Page #1
--------------------------------------------------------------------------
________________
'शब्दार्थ-चन्द्रिका' (पं. हंसविजय विरचित)
-सं. मुनि धर्मकीर्तिविजय सत्तरमा सैकामां थयेला कविवर पंडित मुनिश्री हंसविजयजीए रचेली "शब्दार्थचन्द्रिका" नामे व्याकरणविषयक लघु रचना अत्रे यथामति संपादन करवापूर्वक प्रस्तुत छे. आ कृतिनी कर्ताए स्वहस्ते लखेली एक प्रति-६ पत्रोनी मारा पूज्य गुरुमहाराजश्रीना अंगत पुस्तक संग्रहमांथी प्राप्त थई छे, तेना परथीं संपादन करेल छे. अन्य भंडारोमा आनी बीजी प्रतिओ पण प्राप्त थाय छे, परंतु कर्ताना स्वहस्तनी प्रति उपलब्ध होवाथी अन्य प्रतिनो उपयोग को नथी.
सारस्वत व्याकरणना प्रथम बे पद्य उपर ग्रंथकारे "संहिता च पदं चैव" ए प्रसिद्ध पद्य -आधारित विशद विवरण आ रचनामां रजू कयुं छे, जे नवा अभ्यासीओ माटे घj उपकारक छे.
कर्तानी 'अन्योक्ति मुक्तावली' नामे अन्य सरस काव्यरचना छे, जे मने मारा गुरजी तरफथी जाणवा मळेल छे. पुष्पिकामां जणाव्या प्रमाणे ग्रंथकार तपागच्छीय आचार्य श्री विजयानन्दसूरि (आणसूर शाखाना आधाचार्य) जीना शिष्य हता. ऐतिहासिक साधनोना आधारे आ उपरथी तेमनो सत्तासमय सत्तरमो सैको होवानुं मानी शकाय.
विद्यार्थी एवा मारा माटे संपादननो आ प्रथम ज प्रयत्न छे, ए पण पूज्यपाद गुरुभगवंत श्री विजयसूर्योदयसूरि महाराजनी आज्ञा थवाथी करेल छे. तेथी आमा जे काइ क्षति-स्खलनादि होय ते विद्वानो क्षन्तव्य गणशे तेवी आशा छे.
Page #2
--------------------------------------------------------------------------
________________
|| सकलभट्टारकपुरन्दर भट्टारक श्री ५ श्री विजयाणंदसूरीश्वरचरणकमलेभ्यो नमः ॥
ॐ नमः सिद्धिसन्तान - दायिने परमात्मने । श्रीमच्छङ्खश्वराह्मन- पार्श्वेशाय महस्विने ॥ १ ॥ श्रीवर्धमानस्संसिद्धयै वर्धमानमहोदयः । स्ताद्विश्वविश्वविश्वेश- शक्रचक्रस्तुतक्रमः ॥ २ ॥ हेतवे श्रेयसामेव पराय परमेष्ठिने । विधूतरागद्वेषाय कारुण्यनिधये नमः ॥ ३ ॥ सारदां सा (शा) रदां स्मृत्वा शारदेन्दुतनुप्रभाम् । कर्पूरपूरन्यत्कार- कारिकीर्तिविराजिनीम् ॥ ४ ॥ गुरुं श्री विजयानन्दं विजयानन्ददायकम् । नत्वा गौरीगुरु गिरि-ग्रावगौरगुणैर्गुरुम् ॥ ५ ॥ बालानां बुद्धिबोधाय विनोदाय' च वाग्मिनाम् । संक्षिप्तयुक्तिभिर्युक्ता गम्भीरार्थगरीयसी ॥ ६ ॥
टि. १
ॐमिति अवतीत्यौणादिके मप्रत्यये ज्वरतरेत्युठिगुणे स्वरादित्वादव्ययत्वे च
सिद्धि:, तस्मै परमब्रह्मरूपायेत्यर्थः । अत्र धुरि मातृकायामिव ॐनमः इति पठितमन्त्रसिद्धमन्त्रोपन्यासः । प्रयोजनं चास्य निर्विघ्नमिष्टार्थसिद्धिरिति ।
टि. २ श्री वर्धमान इति श्रिया सकलत्रिभुवनजनमनश्चमत्कारकारिमनोहारिपरमार्हन्त्यमहामहिमाविस्तारि -
