________________
रिक्तफलाजनकत्वं, मङ्गलेन प्रधानफलातिरिक्तस्य प्रधानस्यैव जननात् । नाऽपि प्रधानतत्फलातिरिक्तफलाजनकत्वं, विघ्नध्वंसस्य तदुभयभिन्नस्य जननात् । तथापि अधिकाररूपकामनाविषयप्रधानतत्फलातिरिक्तफलाजनकत्वमेवाऽङ्गत्वम् । विघ्नध्वंसकामना तु नाऽधिकाररूपा, यत्कामनया प्रवर्तते तस्या एवाऽधिकाररूपत्वात् । सा च प्रस्तुते समाप्तिकामनैव । न चैवं खादिरताऽङ्गं न स्यात, अधिकाररूपकामनाविषयवीर्यलक्षणफलसाधनत्वादिति वाच्यं, वीर्यस्य प्रधानव्यतिरेकेण व्यतिरेके प्रधान फलत्वादेव। न हि यागं विक्रियमाणः खादिरो यूपो वीर्याय भवतीत्यन्यत्र विस्तरः ।
मङ्गलं प्रधानं, अदृष्टं द्वारं, समाप्तिः फलमित्येके। विघ्नसंसर्गाभाव एव द्वारमित्यपरे। मङ्गलं प्रधानं, विघ्नप्रागभाव एव फलमित्यन्ये । मङ्गलं प्रधानं, विघ्नध्वंस: फलमिति चिन्तामणिकृतः ।
तत्र चिन्तामणिकारीय एव पक्षश्चेतसि चमत्कारमादधान: पक्षान्तरस्पृहामपि निवर्तयति। तथाहि- न तावन्मङ्गलं समाप्तिकारणं, अन्वयव्यतिरेकव्यभिचाराभ्यां मङ्गले सत्यप्यसमासे:, मङ्गलं विनाऽपि समाप्तेः । न च नाऽन्वयव्यभिचारो दोषाय, दण्डे सति क्वचिद् घटाभावदर्शनात्, दण्डस्य कारणत्वाभावापत्तेरिति वाच्यं, लौकिकस्थले तस्याऽदोषत्वेऽपि वैदिकस्थले दोषत्वात् । अन्यथाऽन्वयव्यभिचारशङ्कया वैदिके कर्मणि क्वापि निःशङ्कं न प्रवर्तेत । न चाऽयं प्रधानो नियमो न त्वङ्गे कृतप्रयाजस्यापि ज्योतिःष्टोमं विना स्वर्गादर्शनादिति वाच्यं, तथापि व्यतिरेकव्यभिचारस्य वज्रलेपत्वात् । प्रयाजं विना स्वर्गाभाव इति व्यतिरेकस्य प्रयाजेऽङ्गेऽपि सत्त्वात्, प्रकृते तदभावाच्च ।
अत्र केचित् जन्मान्तरीयमङ्गलस्य तत्र कारणत्वेन न व्यतिरेकव्यभिचार इत्याहुः । तन्न, ऐहिकसमाप्ति प्रति जन्मान्तरीयमङ्गलस्याऽहेतुत्वात् । 'इदं मे समाप्यतां' इति कामनया क्रियमाणस्य तस्य तदानींतनसमाप्तिकारणताङ्गीकारात् । पुढेष्ट्यादौ तु ऐहिकपुत्रबाधे आमुष्मिकं फलं कल्प्यते, तत्र सामान्यतः पुत्रमात्रस्य कामनाश्रवणात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org