________________
(२२) समाहारे " अत ईप् द्विगु " इति सूत्रेण ईप्। तिसृणां सन्ध्यानां समाहारः त्रिसन्ध्यम्। त्रिसन्ध्यस्य क्लीबत्वमेव। एकत्वे द्विगुद्वन्द्वाविति सूत्रेण समासः। त्रयाणां भुवनानां समाहारः त्रिभुवनम् । इत्यादि। पात्रादिगणपाठान्नपुंसकत्वम्। द्वयोः साध्वोः समाहारः द्विसाधु। तिस्रो नद्यः समाहृता बिनदि। एवं पञ्चसमिति। इति द्विगुसमासः।। ५ अथाव्ययीभावः।
उपादिपूर्वं तदमन्तमव्ययी०। व्याख्या - उपादिशब्द आदौ येषामव्ययानां शब्दानां ते उपादयः अव्ययशब्दास्ते पूर्वं पूर्वपदं यत्र तत् उपादि। पूर्वमेवंविधं तत्पूर्वोक्तं पदमुप्तरपदं भवति। कीदृशम् ?, अमन्तम् । सर्वविभक्तीनामकारान्तात् प्रायोऽमादेश: स्यात्। सोऽम् अन्ते समासान्ते यस्योत्तरपदस्य तदमन्तमेवंविधं यत्रोत्तरपदं भवति, सोऽव्ययी। अव्ययं पूर्वपदं यस्य सोऽव्ययी। अव्ययीभावसमास इत्यर्थः। पूर्वेऽव्ययेऽव्ययीभावः।
यथा - कुम्भस्य समीपम् उपकुम्भमस्ति १ पश्य २ क्रुध्यति ४ शोभा ६ । क्रमेण प्रथमाद्वितीयाचतुर्थीषष्ठीनां "आतोऽमनत" इत्यमादेशः। तृतीया-सप्तम्योस्तु वा टाङ्यो इति सूत्रेणामादेशो वा। यथा उपकुम्भं कृतं, उपकुम्भेन कृतम्। उपकुम्भं शेते, उपकुम्भे शेते इति। पञ्चम्यां त्वमादेशाभावे उपकुम्भादानयेति। आकारान्तशब्दान् विनान्यस्वरान्तव्यञ्जनान्तशब्देभ्यो विभक्तिलोप एव स्यात् । यथा -- स्त्रीषु अधि अधिस्त्रि। . साधोः समीपम् उपसाधु । नद्याः समीपम् उपनदि। भवत: समीपम् उपभवत्। भवत्याः समीपम् उपभवति ।
सुखस्यानतिक्रमेण यथासुखम्। " यथा सादृश्ये " इति सूत्रेण समासः। इत्यव्ययीभावसमासः॥ ६॥ इति द्वितीयवृत्तार्थः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org