अशोकवृक्षः १ सुरपुष्पवृष्टिः २ दिव्यध्वनि ३ श्चामर ४ मासनं च ।
भामण्डल (लं) ६ दुन्दुभि ७ रातपत्रं ८ सत्प्रातिहार्याणि जिनेश्वराणाम् ॥
-
(१३)
शब्दार्थचन्द्रिका सवृत्तिः
|| श्री शङ्खश्वरपार्श्वनाथाय नमः ॥
॥ ऐं नमः ॥
इति स्पष्टष्टप्रातिहार्यशोभया चतुस्त्रिंशदतिशयविभूत्या वा समन्वितो वर्धमानः श्रीवर्धमानः । अयं श्री शब्दो महत्त्वप्रतिपादकः, पूज्यनामादौ लोके प्रयुज्यते ।
टि. ३
टि. ४
कुतूहलाय ।
-
—
Page #3
--------------------------------------------------------------------------
________________
( १४ )
विचक्षणचकोरौघ- हर्षोत्कर्षविधायिनी ।
व्याख्या सुधास्राविणी च पदार्थानां प्रकासि (शि) नी ॥७॥ अज्ञानोग्रतमः स्तोम-प्रध्वंसनपटीयसी ।
सुबोधाऽगाधजलधि-लोलकल्लोलवर्द्धनी ॥ ८ ॥
शब्दार्थचन्द्रिकाख्येयं शब्दशास्त्रेन्दुचन्द्रिका | सारस्वताद्यसत्पद्य-द्वयवृत्तिर्वितन्यते ॥ ९ ॥ ( चतुर्भिः कलापकम्)
निजानुजज्ञ श्री सिद्धि - विजयस्याग्रहान्मया । क्रियमाणप्रयत्नस्तान् मन्दधीबोधतत्फली ॥ १० ॥
इह हि किल निश्शेषसविशेषस्फूर्जद्वर्यपदार्थसार्थपरमार्थजिज्ञासूनां शिशूनां सम्यग्शब्दव्युत्पत्यवबोधाय स्वकीयकमनीयकुशाग्रप्रतिमनिष्प्रतिम प्रतिभाप्रभाप्राग्भारपराभूतप्रबर्हबहिर्मुखाचार्यमानाभिमानैदंयुगीनचञ्चच्चतुरजनचेतश्चमत्कार करणाय य श्रीसारस्वतशब्दानुशासनादिमवृत्तद्वितयस्य व्याख्या संहितादिभेदेन षोढा प्रस्तूयते ।
यदुक्तं पूर्वसूरिभिः शास्त्रान्तरे
संहिता (१) च पदं (२) चैव पदार्थ : ( ३ ) पदविग्रह: ( ४ ) चालना ( ५ ) प्रत्यवस्थानं ( ६ ) व्याख्या तन्त्रस्य षड्विधा ॥
-
अस्यार्थः सुबोध एव । तथापि चाक्षरगमनिकानिगमनासक्वचनवचनरचना रचितसूचामात्रसूचनकृत् सूत्रसूत्रित भावार्थैकदेशो निरूप्यते ।
अयमस्यार्थः- तन्त्रस्य व्याख्या षड्विधा भवति इति क्रियाकारक सण्टङ्कः । "यत्र अन्यत् क्रियापदं न श्रूयते तत्रास्तिभवन्तीत्यादि पुरः प्रयुज्यते " इति न्यायात् इति वृद्धवचनप्रमाण्याद्वा अत्रं अनुक्तमपि 'भवति' पदं योजनीयम् ।
यदाहु:
अह्ना विना न सूर्य: सूर्यविहीनश्च वासरो नास्ति । कर्तृक्रिये तथैव हि संपृक्ते सर्वदा भवतः ॥ १ ॥
इति । अत्र व्यारव्येति कोऽर्थः ? विशेषेण आख्यायते कथ्यतेऽधिकारात् अर्थ इति व्याख्या - व्याख्यानं, 'ख्या प्रकथने इति वचनात् । कस्य ? तन्त्रस्य । तन्यते विस्तार्यत इति तन्त्रं तस्य तन्त्रस्य शास्त्रस्य ।
तन्त्रं सिद्धान्ते राष्ट्रे च परच्छन्दप्रधानयोः । अगदे कुटुम्बकृत्ये च तन्तुवाने परिच्छदे ॥ १ ॥
Page #4
--------------------------------------------------------------------------
________________
(१५)
श्रुतिशाखान्तरे शास्त्रे करणे द्व्यर्थसाधके ।
