________________
भावविलम्बादेव कार्यविलम्बः । एकस्मादनेकविघ्ननाशस्तु न भवति, तत्तन्मङ्गलत्वेन तत्तद्विघ्न ध्वंसत्वेन कार्यकारणभावोपगमादिति । न ह्येकविघ्नसत्त्वेऽपरविघ्ननाशे कार्योत्पत्तिर्वक्तुं शक्यते, एकमण्यभावेऽपरमणिसत्त्वे दाहापत्तेः ।
न च द्वारफले सत्येकरूपेणैव जनकता, सा च प्रकृते नास्ति, तत्तन्मङ्गलत्वेन द्वारे मङ्गलत्वेन च फलजनकसत्त्वादिति वाच्यं, चक्षुषो द्रव्यत्वेन संयोगं प्रति चक्षुष्वेन चाक्षुषज्ञानं प्रति कारणत्वकल्पनादिति ।
अत्र ब्रूमः । किमिह मङ्गलस्य समासिजनकताबोधने प्रमाणम् ? ननु निरुक्ता श्रुतिरेवेति चेत् , न, तस्याः प्रत्यक्षाया अभावात् । अनुमितेति चेत् , न, लिङ्गाभावात् । शिष्टाचार एवानुमापक इति चेत् , न, शिष्टाचारेण वेदमात्रानुमानेऽपि समाप्तिसाधनताबोधकस्याऽनुमातुमशक्यत्वात् दर्शादौ व्यभिचारात् । समाप्तिकामशिष्टाचारेण तदनुमानमिति चेत् , न, दृष्टान्ताभावात्। ननु व्यतिरेके व्याप्तिग्रहो यद्वा पक्षधर्मताबलादेव तादृशो वेदः सिध्यति, समाप्तिकामशिष्टाचारस्यैव पक्षत्वादिति चेत् , न, के नचित् मङ्गलं विघ्नध्वंसकामेन, परेण विघ्नानुत्पादकामेन, अन्येन विघ्नांसविशिष्टसमाप्तिकामेन, इतरेण विघ्नप्रागभावविशिष्टसमाप्तिकामेन क्रियत इति तादृशाचाराणां पक्षत्वे तावच्छ्रुतेरुनयनप्रसङ्गात् लाघवसहकारेण समाप्तिसाधनताबोध(धि) कैव श्रुतिरुनीयत इति चेत् , न, पन्थानमनुसृतोऽसि, समाप्तिफलकत्वे विघ्नध्वंसं प्रत्यपि जनकत्वे गौरवेण लाघवेन विघ्नध्वंसफलकत्वबोधक श्रुतेरेवानुमातुमुचितत्वात् । न च विघ्नप्रागभाव एव फलमस्तु, तत्रापि विघ्नकारणविनाशस्य द्वारतायां गौरवात् । तस्मात् चिन्तामणिकारीयमतमनुमतं च श्रीप्रगल्भचरणादिभिर्न कस्यचिदतिसाहसिनो वचनमात्रेण प्रेक्षापूर्वकारिणामुपेक्षायोग्यमिति सक्षेपः । ।
मङ्गलत्वं च न जातिः, जातिसङ्करापत्तेः । तथाहि, यत्र संयोगत्वं तत्र वा मङ्गलत्वं, यत्र वा मङ्गलत्वं तत्र वा संयोगत्वम्। घटपटसंयोगे संयोगत्वं वर्तते मङ्गलत्वं नास्ति । मङ्गलत्वं च वाचनिकेन संयोगत्वं, कायिके च द्वितयमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org