Page #1
--------------------------------------------------------------------------
________________ POSTMISSISTSIDEOSEBSCRISISED // श्रीजिनाय नमः // // श्री चारित्रविजयगुरुभ्यो नमः // // श्रीसत्यभामाचरित्रं // (कर्ता-श्रीशुभशीलगणी) (द्वितीयावृत्तिः) छपावी प्रसिद्ध करनार-पण्डित हीरालाल हंसराज-(जामनगरवाळा) 5 संवत् 1990 किंमत रु. 0-8-0 सने 1934 श्रीजैनभास्करोदय प्रिन्टिग प्रेसमां छाप्यु-जामनगर. eeeeee0 Doo @@@@@@@@ @@@@000000
Page #2
--------------------------------------------------------------------------
_
Page #3
--------------------------------------------------------------------------
________________ सत्यभामा चरित्रं // 1 // ॐॐॐॐ ॥श्रीजिनाय नमः॥ // श्रीचारित्रविजयगुरुभ्यो नमः // // अथ श्रीसत्यभामाचरित्रं प्रारभ्यते / (कर्ता-श्रीशुभशीलगणी) - --- (द्वितीयावृत्तिः ) छपावी प्रसिद्ध करनार-पंडित श्रावक होरालाल हंसराज (जामनगरवाळा) शीलादिरुचिरं धर्म / कुर्वाणो मानवोऽनिशं // सत्यभामेव लभते / साधुवादं पदे पदे // 1 // द्वारा-18 वत्यां नगर्या श्रीकृष्णो वासदेवो राज्यं करोतिस्म. अथान्यदा कलिकुतूहलो नारदर्षिः कृष्णसभायां समा-14 यातः एवं नारदं समागतं दृष्ट्वा हरिः कतिचित्पदानि तत्सन्मुखं गत्वा तं वंदतेस्म. ततो हरिणा तस्य / भूरि सत्कारः कृतः, यतः स नारदर्षिस्तस्यास्खलितब्रह्मचर्यक्तेन जगति सर्वत्रापि सर्वराजसभासु पूज्य- है। ते. एवं क्षणवारं कृष्णासभायां स्थित्वा स कुतुहलतस्तस्यांतः पुरे ययौ. तस्मिन् समये हरेः पट्टराज्ञीस CO
Page #4
--------------------------------------------------------------------------
________________ सत्यभामा / त्यभामा दर्पणमध्ये निजमुखं विलोकयंती स्थितासोत्. तत्रागतं नारदर्षि विलोक्यापि तं विरतिरहितं / चरित्रं | मन्यमाना सत्यभामा नमस्कारेणापि तस्यादरं नाकरोत्, एवं स्वकीयावज्ञां विज्ञाय मनसि कुद्धो नारदो // 2 // // 2 // व्यचिंतयत, अहो ! देवाधीश्वरस्य पट्टदेव्योऽपि कदापि मदोयावज्ञां न कुर्वति, परमियं सत्यभामा कृष्ण #स्य पट्टराज्ञीत्वेनाभिमानपर्वतारूढास्ति, यतः-अहंकारेशति प्रौढे / वदत्येवं गुणावली // अहं कारे पति-2 ब्यामि / समायाना त्वदंतिकं // 1 // इति चिंतयन् स नारदर्षिः क्रोधेन तां सत्यभामां गर्विष्टां मन्यमानः || सपत्नीदुःखे ह्येनां पातयामीति धिया द्रुतं ततो निःसृत्य गगनमार्गेण कुंडिनामिधं पुरं ययो. तत्र कुंडि नपुरे रुक्मिनामा राज्यं करोतिस्म. स नारदोऽपि तस्य राजप्तभायां प्राप्तः. तदा रुक्मिनृपेण समुत्थाय / 18 भूरिसन्मानपूर्वकं स सत्कृतः. क्षणं तत्र स्थित्वा स तस्यांतःपुरे जगम. तत्र रुक्मिनृप स्वस्रा कुमारिकया / 1 रुक्मिण्यापि बहाददेण स पूजितः, तदा संतुष्टोऽसौ नारदस्तस्याः पुरः श्रीकृष्णस्य सद्गुणान् वर्णयामा* स. एवं कृष्णगुणान् श्रुत्वा सा रुक्मिणी कुमारिका कृष्णप्रत्यनुगंग धारयंती तमेव परिणेतुं निश्चयमक रोत. ततो रुक्मिण्या सत्कृतस्तस्या रूपं चित्रपट्टे-समालिख्य नारदस्ततो निःसृत्य द्वारावत्यां कृष्णपाश्च
Page #5
--------------------------------------------------------------------------