इति कर्तव्यता तन्वो ० ॥ इति हैमानेकार्थकोशः ॥
कतिधा ? इत्याह- षड्विधा । षट् षट्सङ्ख्याकाः विधा: प्रकाराः अस्या इति षड् विधा :
: षट्
प्रकाराः ॥
अयमभिप्रायः- सर्वस्यापि शब्दानुशासनादिशास्त्रस्य व्याख्यायाः षड्भेदा भवन्तीति भावार्थ: ।
=
=
अथ ग्रन्थकारस्तान् भेदान् यथानुक्रमं व्यनक्ति-प्रकटयति । तत्र तावत् संहिता इति संज्ञायाः कः शब्दार्थ : ? संधीयते इति संहिता, अस्खलितपाठोच्चार इति यावत् । किमुक्तं भवति ? | अस्खलिततया मुखे सूत्रपाठोच्चारणं संहिता इति तात्पर्यम् । इति प्रथमो भेदः (१) ॥
चः पुनरर्थे । "पुनरर्थेपि किं च तु" इति हैमानेकार्थकोशः । च पुनः । पदं पदमित्यस्य कोऽर्थः ? विभक्त्यन्तं पदम् ।
विभज्यन्ते पृथक् क्रियन्ते कर्तृकर्मादयो यया सा विभक्तिः । सा विभक्तिः द्विप्रकारा । एका स्यादिः ॥
सि औ जस् इति प्रथमा १ अम् औ शस् इति द्वितीया २ य भ्याम् भिस् इति तृतीया ३ ङ्भ्याम् भ्यस् इति चतुर्थी ४ ङसि भ्याम् भ्यस् इति पञ्चमी ५ ङस् ओस् आम् इति षष्ठी ६ ङिओस् सुप् इति सप्तमी ७
एकैकस्याः विभक्तेस्त्रीणि त्रीणि वचनानि । एक वचन १ द्विवचन २ बहुवचन ३ संज्ञानि भवन्तीत्यादिरूपा ।
अपरा त्यादिः ।
तव तस् अन्ति
सिव् थस् थ
मिव् वस् मस्
ते आते अन्ते
से आये ध्वे
ए वहे महे
Page #5
--------------------------------------------------------------------------
________________
(१६) इत्यादि दशलकारस्वरूपा। ते च के दश लकाराः ? इत्याकांक्षायामाहवर्तमाना १ विधिसम्भावना २ आशीः प्रेरणा ३ अनद्यतनी ४ परोक्षार्थ ५ आशीरर्थ ६ श्वस्तन्यर्थ ७ भविष्यति ८ क्रियातिपत्ति ९ भूतार्थ १० लक्षणा ज्ञेयाः।
अत्र पाणिनीयानां मतमाह" लट् १ लिङौ, च लोट् ३ लङौ ४ च
लिट् ५ लिडौ ६ लुट् लुय ८ तथा। लुङ् ९ लुडा १० वपि विद्वद्भिः
लकारा दश विस्मृताः॥ १॥ इति ।। तत्र विभक्तिद्वयमध्ये स्यादिविभक्तिम्निोऽग्रे प्रयोज्यते। त्यादिविभक्तिर्धातोरगे स्थाप्यते। सा विभक्तिः अन्ते यस्य तद् विभक्त्यन्तं, यस्यान्ते विभक्तिस्तत् पदमुच्यते । तद्व्यतिरिक्तं नाम। यतः "अविभक्ति नाम-विभक्तिरहितं धातुवर्जं चार्थवच्छब्दरूपं नामोच्यते"। अस्य व्याख्या-विभक्त्या रहितं धातोर्वादेः पृथग्भूतं अर्थयुक्तं शब्दरूपं एकादिवर्णरूपं तन्नामोच्यते।
अथास्य पदकृत्यानि। "शब्दरूपं नाम" इत्येवास्तु, इत्युक्ते पदस्यापि नामसंज्ञा स्यात् तनिवारणार्थमविभक्तोति पदमुपादीयते। तथा सति धातावतिव्याप्तिस्तनिवारणार्थ धातुवर्जमिति तथा सति निरर्थकस्य टस इत्यादेव॑ने मत्वं सम्भवति तन्निवारणार्थं अर्थवदिति। ईदृग्लक्षणं नाम । तथा कृतद्धितसमासाश्चेत्युक्तत्वात् च पुनः कृत्तद्धितसमासा अपि नामसंज्ञकाः स्युः। "प्रत्ययग्रहणे प्रत्ययान्तस्य ग्रहणम्" इति न्यायात् कृच्छब्देन कृदन्तधातूनां ग्रहणम्। कृदन्ता ये धातवः तद्धितसमासयोः पदानि नामसंज्ञानि भवन्ती त्यर्थः।
