SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ (१८) द्विगु-तत्पुरुषौ परपदप्रधानौ। पूर्वोत्तरयो: पदयोर्मध्ये यत्परं अग्रेतनं पदं तत्प्रधानं ययोस्तौ० [परपदप्रधानौ] । द्वन्द्व-कर्मधारयौ चोभयपदप्रधानौ । उभे पूर्वापरे पदे प्रधाने ययोस्तौ० [उभयपद प्रधानौ । बहुव्रीहिरन्यपदप्रधानः। पूर्वोत्तराभ्यां पदाभ्यां अन्यत् यत्किञ्चित् बहिः स्थितं पदं यत्पदवाच्यं प्रधानं यस्मिन् सः। कस्मात् ?, तस्य क्रियाभिसम्बन्धात् । अस्य व्याख्या यथा-'तस्य क्रियाभिसम्बन्धात्' इति पदं सर्वत्रापि योज्यम् । तत्र तत्र तस्य तस्य पदस्य क्रियाभिः सहाभिसम्बन्धात् क्रियायोगित्वेन प्राधान्यादित्यर्थः। अव्ययीभावः - पूर्वपदप्रधानः। यथा-स्त्रीषु अधि इति 'अधिस्त्रि गृहकार्य भवती'त्यत्र क्रियायाः पूर्वपदेनाधीत्यव्ययेन सह सम्बन्धात् तस्य प्राधान्यात् अव्ययीभावः पूर्वपदप्रधानः। तथा द्विगुस्तत्पुरुषश्च एतौ परपदप्रधानौ, यथा पञ्चानां गवां समाहार: पञ्चगवमित्यत्र पञ्चन् शब्दस्य सङ्ख्याभूतस्य विशेषणत्वं, गोशब्दस्य विशेष्यत्वम्। विशेष्यविशेषणयोः मध्ये विशेष्यस्य मुख्यत्वमिति गोशब्दस्य परपदस्य प्रधानत्वम्। तथा तत्पुरुषसमासे राजपुरुषो याति इत्यत्र गमनक्रियायाः पुरुषेण सहान्वयात् तस्यैव प्राधान्यमेवं तत्पुरुष परपदस्य प्राधान्यम् । एवं द्विगुतत्पुरुषयोः परपदस्य क्रियाभिसम्बन्धात् द्विगुतत्पुरुषौ परपदप्रधानौ। तथा द्वन्द्वे कर्मधारये चोभयपदयोः क्रियाभिसम्बन्धात् द्वन्द्वकर्मधारयौ उभयपदप्रधानौ यथा-अग्निश्च सोमश्च इत्यादिषु पदद्वयस्यापि क्रियायामधिकारित्वात् द्वन्द्वे उभयपदयोः प्राधान्यम्। तथा कर्मधारये नीलं च तदुत्पलं चेत्यत्र विशेषणविशेष्ययोरेकार्थनिष्ठत्वादन्योन्याश्रयभूतत्वाच्च पदद्वयस्य प्राधान्यम्। बहुव्रीहौ चान्यपदस्य प्राधान्यम्। यथा-बहु धनं यस्येत्यत्र बहुधनस्य वस्तुभूतत्वं यच्छब्दस्य तु स्वामित्वमिति अन्यपदस्य प्राधान्यम्। तस्यान्यपदस्य क्रियाभिसम्बन्धादिति समासार्थः। अथोपसंहारमाह पूर्वेऽव्ययेऽव्ययीभावोऽमादौ तत्पुरुषः स्मृतः। चकारबहुलो द्वन्द्वः सव्यापूर्वो द्विगुर्मतः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229421
Book TitleShabdartha Chandrika
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages12
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size346 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy