________________
ननु स्वर्गे जातिरूपो विशेषः सम्भवति समाप्तौ तु न सम्भवति । तथाहि - न हि चरमवर्ण- तद्ध्वंस-तदुच्चारणानि समाप्तयः, मौनिकृतग्रन्थसमाप्त्यव्यापनात् । तेन हि केनचिदुत्पादितस्य वर्णस्याऽनुसन्धानमात्रं क्रियते न तु वर्णादिकमुच्चार्यते । तथा च चरमवर्णज्ञानं समाप्तिर्वाच्या। न च तत्र जातिः सम्भवति, चरमवर्णज्ञानस्य मानसादिभेदभिन्नतया तत्र जातिस्वीकारे • जातिसाङ्कर्यापत्तेः । न हि यत्र मानसत्वं तत्र सा जातिः सम्भवति, सुखादिसाक्षात्कारे मानसत्वसत्त्वेन तज्जातेरभावात्, श्रावणादिरूपे चरमवर्णज्ञाने तज्जातिसत्त्वेन मानसत्वाभावात्, उपनयमादाय मानसे चरमवर्णज्ञाने द्वयसत्त्वात्। तस्मात् कथं मङ्गलस्य समाप्तिविशेषे कारणत्वमिति चेत् ? न, उपाधिरूपस्यैव विशेषस्य सत्त्वात् । स तु नाऽखण्ड उपाधिः सखण्डसम्भवे स्वीकारार्हः, गुरुत्वात् । सखण्डापेक्षया हि तस्येदमेव गौरवं यदक्लृप्तकल्पनेति । सखण्डे हि घटका विशेषणादयः । तेषां परस्परं सम्बन्धः क्लृप्त एव । यथा पाचकत्वमित्यादौ पाककृत्यादेः। अखण्डस्तूपाधिभिन्न एव स्यादिति सखण्डो वाच्यः ।
स च न विघ्नस्थलीयसमाप्तित्वम् । विघ्नस्थलीयत्वं हि विघ्नसमानकालीनत्वम् । तन्न, असम्भवात् । न हि प्रतिबन्धकसमकालीनं कार्यत्वं सम्भवति । विघ्नोत्तरकालीनं चेत्तदा व्यभिचारः, गङ्गास्नानेन दशविधपापान्तरगततया विघ्ने नष्टे विघ्नोत्तरसमाप्तेर्मङ्गलं विनाऽपि भावात् । नाऽपि विघ्नध्वंसस्थलीयसमाप्तित्वं, गङ्गास्नानजन्यविघ्नध्वंसस्थलीयसमाप्तेस्तेन विनाऽपि भावात् । नाऽपि मङ्गलजन्यविघ्न ध्वंसस्थलीयसमाप्तित्वं, अन्यथासिद्धेः, येन विघ्नध्वंसादिनाऽन्या समाप्तिस्तेनैव प्रकृताया अपि सम्भवात् । अन्यथा गङ्गास्नानादिजन्यविघ्नध्वंसजन्यसमाप्ति प्रति गङ्गास्नानस्यापि जनकतापत्तेः । ___ अत एव न मङ्गलव्यापारीभूतविघ्नध्वंसजन्यसमाप्तित्वमपि कार्यतावच्छेदकं, आत्माश्रयाच्चाऽवच्छेद्यस्याऽवच्छेदके प्रवेशात् । समाप्तिनिष्ठमङ्गलजन्यता ह्यवच्छेद्या, तच्चावच्छेदके प्रविशति । मङ्गलव्यापारीभूतत्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org