केचित् पाणिनीयाचार्या इति वदन्ति। "एते सर्वेऽपि प्रातिपादिकसंज्ञका" इति। तन्मते प्रातिपादिक इति नामपर्यायः । तस्मानाम्नः पराः स्यादयः सप्त विभक्तयो भवन्ति। तदन्तं पदमेवेति तात्पर्यार्थः! इति द्वितीयो भेदः॥ २॥
इतोऽग्रे पश्चिमं भेदं यावद् देहलीप्रदीपन्यायेन डमस्कमणिन्यायेन वा चकारो मध्यवर्तित्वात् सर्वत्रापि सम्बध्यत इति । च पुनः । एव निश्चये । तत: पदार्थः । पदानां पूर्वोक्तानां अर्थः पदार्थ अर्थग्रहणच्चान्योऽपि गृह्यते । अन्वितान्येव पदान्यर्थसमर्पकाणि भवन्ति। इति तृतीयो भेदः॥ ३॥
Page #6
--------------------------------------------------------------------------
________________
(१७)
च पुनः। पदविग्रहः । पदानां विग्रह: पदविग्रहः। विग्रह इति कोऽर्थः ? अन्वययोग्यार्थसमर्पक: पदसमुदायो विग्रहो वाक्यमिति। परस्परसापेक्षपदैकार्थीभावोऽन्वयस्तस्य अन्वयस्य योग्यो योऽसावर्थस्तस्य समर्पक: समर्थको यः पदसमुदाय:-पदसमूहः स विग्रहः । तस्यापरं नाम वाक्यमित्यर्थः। अत्र विग्रहशब्देन समास एवोच्यते। समासापरपर्यायो विग्रह इति वचनात्। समास इति किम् ?। समस्यते संक्षिप्यते अर्थो येन स इति समासः। यद्वा समसनं अनेकेषां पदानामेकपदीकरणं स समासः। तेन द्वयोर्नाम्नोः बहूनां च नाम्नां समासो भवति। अत्र नामशब्देन पदमेव विवक्षितं, अन्यथा अविभक्ति नाम इत्युक्ते "समासप्रत्यययो" रिति सूत्रं व्यर्थं स्यात्। तस्मानामशब्देन पदमेवेति भावः। स च नाम्नामन्वययोग्यत्वे सत्येव समासो भवति। यत्र नाम्नां पदीनामन्वययोग्यत्वं सम्भवति राजपुरुष इत्यादौ तत्रैव समासो भवति नान्यत्रेति। च शब्दात्तद्धितोऽपि। तद्धितप्रत्ययसम्बन्धिविग्रहोऽप्यन्वययोग्यत्वे सत्येव भवति। अन्वययोग्यता नाम पदानां मिथः सामर्थ्यम्। ततो भार्यापुरुषस्येत्यादौ क्रमवैपरीत्येनान्वययोग्यत्वाभावात् समासो न भवति, एवं देवदत्तस्य भार्या, पुरुषस्य वस्त्रमित्यत्र भार्यापुरुषयोः सापेक्षत्वाभावात् न समासः।
ननु विभक्तान्येव पदानि प्रयोक्तव्यानि कि समासेन ? इति समासप्रयोजनमाहऐकपद्यमैकस्वर्यमेकविभक्तिकत्वं च समासप्रयोजनमिति। एकं पदं-एकपदं तस्य भावः ऐकपद्यम्। द्वयोः पदयोः बहूनां वा पदानां समासे कृते एकपदभावो भवति तदैकपद्यम्, इत्येकं प्रयोजनम्। तथा एकस्वरस्य भाव ऐकस्वर्यम्। समासे कृते वेदे अनेकेषु स्वरेषु एक उदात्तादिः स्वरो दीयत इति द्वितीयप्रयोजनम्। ऐकपद्याच्च शवणादौ णत्वमिति। तथा एका विभक्तिर्यत्र तदेकविभक्तिकं तस्य भाव एकविभक्तिकत्वं समासस्य प्रयोजनमिति। समासे हि पृथक्पदानां विभक्तिलोपादेकविभक्तिकत्वं भवति। यथाशशाश्च कुशाश्च पलाशाश्च शशकुशपलाशमिति तृतीयं प्रयोजनम्। यतः
