________________
( १४ )
विचक्षणचकोरौघ- हर्षोत्कर्षविधायिनी ।
व्याख्या सुधास्राविणी च पदार्थानां प्रकासि (शि) नी ॥७॥ अज्ञानोग्रतमः स्तोम-प्रध्वंसनपटीयसी ।
सुबोधाऽगाधजलधि-लोलकल्लोलवर्द्धनी ॥ ८ ॥
शब्दार्थचन्द्रिकाख्येयं शब्दशास्त्रेन्दुचन्द्रिका | सारस्वताद्यसत्पद्य-द्वयवृत्तिर्वितन्यते ॥ ९ ॥ ( चतुर्भिः कलापकम्)
निजानुजज्ञ श्री सिद्धि - विजयस्याग्रहान्मया । क्रियमाणप्रयत्नस्तान् मन्दधीबोधतत्फली ॥ १० ॥
इह हि किल निश्शेषसविशेषस्फूर्जद्वर्यपदार्थसार्थपरमार्थजिज्ञासूनां शिशूनां सम्यग्शब्दव्युत्पत्यवबोधाय स्वकीयकमनीयकुशाग्रप्रतिमनिष्प्रतिम प्रतिभाप्रभाप्राग्भारपराभूतप्रबर्हबहिर्मुखाचार्यमानाभिमानैदंयुगीनचञ्चच्चतुरजनचेतश्चमत्कार करणाय य श्रीसारस्वतशब्दानुशासनादिमवृत्तद्वितयस्य व्याख्या संहितादिभेदेन षोढा प्रस्तूयते ।
यदुक्तं पूर्वसूरिभिः शास्त्रान्तरे
संहिता (१) च पदं (२) चैव पदार्थ : ( ३ ) पदविग्रह: ( ४ ) चालना ( ५ ) प्रत्यवस्थानं ( ६ ) व्याख्या तन्त्रस्य षड्विधा ॥
-
अस्यार्थः सुबोध एव । तथापि चाक्षरगमनिकानिगमनासक्वचनवचनरचना रचितसूचामात्रसूचनकृत् सूत्रसूत्रित भावार्थैकदेशो निरूप्यते ।
अयमस्यार्थः- तन्त्रस्य व्याख्या षड्विधा भवति इति क्रियाकारक सण्टङ्कः । "यत्र अन्यत् क्रियापदं न श्रूयते तत्रास्तिभवन्तीत्यादि पुरः प्रयुज्यते " इति न्यायात् इति वृद्धवचनप्रमाण्याद्वा अत्रं अनुक्तमपि 'भवति' पदं योजनीयम् ।
यदाहु:
अह्ना विना न सूर्य: सूर्यविहीनश्च वासरो नास्ति । कर्तृक्रिये तथैव हि संपृक्ते सर्वदा भवतः ॥ १ ॥
इति । अत्र व्यारव्येति कोऽर्थः ? विशेषेण आख्यायते कथ्यतेऽधिकारात् अर्थ इति व्याख्या - व्याख्यानं, 'ख्या प्रकथने इति वचनात् । कस्य ? तन्त्रस्य । तन्यते विस्तार्यत इति तन्त्रं तस्य तन्त्रस्य शास्त्रस्य ।
तन्त्रं सिद्धान्ते राष्ट्रे च परच्छन्दप्रधानयोः । अगदे कुटुम्बकृत्ये च तन्तुवाने परिच्छदे ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org