्तिकारणताङ्गीकारात् । पुढेष्ट्यादौ तु ऐहिकपुत्रबाधे आमुष्मिकं फलं कल्प्यते, तत्र सामान्यतः पुत्रमात्रस्य कामनाश्रवणात् । Page #4 -------------------------------------------------------------------------- ________________ अन्ये तु - "श्रुत्या हि कारणत्वं बोध्यते । सा च व्यतिरेकव्यभिचारग्रस्ता कारणतां बोधयितुं न शक्नोति । ततो व्यभिचारपरिहाराय जन्मान्तरीयमङ्गलानुमान वाच्यम्। तथा चाऽन्योन्याश्रयः। तथा हि-जन्मान्तरीयमङ्गलेऽनुमतेऽव्यभिचारेण श्रुतिः कारणतां बोधयितुं शक्नोति, श्रुत्या च कारणत्वे बोधिते जन्मान्तरीयमङ्गलमनुमातुं शक्यत" इति प्रावीचन् । तन्न, कारणताग्रहो न जन्मान्तरीयमङ्गलसाध्यो येनाऽन्योन्याश्रयः स्यात् । न च तदनुपस्थितौ व्यभिचारग्रहस्य विद्यमानत्वात् कथं कारणताग्रह इति वाच्यं, आचारकल्पित श्रुत्या कारणतावगमसमये जन्मान्तरीयमङ्गलसन्देहेन व्यभिचारनिश्चयस्याऽभावात्, तत्संशयस्य योग्यतासंशयपर्यवसन्नत्वेनाऽनुगुणत्वात् । यत्तु, "कारणताग्रहो व्यभिचारग्रहे भवत्येव, यथा वह्नि प्रति तृणादेरिति", तदपि न ; तृणारणिमणिस्थलेऽकार्याकारणव्यावृत्तरूपं वह्निनिष्ठकार्यतानिरूपितकारणतावच्छेदकरूपवत्त्वं तृणादौ, तृणारणिमणिनिष्ठकारणताप्रतियोगिककार्यतावच्छेदकरूपवत्त्वं वह्नौ वा परिच्छिद्यत इति, तृणत्ववह्नित्वाद्यवच्छेदेन कार्यकारणग्रहाभावात् । न च-तृ णत्वे वह्नित्वाद्यवच्छेदेन कार्यकारणभावाग्र हे ऽपि तत्सामानाधिकरण्येन तु कार्यकारणभावग्रहे बाधकाभावः । तदवच्छिन्नव्यभिचारग्रहस्य तदवच्छिन्नका[ण]ताग्रहप्रतिबन्धकत्वात् । तद्वदेवाऽत्राऽपि कारणताग्रहोऽस्त्विति वाच्यं, अरणिमण्यभाववति स्तोमे तृणान्वयव्यतिरेकवदिह तद्ग्राहकस्याऽभावात् । न च श्रुत्यैव समाप्तित्वमङ्गलत्वसामानाधिकरण्येन कार्यकारणभावग्रहे बाधकाभावः, पूर्वोक्तन्यायेन व्यभिचारज्ञानस्याऽप्रतिबन्धकत्वादितिवाच्यं, समाप्तित्वमङ्गलत्वाद्यवच्छेदेनैव कार्यकारणभावस्य परेण क्षिप्तत्वात् ।। तस्मात् माऽस्तु समाप्तिमात्रं प्रति कारणता, व्यभिचारेण, समाप्तिविशेषे तु भविष्यति, तत्र व्यभिचाराभावात् । यथा यागस्य न स्वर्गमात्रे कारणता, गङ्गास्नानजन्ये स्वर्गे व्यभिचारात् ; स्वर्गविशेषे त्वस्त्येव । Page #5 -------------------------------------------------------------------------- ________________ ननु स्वर्गे जातिरूपो विशेषः सम्भवति समाप्तौ तु न सम्भवति । तथाहि - न हि चरमवर्ण- तद्ध्वंस-तदुच्चारणानि समाप्तयः, मौनिकृतग्रन्थसमाप्त्यव्यापनात् । तेन हि केनचिदुत्पादितस्य वर्णस्याऽनुसन्धानमात्रं क्रियते न तु वर्णादिकमुच्चार्यते । तथा च चरमवर्णज्ञानं समाप्तिर्वाच्या। न च तत्र जातिः सम्भवति, चरमवर्णज्ञानस्य मानसादिभेदभिन्नतया तत्र जातिस्वीकारे • जातिसाङ्कर्यापत्तेः । न हि यत्र मानसत्वं तत्र सा जातिः सम्भवति, सुखादिसाक्षात्कारे मानसत्वसत्त्वेन तज्जातेरभावात्, श्रावणादिरूपे चरमवर्णज्ञाने तज्जातिसत्त्वेन मानसत्वाभावात्, उपनयमादाय मानसे चरमवर्णज्ञाने द्वयसत्त्वात्। तस्मात् कथं मङ्गलस्य समाप्तिविशेषे कारणत्वमिति चेत् ? न, उपाधिरूपस्यैव विशेषस्य सत्त्वात् । स तु नाऽखण्ड उपाधिः सखण्डसम्भवे स्वीकारार्हः, गुरुत्वात् । सखण्डापेक्षया हि तस्येदमेव गौरवं यदक्लृप्तकल्पनेति । सखण्डे हि घटका विशेषणादयः । तेषां परस्परं सम्बन्धः क्लृप्त एव । यथा पाचकत्वमित्यादौ पाककृत्यादेः। अखण्डस्तूपाधिभिन्न एव स्यादिति सखण्डो वाच्यः । स च न विघ्नस्थलीयसमाप्तित्वम् । विघ्नस्थलीयत्वं हि विघ्नसमानकालीनत्वम् । तन्न, असम्भवात् । न हि प्रतिबन्धकसमकालीनं कार्यत्वं सम्भवति । विघ्नोत्तरकालीनं चेत्तदा व्यभिचारः, गङ्गास्नानेन दशविधपापान्तरगततया विघ्ने नष्टे विघ्नोत्तरसमाप्तेर्मङ्गलं विनाऽपि भावात् । नाऽपि विघ्नध्वंसस्थलीयसमाप्तित्वं, गङ्गास्नानजन्यविघ्नध्वंसस्थलीयसमाप्तेस्तेन विनाऽपि भावात् । नाऽपि मङ्गलजन्यविघ्न ध्वंसस्थलीयसमाप्तित्वं, अन्यथासिद्धेः, येन विघ्नध्वंसादिनाऽन्या समाप्तिस्तेनैव प्रकृताया अपि सम्भवात् । अन्यथा गङ्गास्नानादिजन्यविघ्नध्वंसजन्यसमाप्ति प्रति गङ्गास्नानस्यापि जनकतापत्तेः । ___ अत एव न मङ्गलव्यापारीभूतविघ्नध्वंसजन्यसमाप्तित्वमपि कार्यतावच्छेदकं, आत्माश्रयाच्चाऽवच्छेद्यस्याऽवच्छेदके प्रवेशात् । समाप्तिनिष्ठमङ्गलजन्यता ह्यवच्छेद्या, तच्चावच्छेदके प्रविशति । मङ्गलव्यापारीभूतत्वं Page #6 -------------------------------------------------------------------------- ________________ मङ्गलजन्यत्वे सति मङ्गलजन्यजनकत्वं, तत्र मङ्गलजन्यजनकत्वमित्यत्र मङ्गलजन्यपदेन समाप्तेरेव ग्रहणात् भवत्यवच्छेदकेऽवच्छेद्यप्रवेशः । किञ्च, यदि मङ्गलत्वेन तादृशकार्य प्रति जनकता तर्बेकमङ्गलादपि बहुविघ्नस्थलीयसमाप्त्यापत्तिः, जनकतावच्छेदकावच्छिन्नयत्किञ्चित्सत्त्व एव कार्योत्पत्तेः । न च, प्रकृतसमाप्तिविघ्नसमसङ्ख्यमङ्गलत्वेन जनकता, समसङ्ख्यत्वं हि नाऽन्यूनानधिकसङ्ख्यात्वं, अधिकसङ्ख्यमङ्गलस्थले समाप्त्यनापत्तेः । नाऽप्यन्यूनसङ्ख्यमङ्गलत्वं, यत्र बहवो विघ्ना द्वित्रा गङ्गास्नानादिभिर्नाशिताः, द्वित्राश्च मङ्गलैः, तत्र समाप्ति प्रति मङ्गलस्य न्यूनसङ्ख्यत्वेनाऽकारणतापत्तेः । न च स्वनाश्यविघ्नाऽन्यूनसङ्ख्यमङ्गलत्वेन कारणता, एकमङ्गलस्थले बहुविघ्नस्थलीयसमाप्त्यापत्तेः स्वनाश्यविघ्नेनैकमङ्गलस्याऽन्यूनसङ्ख्यत्वात् । न च प्रायश्चित्ताद्यनाश्यविघ्नान्यूनसङ्ख्यमङ्गलत्वेन कारणत्वं, प्रायश्चित्ताधनाश्यविघ्नस्थलीयसमाप्तित्वेन कार्यत्वमिति वाच्यं, अन्यथासिद्धेरिति चेत् , न, विघ्नध्वंसेन ह्यन्यथासिद्धिरुच्यते. सा च न सम्भवति, प्रामाणिके कारणेऽन्यथासिद्धेर्वक्तुमशक्यत्वात् । अन्यथा पूर्वेण यागोऽप्यन्यथासिद्धः स्यात्। प्रमाणं चात्र ‘स्वर्गकामो यजेते'तिवत् 'समाप्तिकामो मङ्गलमाचरेदिति श्रुतिरेव । विधिना हीष्टसाधनत्वं बोध्यते, साधनं च साध्याकाङ्क्षीति काम्यतया साध्यतयोपस्थितौ साधनासाकाङ्क्षौ समाप्तिस्वर्गावेत(तौ) तत्रान्वितौ यतो भवतः। न च व्यापारेण व्यापारिणो नाऽन्यथासिद्धिः, प्रकृतेऽपि तुल्यत्वात् । न च व्यभिचारेण प्रकृते श्रुतिः कारणतां बोधयितुं शक्नोतीति वाच्यं; यागेऽपि तुल्यत्वात्, गङ्गास्नानादितोऽपि स्वर्गोत्पत्तेः । न च तत्र तत्र स्वर्गविशेषे जनकत्वं, समाप्तिविशेषे प्रकृतेऽपि जनकत्वसम्भवात् । ततो नाऽन्यथासिद्धम् । न चैकमङ्गलादपि बहुविघ्नस्थलीयसमाप्त्यापत्तिः। विघ्नो हि प्रतिबन्धकस्तदभावश्च प्रत्येकाभावत्वेन कारणम् । तथा वैकविघ्नसत्त्वेऽपि विघ्नान्तरा Page #7 -------------------------------------------------------------------------- ________________ भावविलम्बादेव कार्यविलम्बः । एकस्मादनेकविघ्ननाशस्तु न भवति, तत्तन्मङ्गलत्वेन तत्तद्विघ्न ध्वंसत्वेन कार्यकारणभावोपगमादिति । न ह्येकविघ्नसत्त्वेऽपरविघ्ननाशे कार्योत्पत्तिर्वक्तुं शक्यते, एकमण्यभावेऽपरमणिसत्त्वे दाहापत्तेः । न च द्वारफले सत्येकरूपेणैव जनकता, सा च प्रकृते नास्ति, तत्तन्मङ्गलत्वेन द्वारे