"विभक्तिः लुप्यते यत्र तदर्थस्तु प्रतीयते। ऐकपद्यं पदानां च स समासोऽभिधीयते॥१॥
इति समासलक्षणम्। स च षड्विधः। अव्ययीभाव १ स्तत्पुरुषो २ द्वन्द्वो ३ बहुव्रीहिः ४ कर्मधारयो ५ द्विगुश्च ६ इति । एवं समासः षड्विधो ज्ञेयः। तत्र पूर्वपदप्रधानोऽव्ययीभावः। पूर्व पदं अव्ययलक्षणं प्रधानं यत्र सः पूर्वपदप्रधानः।
Page #7
--------------------------------------------------------------------------
________________
(१८) द्विगु-तत्पुरुषौ परपदप्रधानौ। पूर्वोत्तरयो: पदयोर्मध्ये यत्परं अग्रेतनं पदं तत्प्रधानं ययोस्तौ० [परपदप्रधानौ] ।
द्वन्द्व-कर्मधारयौ चोभयपदप्रधानौ । उभे पूर्वापरे पदे प्रधाने ययोस्तौ० [उभयपद प्रधानौ ।
बहुव्रीहिरन्यपदप्रधानः। पूर्वोत्तराभ्यां पदाभ्यां अन्यत् यत्किञ्चित् बहिः स्थितं पदं यत्पदवाच्यं प्रधानं यस्मिन् सः।
कस्मात् ?, तस्य क्रियाभिसम्बन्धात् । अस्य व्याख्या यथा-'तस्य क्रियाभिसम्बन्धात्' इति पदं सर्वत्रापि योज्यम् । तत्र तत्र तस्य तस्य पदस्य क्रियाभिः सहाभिसम्बन्धात् क्रियायोगित्वेन प्राधान्यादित्यर्थः।
अव्ययीभावः - पूर्वपदप्रधानः। यथा-स्त्रीषु अधि इति 'अधिस्त्रि गृहकार्य भवती'त्यत्र क्रियायाः पूर्वपदेनाधीत्यव्ययेन सह सम्बन्धात् तस्य प्राधान्यात् अव्ययीभावः पूर्वपदप्रधानः। तथा द्विगुस्तत्पुरुषश्च एतौ परपदप्रधानौ, यथा पञ्चानां गवां समाहार: पञ्चगवमित्यत्र पञ्चन् शब्दस्य सङ्ख्याभूतस्य विशेषणत्वं, गोशब्दस्य विशेष्यत्वम्। विशेष्यविशेषणयोः मध्ये विशेष्यस्य मुख्यत्वमिति गोशब्दस्य परपदस्य प्रधानत्वम्। तथा तत्पुरुषसमासे राजपुरुषो याति इत्यत्र गमनक्रियायाः पुरुषेण सहान्वयात् तस्यैव प्राधान्यमेवं तत्पुरुष परपदस्य प्राधान्यम् । एवं द्विगुतत्पुरुषयोः परपदस्य क्रियाभिसम्बन्धात् द्विगुतत्पुरुषौ परपदप्रधानौ। तथा द्वन्द्वे कर्मधारये चोभयपदयोः क्रियाभिसम्बन्धात् द्वन्द्वकर्मधारयौ उभयपदप्रधानौ यथा-अग्निश्च सोमश्च इत्यादिषु पदद्वयस्यापि क्रियायामधिकारित्वात् द्वन्द्वे उभयपदयोः प्राधान्यम्। तथा कर्मधारये नीलं च तदुत्पलं चेत्यत्र विशेषणविशेष्ययोरेकार्थनिष्ठत्वादन्योन्याश्रयभूतत्वाच्च पदद्वयस्य प्राधान्यम्। बहुव्रीहौ चान्यपदस्य प्राधान्यम्। यथा-बहु धनं यस्येत्यत्र बहुधनस्य वस्तुभूतत्वं यच्छब्दस्य तु स्वामित्वमिति अन्यपदस्य प्राधान्यम्। तस्यान्यपदस्य क्रियाभिसम्बन्धादिति समासार्थः। अथोपसंहारमाह
पूर्वेऽव्ययेऽव्ययीभावोऽमादौ तत्पुरुषः स्मृतः। चकारबहुलो द्वन्द्वः सव्यापूर्वो द्विगुर्मतः॥
Page #8
--------------------------------------------------------------------------
