________________
जातिसाङ्कर्यम् । जातिसाङ्कर्यं चाऽवश्यं दूषणं, तल्लक्षणं तु-परस्पराऽत्यन्ताभावसामानाधिकरण्ये सति परस्परसामानाधिकरण्यं, अत एव नमस्कारत्वमपि न जातिः ।
अत्र वदन्ति - जातिसाङ्कर्यं न दूषणम् । न हि जात्याः साङ्कर्य जातिसाङ्कर्यम् । एतस्य दूषणस्य सिद्धत्वे दूषणत्वासिद्धेः, असिद्धत्वे च स्वरूपालाभादेव ।
ननु जातिसाङ्कर्ये आपादकीभूय दूषणं यदि जातिसाङ्कर्यं स्यात् घटत्वपटत्वयोरप्येकत्र सामानाधिकरण्यं स्यादित्यादिरूपेणेति चेत् , न. आप(पा)दकाप्रसिद्धरेव। नाऽपि जातिसाङ्कर्यस्य दूषणत्वमित्येतस्याऽयमाशयः - यदि भूतत्वमूर्त्तत्वयोर्जातित्वं स्यात् घटत्वपटत्वयोरपि सामानाधिकरण्यं स्यादिति वैयधिकरण्यादिति । किन्तु परस्परात्यन्ताभावसमानाधिकरणयोर्धर्मयोः परस्परसामानाधिकरण्याज्जातित्वं नेष्यत इत्येतावन्मानं , तत्र च बीजं न पश्यामः । ___ ननु जातित्वं यदि तादृशधर्मवृत्तिः स्यात् उभयवादिसम्मततादृशधर्मवृत्तिः स्यादित्यापादनार्थं इति चेत् , न, अप्रयोजकत्वात् । तस्मान्न सङ्करस्य दूषणत्वमिति के चित् । तन्न, घटत्वपटत्वयोविरोधदर्शने न विरोधितावच्छेदक स्य परस्परात्यन्ताभावसमानाधिकरणजातित्वरूपस्य सम्भवे त्यागायोगात् , अव्याप्यवृत्तिजात्यनङ्गीकाराच्च । तस्मात् प्रतिबन्धकान्यस्य सतः प्रारिप्सितप्रतिबन्धकनिवृत्त्यसाधारणकारणत्वमेव मङ्गलत्वम् ।
अत्र दाहप्रतिबन्धकमणिनिवृत्त्यसाधारणकारणे मणौ तत्कालीनविघ्नध्वंसकारणे विघ्ने च प्रारिप्सितप्रतिबन्धकान्यस्य सत इत्यभयपदोपादानानातिव्याप्तिः । वस्तुतो विघ्नध्वंसप्रतिबन्धकदुरदृष्ट्राभावेऽतिव्याप्तिवारणाय सत इति, प्रतिबन्धकविघ्ने एवाऽतिव्याप्तिनिरासाय प्रतिबन्धकान्यस्येति । सत्त्वं चाऽत्र भावत्वम् । प्रथमपक्षे च तदन्यत्वे सतीत्यर्थो बोध्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org