मङ्गलत्वेन च फलजनकसत्त्वादिति वाच्यं, चक्षुषो द्रव्यत्वेन संयोगं प्रति चक्षुष्वेन चाक्षुषज्ञानं प्रति कारणत्वकल्पनादिति । अत्र ब्रूमः । किमिह मङ्गलस्य समासिजनकताबोधने प्रमाणम् ? ननु निरुक्ता श्रुतिरेवेति चेत् , न, तस्याः प्रत्यक्षाया अभावात् । अनुमितेति चेत् , न, लिङ्गाभावात् । शिष्टाचार एवानुमापक इति चेत् , न, शिष्टाचारेण वेदमात्रानुमानेऽपि समाप्तिसाधनताबोधकस्याऽनुमातुमशक्यत्वात् दर्शादौ व्यभिचारात् । समाप्तिकामशिष्टाचारेण तदनुमानमिति चेत् , न, दृष्टान्ताभावात्। ननु व्यतिरेके व्याप्तिग्रहो यद्वा पक्षधर्मताबलादेव तादृशो वेदः सिध्यति, समाप्तिकामशिष्टाचारस्यैव पक्षत्वादिति चेत् , न, के नचित् मङ्गलं विघ्नध्वंसकामेन, परेण विघ्नानुत्पादकामेन, अन्येन विघ्नांसविशिष्टसमाप्तिकामेन, इतरेण विघ्नप्रागभावविशिष्टसमाप्तिकामेन क्रियत इति तादृशाचाराणां पक्षत्वे तावच्छ्रुतेरुनयनप्रसङ्गात् लाघवसहकारेण समाप्तिसाधनताबोध(धि) कैव श्रुतिरुनीयत इति चेत् , न, पन्थानमनुसृतोऽसि, समाप्तिफलकत्वे विघ्नध्वंसं प्रत्यपि जनकत्वे गौरवेण लाघवेन विघ्नध्वंसफलकत्वबोधक श्रुतेरेवानुमातुमुचितत्वात् । न च विघ्नप्रागभाव एव फलमस्तु, तत्रापि विघ्नकारणविनाशस्य द्वारतायां गौरवात् । तस्मात् चिन्तामणिकारीयमतमनुमतं च श्रीप्रगल्भचरणादिभिर्न कस्यचिदतिसाहसिनो वचनमात्रेण प्रेक्षापूर्वकारिणामुपेक्षायोग्यमिति सक्षेपः । । मङ्गलत्वं च न जातिः, जातिसङ्करापत्तेः । तथाहि, यत्र संयोगत्वं तत्र वा मङ्गलत्वं, यत्र वा मङ्गलत्वं तत्र वा संयोगत्वम्। घटपटसंयोगे संयोगत्वं वर्तते मङ्गलत्वं नास्ति । मङ्गलत्वं च वाचनिकेन संयोगत्वं, कायिके च द्वितयमिति Page #8 -------------------------------------------------------------------------- ________________ जातिसाङ्कर्यम् । जातिसाङ्कर्यं चाऽवश्यं दूषणं, तल्लक्षणं तु-परस्पराऽत्यन्ताभावसामानाधिकरण्ये सति परस्परसामानाधिकरण्यं, अत एव नमस्कारत्वमपि न जातिः । अत्र वदन्ति - जातिसाङ्कर्यं न दूषणम् । न हि जात्याः साङ्कर्य जातिसाङ्कर्यम् । एतस्य दूषणस्य सिद्धत्वे दूषणत्वासिद्धेः, असिद्धत्वे च स्वरूपालाभादेव । ननु जातिसाङ्कर्ये आपादकीभूय दूषणं यदि जातिसाङ्कर्यं स्यात् घटत्वपटत्वयोरप्येकत्र सामानाधिकरण्यं स्यादित्यादिरूपेणेति