________________
अन्ये तु - "श्रुत्या हि कारणत्वं बोध्यते । सा च व्यतिरेकव्यभिचारग्रस्ता कारणतां बोधयितुं न शक्नोति । ततो व्यभिचारपरिहाराय जन्मान्तरीयमङ्गलानुमान वाच्यम्। तथा चाऽन्योन्याश्रयः। तथा हि-जन्मान्तरीयमङ्गलेऽनुमतेऽव्यभिचारेण श्रुतिः कारणतां बोधयितुं शक्नोति, श्रुत्या च कारणत्वे बोधिते जन्मान्तरीयमङ्गलमनुमातुं शक्यत" इति प्रावीचन् । तन्न, कारणताग्रहो न जन्मान्तरीयमङ्गलसाध्यो येनाऽन्योन्याश्रयः स्यात् । न च तदनुपस्थितौ व्यभिचारग्रहस्य विद्यमानत्वात् कथं कारणताग्रह इति वाच्यं, आचारकल्पित श्रुत्या कारणतावगमसमये जन्मान्तरीयमङ्गलसन्देहेन व्यभिचारनिश्चयस्याऽभावात्, तत्संशयस्य योग्यतासंशयपर्यवसन्नत्वेनाऽनुगुणत्वात् ।
यत्तु, "कारणताग्रहो व्यभिचारग्रहे भवत्येव, यथा वह्नि प्रति तृणादेरिति", तदपि न ; तृणारणिमणिस्थलेऽकार्याकारणव्यावृत्तरूपं वह्निनिष्ठकार्यतानिरूपितकारणतावच्छेदकरूपवत्त्वं तृणादौ, तृणारणिमणिनिष्ठकारणताप्रतियोगिककार्यतावच्छेदकरूपवत्त्वं वह्नौ वा परिच्छिद्यत इति, तृणत्ववह्नित्वाद्यवच्छेदेन कार्यकारणग्रहाभावात् ।
न च-तृ णत्वे वह्नित्वाद्यवच्छेदेन कार्यकारणभावाग्र हे ऽपि तत्सामानाधिकरण्येन तु कार्यकारणभावग्रहे बाधकाभावः । तदवच्छिन्नव्यभिचारग्रहस्य तदवच्छिन्नका[ण]ताग्रहप्रतिबन्धकत्वात् । तद्वदेवाऽत्राऽपि कारणताग्रहोऽस्त्विति वाच्यं, अरणिमण्यभाववति स्तोमे तृणान्वयव्यतिरेकवदिह तद्ग्राहकस्याऽभावात् ।
न च श्रुत्यैव समाप्तित्वमङ्गलत्वसामानाधिकरण्येन कार्यकारणभावग्रहे बाधकाभावः, पूर्वोक्तन्यायेन व्यभिचारज्ञानस्याऽप्रतिबन्धकत्वादितिवाच्यं, समाप्तित्वमङ्गलत्वाद्यवच्छेदेनैव कार्यकारणभावस्य परेण क्षिप्तत्वात् ।।
तस्मात् माऽस्तु समाप्तिमात्रं प्रति कारणता, व्यभिचारेण, समाप्तिविशेषे तु भविष्यति, तत्र व्यभिचाराभावात् । यथा यागस्य न स्वर्गमात्रे कारणता, गङ्गास्नानजन्ये स्वर्गे व्यभिचारात् ; स्वर्गविशेषे त्वस्त्येव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org