________________
(१९)
यस्य येन बहुव्रीहिः स चासौ कर्मधारयः।
इति किञ्चत्समासानां षण्णां लक्षणमीरितम्।।२॥ इति। अन्यैरप्युक्तम्
यदा बहुव्रीहि रुदीरितो बुधै र्द्वन्द्वश्चकारैरथसङ्ख्यया द्विगुः । चासौ च तत्स्यादिति कर्मधारयः क्लीबोऽव्ययी तत्पुरुषोन्यलक्षणः॥१॥ इति समासानां समासतो लक्षणं प्रोक्तम् । एतेषां विस्तरस्तु ग्रन्थान्तरतो विज्ञेयः। अथ षण्णामपि समासानां किञ्चिद्विशेषलक्षणं वृत्तद्वयेनोच्यते । यदुक्तम्द्वन्द्वश्चकारैः समनामविग्रहा-दाद्योत्तरास्तत्पुरुषे विभक्तयः। चाभ्यां समस्येत विशेषणैर्गुणी तदान्तरस्थेन च कर्मधारये । प्रायो बहुव्रीहिरयं गुणैर्गुणी यदा समस्तान्यविशेषणं भवेत् । सव्याद्यपुंस्त्र्येकतया पदं द्विगु रूपादिपूर्वं तदमन्तमव्ययी॥२॥ (युग्मम्)
अनयोवृत्तयोारव्या-समयोर्नाम्नो: समानां वा नाम्नां विग्रहः समनामविग्रहः, तस्मात् चकारैर्द्वन्द्व समासः स्यात्।
__उभयपदप्रधानो द्वन्द्वः। स च द्विविधः । इतरेतरद्वन्द्वः १ समाहारद्वन्द्वश्च २ ॥ पूर्वस्मिन् द्विवचन बहुवचनं वा। लिङ्गं तु परवर्तमानशब्दापेक्षम्। यथा-घटश्च पटश्चघटपटौ। घटश्च पटश्च लकुटश्च-घटपटलकुयः। घटश्च घटी च घटघट्यौ । चार्थे द्वन्द्व० इति सूत्रेण समासः।
समाहारे तु क्लीबत्वमेकवचनम्। यथा-सुखं च दु:खं च - सुखदुःखम्। दधि च घृतं च - दधिघृतम् ।
आरा च शस्त्री च आराशस्त्रि। यदुक्तम् -
स स्यात् द्वन्द्व-समाहारो यत्रैकवचनं भवेत् ! यत्र द्वित्वं बहुत्वं च स भवेदितरेतरः॥ १॥ इति । अवयवार्थप्रधान इतरेतरः । समुदायार्थप्रधानः समाहारः।
इति द्वन्द्वसमासः॥१
Page #9
--------------------------------------------------------------------------
________________
(२०) आद्योत्तराः प्रथमादिका विभक्तयस्तत्पुरुष भवन्ति। उत्तरपदप्रधान: तत्पुरुषः । तत्र पूर्वपदे सप्तापि विभक्तयः स्यु । उत्तरपदे प्रायः प्रथमैव।
यथा - शोभनो राजा - सुराजा। पूजितो राजा - सुराजेत्यर्थः।
"उपसर्गाः क्रियायोगे गतिश्च प्रादयोऽपि" तथा "प्रादयो गताद्यर्थे प्रथमया अमादा"वित्यस्येत्येवं प्रपञ्चेत्यनेन समासः।
यथा - धर्म श्रितो - धर्मश्रितः। मदेन पटुः - मदपटुः। जोवेभ्यो हितम् - जीवहितम्। जनेभ्यः सुखम् - जनसुखम्। वृकाद् भयम् - वृकभयम् । राज्ञः पुरुषो - राजपुरुषः। समरे सिंह इव - समरसिंहः।
"अमादौ तत्पुरुष' इति सूत्रेण समासः उत्तरपदे प्रायः प्रथमेति प्रायोवचनात् क्वचित् प्रथमाद्याः विभक्तयो यथासूत्रमुत्तरपदेऽपि स्यु। अन्यपदार्थे प्रधानत्वं च।
यथा - प्रगत आचार्य: प्राचार्यः। प्रकृष्टो वीरः प्रवीरः। (१) अतिक्रान्तः खट्वाम् अतिखट्वः। (२) अवक्रुष्टः कोकिलया अवकोकिलः। (३) परिग्लानोऽध्ययनाय पर्यध्ययनः। (४) निर्गतः कौशाम्ब्या निष्कौशाम्बिः। (५) एषु सर्वेषु क्वचिदमाद्यन्तस्य परत्वमिति सूत्रेण समासः ।