चेत् , न. आप(पा)दकाप्रसिद्धरेव। नाऽपि जातिसाङ्कर्यस्य दूषणत्वमित्येतस्याऽयमाशयः - यदि भूतत्वमूर्त्तत्वयोर्जातित्वं स्यात् घटत्वपटत्वयोरपि सामानाधिकरण्यं स्यादिति वैयधिकरण्यादिति । किन्तु परस्परात्यन्ताभावसमानाधिकरणयोर्धर्मयोः परस्परसामानाधिकरण्याज्जातित्वं नेष्यत इत्येतावन्मानं , तत्र च बीजं न पश्यामः । ___ ननु जातित्वं यदि तादृशधर्मवृत्तिः स्यात् उभयवादिसम्मततादृशधर्मवृत्तिः स्यादित्यापादनार्थं इति चेत् , न, अप्रयोजकत्वात् । तस्मान्न सङ्करस्य दूषणत्वमिति के चित् । तन्न, घटत्वपटत्वयोविरोधदर्शने न विरोधितावच्छेदक स्य परस्परात्यन्ताभावसमानाधिकरणजातित्वरूपस्य सम्भवे त्यागायोगात् , अव्याप्यवृत्तिजात्यनङ्गीकाराच्च । तस्मात् प्रतिबन्धकान्यस्य सतः प्रारिप्सितप्रतिबन्धकनिवृत्त्यसाधारणकारणत्वमेव मङ्गलत्वम् । अत्र दाहप्रतिबन्धकमणिनिवृत्त्यसाधारणकारणे मणौ तत्कालीनविघ्नध्वंसकारणे विघ्ने च प्रारिप्सितप्रतिबन्धकान्यस्य सत इत्यभयपदोपादानानातिव्याप्तिः । वस्तुतो विघ्नध्वंसप्रतिबन्धकदुरदृष्ट्राभावेऽतिव्याप्तिवारणाय सत इति, प्रतिबन्धकविघ्ने एवाऽतिव्याप्तिनिरासाय प्रतिबन्धकान्यस्येति । सत्त्वं चाऽत्र भावत्वम् । प्रथमपक्षे च तदन्यत्वे सतीत्यर्थो बोध्यः । Page #9 -------------------------------------------------------------------------- ________________ केचित्तु कर्मारम्भकालकृतस्यैवाऽत्र लक्ष्यतया कालान्तर- कृतप्रणामादावतिव्याप्तिवारणाय सत इति कर्मारम्भकालविद्यमानत्वे सतीत्यर्थ इत्याहुः / न चाऽनुगतं रूपमनादाय कथं तद्ग्रह इति वाच्यं, तेन तेन रूपेण विशेष्यैव तद्ग्रहात् / ननु मङ्गलमाचरेदिति श्रुतिकल्पने श्रुतेः कथं प्रवर्तकत्वम् ? प्रवृत्तिविषयस्य विशेषाग्रहादिति चेत् ? न, नमस्कारादिकमाचरेदिति प्रत्येकमेव वधिकल्पनात् / तथा च तदुपजीव्य विघ्नध्वंसकामनयाऽनुगतो मङ्गलव्यवहार ति न किञ्चिदनुपपन्नम् / नमस्कारत्वमपि स्वापकर्षबोधानुकूलतावच्छेकजातिमत्त्वमेव, सा च जाति: कायिकत्वादिस्वरूपा। न च कायिकत्वमपि न जातिः, अन्यतरकर्मजन्यतावच्छेदिक या सङ्करापत्तेरिति वाच्यं, सज्जातेरनङ्गीकारात् / वाचनिकत्वमपि तत्तद्वर्णव्याप्यं भिन्नमेवेत्यलं विस्तरेण / // इति महोपाध्याय श्रीभानुचन्द्रगणिशिष्यमहोपाध्याय श्रीसिद्धिचन्द्र गणिविरचितो मङ्गलवादः समाप्तः //