________________
(१९)
यस्य येन बहुव्रीहिः स चासौ कर्मधारयः।
इति किञ्चत्समासानां षण्णां लक्षणमीरितम्।।२॥ इति। अन्यैरप्युक्तम्
यदा बहुव्रीहि रुदीरितो बुधै र्द्वन्द्वश्चकारैरथसङ्ख्यया द्विगुः । चासौ च तत्स्यादिति कर्मधारयः क्लीबोऽव्ययी तत्पुरुषोन्यलक्षणः॥१॥ इति समासानां समासतो लक्षणं प्रोक्तम् । एतेषां विस्तरस्तु ग्रन्थान्तरतो विज्ञेयः। अथ षण्णामपि समासानां किञ्चिद्विशेषलक्षणं वृत्तद्वयेनोच्यते । यदुक्तम्द्वन्द्वश्चकारैः समनामविग्रहा-दाद्योत्तरास्तत्पुरुषे विभक्तयः। चाभ्यां समस्येत विशेषणैर्गुणी तदान्तरस्थेन च कर्मधारये । प्रायो बहुव्रीहिरयं गुणैर्गुणी यदा समस्तान्यविशेषणं भवेत् । सव्याद्यपुंस्त्र्येकतया पदं द्विगु रूपादिपूर्वं तदमन्तमव्ययी॥२॥ (युग्मम्)
अनयोवृत्तयोारव्या-समयोर्नाम्नो: समानां वा नाम्नां विग्रहः समनामविग्रहः, तस्मात् चकारैर्द्वन्द्व समासः स्यात्।
__उभयपदप्रधानो द्वन्द्वः। स च द्विविधः । इतरेतरद्वन्द्वः १ समाहारद्वन्द्वश्च २ ॥ पूर्वस्मिन् द्विवचन बहुवचनं वा। लिङ्गं तु परवर्तमानशब्दापेक्षम्। यथा-घटश्च पटश्चघटपटौ। घटश्च पटश्च लकुटश्च-घटपटलकुयः। घटश्च घटी च घटघट्यौ । चार्थे द्वन्द्व० इति सूत्रेण समासः।
समाहारे तु क्लीबत्वमेकवचनम्। यथा-सुखं च दु:खं च - सुखदुःखम्। दधि च घृतं च - दधिघृतम् ।
आरा च शस्त्री च आराशस्त्रि। यदुक्तम् -
स स्यात् द्वन्द्व-समाहारो यत्रैकवचनं भवेत् ! यत्र द्वित्वं बहुत्वं च स भवेदितरेतरः॥ १॥ इति । अवयवार्थप्रधान इतरेतरः । समुदायार्थप्रधानः समाहारः।
इति द्वन्द्वसमासः॥१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org