कुम्भं करोतीति कुम्भकारः। "नाम्नश्च कृता समास' इति सूत्रेण समासः। न गौः अगौः। "नजि" इति सूत्रेण समासः।
प्राचार्यादयो नित्यसमासा अस्वपदविग्रहत्वात्। इति तत्पुरुष समासः॥ २
चाभ्याम् ।। व्याख्या- तदा तच्छब्देनान्तरस्थेन प्रसिद्धया तु अद:शब्देन, चाभ्यां च चकाराभ्यां द्वाभ्यां विशेषणैः सह, गुणी विशेष्यं कर्मधारये समस्यते ।
Page #10
--------------------------------------------------------------------------
________________
(२१) उभयपदप्रधानः कर्मधारयः। पूर्वं विशेषणपदम्, अग्रे विशेष्यपदम्।
यथा-त्रिषु लिङ्गेषु-वीरश्चासौ पुरुषश्च-वीरपुरुषः (१) मधुरा चासौ वाणी च - मधुरवाणी। (२) नन्दनं च वनं च - नन्दनवनम्। (३) "कमधारयस्तुल्यार्थे " इति सूत्रेण समासः । स्त्रीपूर्वपदस्य तु पुंवद्वेति पुंवत्त्वम्। इत्यादि कर्मधारयः।।३।।
इति प्रथमवृत्तार्थः॥१॥ अथ बहुव्रीहि:
प्रायो० । व्यारव्या - गुणैर्विशेषणैर्गुणी विशेष्यं यदा यच्छब्देन समस्तः सन्नन्यविशेषणं यत्र भवेत्, सोऽयं बहुव्रीहिः समासः स्यात्। बहुव्रीहिरन्यपदप्रधानः। द्वितीयाद्या षड् विभक्तयो यच्छब्दे स्युः। अन्यविशेषणत्वात् तल्लिङ्गवचने च भवतः।
यथा - आरूढो वानरो यं सं आरूढवानसे वृक्षः। १ जितो मोहो येन स जितमोहो जिनः। २ दत्ता दक्षिणा यस्मै स दत्तदक्षिणो द्विजः। ३ वोतो गतो रागो यस्मात् स वीतरागः सर्वज्ञः। ४ शीता रश्मयो यस्य सः शीतरश्मिः। ५ प्रादुर्भूता अङ्कुरा यस्यां सा प्रादुर्भूताङ्कुरा । ६ एतेषु सर्वेषु बहुव्रीहिरन्यार्थ इति सूत्रेण समासः । ७ इति बहुव्रीहिसमासः॥८॥ अथ द्विगुसमासः।
सख्याद्यपुंस्त्येकतया पदम्। व्यारव्या- द्विगौ द्विगुसमासे पदमुत्तरपदं स्यात्। कीदृशं सव्यादि- सव्यावाचिपदं विशेषणभूतमादौ यस्य तत्सव्यादि। एवं विधमुत्तरपदं विशेष्यभूतं स्यात् ! पदद्वयमपि षष्ठ्यन्तं समाहारशब्देन समस्यते। कया ? पुंस्त्र्येक्तया-अपुमान् क्लीबलिङ्गं स्त्रीलिङ्गं च तयोरेक्तया एकवचनतया नपुंसकलिङ्गं स्त्रीलिङ्गं वैकवचनान्तं समासः स्यादित्यर्थः । पुंलिङ्गं तु न स्यादेवेति उत्तरपदप्रधानो द्विगुः । शेषः सर्वः क्लीबलिङ्गः।
यथा - त्रयाणां लोकानां समाहारः त्रिलोकी।
Page #11
--------------------------------------------------------------------------
________________
(२२) समाहारे " अत ईप् द्विगु " इति सूत्रेण ईप्। तिसृणां सन्ध्यानां समाहारः त्रिसन्ध्यम्। त्रिसन्ध्यस्य क्लीबत्वमेव। एकत्वे द्विगुद्वन्द्वाविति सूत्रेण समासः। त्रयाणां भुवनानां समाहारः त्रिभुवनम् । इत्यादि। पात्रादिगणपाठान्नपुंसकत्वम्। द्वयोः साध्वोः समाहारः द्विसाधु। तिस्रो नद्यः समाहृता बिनदि। एवं पञ्चसमिति। इति द्विगुसमासः।। ५ अथाव्ययीभावः।
