SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ || सकलभट्टारकपुरन्दर भट्टारक श्री ५ श्री विजयाणंदसूरीश्वरचरणकमलेभ्यो नमः ॥ ॐ नमः सिद्धिसन्तान - दायिने परमात्मने । श्रीमच्छङ्खश्वराह्मन- पार्श्वेशाय महस्विने ॥ १ ॥ श्रीवर्धमानस्संसिद्धयै वर्धमानमहोदयः । स्ताद्विश्वविश्वविश्वेश- शक्रचक्रस्तुतक्रमः ॥ २ ॥ हेतवे श्रेयसामेव पराय परमेष्ठिने । विधूतरागद्वेषाय कारुण्यनिधये नमः ॥ ३ ॥ सारदां सा (शा) रदां स्मृत्वा शारदेन्दुतनुप्रभाम् । कर्पूरपूरन्यत्कार- कारिकीर्तिविराजिनीम् ॥ ४ ॥ गुरुं श्री विजयानन्दं विजयानन्ददायकम् । नत्वा गौरीगुरु गिरि-ग्रावगौरगुणैर्गुरुम् ॥ ५ ॥ बालानां बुद्धिबोधाय विनोदाय' च वाग्मिनाम् । संक्षिप्तयुक्तिभिर्युक्ता गम्भीरार्थगरीयसी ॥ ६ ॥ टि. १ ॐमिति अवतीत्यौणादिके मप्रत्यये ज्वरतरेत्युठिगुणे स्वरादित्वादव्ययत्वे च सिद्धि:, तस्मै परमब्रह्मरूपायेत्यर्थः । अत्र धुरि मातृकायामिव ॐनमः इति पठितमन्त्रसिद्धमन्त्रोपन्यासः । प्रयोजनं चास्य निर्विघ्नमिष्टार्थसिद्धिरिति । टि. २ श्री वर्धमान इति श्रिया सकलत्रिभुवनजनमनश्चमत्कारकारिमनोहारिपरमार्हन्त्यमहामहिमाविस्तारि - अशोकवृक्षः १ सुरपुष्पवृष्टिः २ दिव्यध्वनि ३ श्चामर ४ मासनं च । भामण्डल (लं) ६ दुन्दुभि ७ रातपत्रं ८ सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ - (१३) शब्दार्थचन्द्रिका सवृत्तिः || श्री शङ्खश्वरपार्श्वनाथाय नमः ॥ ॥ ऐं नमः ॥ इति स्पष्टष्टप्रातिहार्यशोभया चतुस्त्रिंशदतिशयविभूत्या वा समन्वितो वर्धमानः श्रीवर्धमानः । अयं श्री शब्दो महत्त्वप्रतिपादकः, पूज्यनामादौ लोके प्रयुज्यते । टि. ३ टि. ४ कुतूहलाय । - — Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229421
Book TitleShabdartha Chandrika
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages12
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size346 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy