________________
मङ्गलजन्यत्वे सति मङ्गलजन्यजनकत्वं, तत्र मङ्गलजन्यजनकत्वमित्यत्र मङ्गलजन्यपदेन समाप्तेरेव ग्रहणात् भवत्यवच्छेदकेऽवच्छेद्यप्रवेशः ।
किञ्च, यदि मङ्गलत्वेन तादृशकार्य प्रति जनकता तर्बेकमङ्गलादपि बहुविघ्नस्थलीयसमाप्त्यापत्तिः, जनकतावच्छेदकावच्छिन्नयत्किञ्चित्सत्त्व एव कार्योत्पत्तेः ।
न च, प्रकृतसमाप्तिविघ्नसमसङ्ख्यमङ्गलत्वेन जनकता, समसङ्ख्यत्वं हि नाऽन्यूनानधिकसङ्ख्यात्वं, अधिकसङ्ख्यमङ्गलस्थले समाप्त्यनापत्तेः । नाऽप्यन्यूनसङ्ख्यमङ्गलत्वं, यत्र बहवो विघ्ना द्वित्रा गङ्गास्नानादिभिर्नाशिताः, द्वित्राश्च मङ्गलैः, तत्र समाप्ति प्रति मङ्गलस्य न्यूनसङ्ख्यत्वेनाऽकारणतापत्तेः । न च स्वनाश्यविघ्नाऽन्यूनसङ्ख्यमङ्गलत्वेन कारणता, एकमङ्गलस्थले बहुविघ्नस्थलीयसमाप्त्यापत्तेः स्वनाश्यविघ्नेनैकमङ्गलस्याऽन्यूनसङ्ख्यत्वात् ।
न च प्रायश्चित्ताद्यनाश्यविघ्नान्यूनसङ्ख्यमङ्गलत्वेन कारणत्वं, प्रायश्चित्ताधनाश्यविघ्नस्थलीयसमाप्तित्वेन कार्यत्वमिति वाच्यं, अन्यथासिद्धेरिति चेत् , न, विघ्नध्वंसेन ह्यन्यथासिद्धिरुच्यते. सा च न सम्भवति, प्रामाणिके कारणेऽन्यथासिद्धेर्वक्तुमशक्यत्वात् । अन्यथा पूर्वेण यागोऽप्यन्यथासिद्धः स्यात्। प्रमाणं चात्र ‘स्वर्गकामो यजेते'तिवत् 'समाप्तिकामो मङ्गलमाचरेदिति श्रुतिरेव ।
विधिना हीष्टसाधनत्वं बोध्यते, साधनं च साध्याकाङ्क्षीति काम्यतया साध्यतयोपस्थितौ साधनासाकाङ्क्षौ समाप्तिस्वर्गावेत(तौ) तत्रान्वितौ यतो भवतः। न च व्यापारेण व्यापारिणो नाऽन्यथासिद्धिः, प्रकृतेऽपि तुल्यत्वात् । न च व्यभिचारेण प्रकृते श्रुतिः कारणतां बोधयितुं शक्नोतीति वाच्यं; यागेऽपि तुल्यत्वात्, गङ्गास्नानादितोऽपि स्वर्गोत्पत्तेः । न च तत्र तत्र स्वर्गविशेषे जनकत्वं, समाप्तिविशेषे प्रकृतेऽपि जनकत्वसम्भवात् । ततो नाऽन्यथासिद्धम् ।
न चैकमङ्गलादपि बहुविघ्नस्थलीयसमाप्त्यापत्तिः। विघ्नो हि प्रतिबन्धकस्तदभावश्च प्रत्येकाभावत्वेन कारणम् । तथा वैकविघ्नसत्त्वेऽपि विघ्नान्तरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org