उपादिपूर्वं तदमन्तमव्ययी०। व्याख्या - उपादिशब्द आदौ येषामव्ययानां शब्दानां ते उपादयः अव्ययशब्दास्ते पूर्वं पूर्वपदं यत्र तत् उपादि। पूर्वमेवंविधं तत्पूर्वोक्तं पदमुप्तरपदं भवति। कीदृशम् ?, अमन्तम् । सर्वविभक्तीनामकारान्तात् प्रायोऽमादेश: स्यात्। सोऽम् अन्ते समासान्ते यस्योत्तरपदस्य तदमन्तमेवंविधं यत्रोत्तरपदं भवति, सोऽव्ययी। अव्ययं पूर्वपदं यस्य सोऽव्ययी। अव्ययीभावसमास इत्यर्थः। पूर्वेऽव्ययेऽव्ययीभावः।
यथा - कुम्भस्य समीपम् उपकुम्भमस्ति १ पश्य २ क्रुध्यति ४ शोभा ६ । क्रमेण प्रथमाद्वितीयाचतुर्थीषष्ठीनां "आतोऽमनत" इत्यमादेशः। तृतीया-सप्तम्योस्तु वा टाङ्यो इति सूत्रेणामादेशो वा। यथा उपकुम्भं कृतं, उपकुम्भेन कृतम्। उपकुम्भं शेते, उपकुम्भे शेते इति। पञ्चम्यां त्वमादेशाभावे उपकुम्भादानयेति। आकारान्तशब्दान् विनान्यस्वरान्तव्यञ्जनान्तशब्देभ्यो विभक्तिलोप एव स्यात् । यथा -- स्त्रीषु अधि अधिस्त्रि। . साधोः समीपम् उपसाधु । नद्याः समीपम् उपनदि। भवत: समीपम् उपभवत्। भवत्याः समीपम् उपभवति ।
सुखस्यानतिक्रमेण यथासुखम्। " यथा सादृश्ये " इति सूत्रेण समासः। इत्यव्ययीभावसमासः॥ ६॥ इति द्वितीयवृत्तार्थः॥
Page #12
--------------------------------------------------------------------------
________________ (23) इत्यादि समासलक्षणमिति चतुर्थो भेदः। (4) ततो विग्रहविधानानन्तरं च पुनः चालना कर्तव्या। इह चालनेति कोऽर्थः ? चल्यते स्फूर्जत्तीक्ष्णमनीषया विचार्यते इति चालना / अयमाशय:- विवक्षितार्थसमर्थनाय कण्टकोद्धारादिहेतोः। अयमर्थः- कथं सञ्जाघटीतीति पूर्वक्षोद्भावनं यत्र विधीयते सा चालना। इति पञ्चमो भेदः।। 5 च पुनस्ततः प्रत्यवस्थानम् - अर्थं अर्थं प्रति अवस्थानम् निश्चयः प्रत्यवस्थानम्। अत्र इदमेव घटते इति संशयनिरासेन पूर्वोक्तलक्षणायाश्चालनायाः यत्र सिद्धान्तोद्भावनं क्रियते तत् प्रत्यवस्थानं तदर्थसमर्थनमित्याशयः स्वयमभ्यूह्यः / इति षष्ठो भेदः॥ 6 इत्यलं प्रपञ्चेनेत्याद्यर्थयोजना। (1) चञ्चद्वर्णसुसंहिता स्फुटपदा नानापदार्थप्रदा। विज्ञश्लाधितविग्रहा समुचितस्थानं स्फुरच्चालना / / व्यारव्याकामगवी चिरं विजयतां सत्प्रत्यवस्थानयुक्। स्निग्धं गोरसमर्पयत्यनुदिनं हृद्यस्य पद्यस्य मे॥ 2 // इति श्रीमत्तपागच्छाधिराज श्रीगौतमगणधरोपमगुणसमाजसकलभट्टारक वृन्दारक राजभट्टारक श्री 5. श्री विजयाणंदसूरीश्वरशिष्यभुजिष्य पं.हंसविजयगणि समर्थितायां शब्दार्थचन्द्रिकायां संहितादिषड्भेदस्वरूपनि रूपकपद्यस्य व्यारव्यादिग् सम्पूर्णा // 1 // (प्रतिप्रान्ते) अहँ नमः। ही नमः। ॐ नमः। * * * टि-१. प्रमाणानव बाधितोऽर्थ सिद्धान्तः।