________________ सत्यभामा सब समागत्य तच्चित्रपट्ट तस्मै दर्शयामास. तच्चित्रं दृष्ट्वा मदनबाणविद्धस्य कृष्णस्य मनसि तस्यामनुरा चरित्रं मृत्. यतः-तावन्महत्वं पांडित्यं / कुलीनत्वं विवेकिता // यावज्ज्वष्यति नांगेषु / हंत पंचेषुपावकः // 1 // // 3 // || शंभुस्वयंभुहरयो हरिणेक्षणानां / येनाक्रियंत सततं गृहकर्मदासाः // वाचामयोचरचरित्रपवित्रिताय / तस्मै नमो वलवते कुसुमायुधाय // 2 // मत्तेभकुंभदलने भुवि संति शूगः / केचित्प्रचंडमृगराजवधेऽपि दक्षाः // किंतु ब्रवीमि बलिनां पुरतः प्रसह्य / कंदर्पदर्पदलने विरला मनुष्याः // 3 // तावदेव कृतिनामपि / स्फुरत्येष निर्मलविवेकदीपकः // यावदत्र न कुरंगचक्षुषा / ताड्यते चटुललोचनांचलैः // 4 // एवं तचित्रपटें विलोक्य कामविह्वलः कृष्णो नारदंप्रति जगौ, भो नारदर्षे ! कस्याः स्त्रियः स्वरूपमत्र चित्र-161 18 पट्टे चित्रितमस्ति ? तदा नारदोऽवदत्, भो कृष्ण! इद कुंडिनपुरस्वामिनो रुक्मिनृपस्य लध्व्याः स्वसू / / रूक्मिण्याः स्वरूपं चित्रितमस्ति, सा चाद्यापि कुमारी वर्तते. तत्रान्यदा गतोऽहं तस्याः पुरस्तात्तव गु णानवर्णयं, तेन च सा त्वांप्रति भृशमनुरागवती जातास्ति, ततश्च तयात्वामेव परिणेतुं निश्चयः कृतो. .ऽस्ति, अथ तत्र त्वं दूतं संप्रेष्य रुक्मिभूगतां मार्गयस्व ? इत्युक्त्वा नारदस्ततो निःसृत्यान्यत्र जगाम. /
Page #6
--------------------------------------------------------------------------
________________ // 4 // सत्यभामा / अथैवं नारदवासि निशम्य प्रहृष्टः कृष्णस्तत्कालं तां रुक्मिणा मार्गयितुं विचक्षणमेकं दूतं रूक्मिभूचरित्रं है पपाश्वे प्रेषयामास. स दूतोऽपि तत्र गत्वा रुक्मिनृपाय कृष्णोक्तं संदेशं कथयामास. मो दूत! मया पुरैव // 4 // ममेयं भगिनी रुक्मिणी शिशुपालाय दत्तास्ति कन्या हि सकृदेव दीयते किंच तस्मै कुलहीनाय गोपा लाय मे भगिनीं दातुं सर्वथैवाहं नेच्छामि. यतः-कुलं च शीलं च सनाथता च / विद्या च वित्तं च व-2 पुर्वयश्च // वरे गुणाः सप्त विलोकनीया-स्ततः परं भाग्यवशा हि कन्या // 1 // किंच स गोपालः कृष्णा बहपत्नाको वर्तते. अतोऽहं मम स्वसारं सपत्नीनां कष्टे पातयितुं न वांछामि, यतः-वरं रंक कलत्रत्वं / 13 वरं वैधव्यवेदना // वरं नरकवासो वा / मासपल्याः पराभवः // 1 // अतः स शिशुपालनृप एव तस्या यो18 ग्यो वरोऽस्ति, तेन सह परिणोता च सा भृशं शोभां प्राप्स्यति, यतः-हेम रत्नाश्रितं भाति / जयोत्स्ना चंद्राश्रिता पुनः // नागवल्ल्या मुखं यद्व-तथेयं तेन निश्चितं // 1 // इत्यायुक्त्वा रुक्मि नृपेण स कृष्णदूतः पश्चाद्वालितः एवं निराशाभूतः स दूतस्ततो निःसृत्य द्रुतं श्राकृष्णपार्श्वे समागत्य रुक्मिनृपोक्तं सर्व वृत्तांतं कथायामास.
Page #7
--------------------------------------------------------------------------
________________ * * सत्यभामा / इतो रुक्मिण्याः पितृस्वसा तत्कृष्णयाचनस्वरूपं विज्ञाय तं वृत्तांतं रुक्मिण्य कथयामास, यथा तव / चरित्रं भ्राता विष्णुना याचितामपि त्वां तस्मै दातुं न समीहते, तेन त्वां निश्चयेन शिशुपालाय दास्यति. तत् / श्रुत्वा रुक्मिणी जगा, मया तु मनसा विष्णुरेव पतित्वेनांगीकृतोस्ति, अतोऽहं तं विनान्यस्य कस्यापि 5 पाणीग्रहणं न करिष्ये. एवं तां रुक्मिणी विष्णावेवासक्तां विज्ञाय सा तत्पितृस्वसा द्रुतं तं वृत्तांतं कृ. गंप्रति ज्ञापयामास. यथा रुक्मिणी त्वय्येव सानुरागा वर्तते, कथमपि शिशुपालं परिणेतुं नैव वांछति,81 तेन गुप्तवृत्त्या त्वयात्र नगरोद्याने समागंतव्यं मागाष्टमीदिने च नागपूजामहोत्सवमिषेणाहं रुक्मिणीमु-18 याने चानयिष्यामि, पूर्वतश्चागतेन त्वया सा तत्रांगीकर्तव्या. इतश्च विहितवैशहिकमहोत्सवः शिशुपालोऽपि रुक्मिण्याः पाणिग्रहणोत्सुकश्चपलं तत्र परिवारयुतः कुंडिनपुरनगरे समायातः. अथ कलिप्रियनारदर्मुखात्तत्र शिशुपालागमनं विज्ञाय बलदेववासुदेवावपि निजनिजरथारूढो द्रुतं तत्र कुंडिनपुरोद्याने समागतो. तदा सा पितृस्वसा तां रुक्मिणी प्राह, भो भद्रे ! तवेप्सितो भर्ता श्रीकृष्ण उद्याने समाया-|| तोऽस्ति, अतः सांप्रतं त्वं विलंब मा कुरु ? तूर्ण रथमारुह्यावां नागजामिषेणोद्यानं गच्छावः. तत् श्रुत्वा | * * * *
Page #8
--------------------------------------------------------------------------
________________ सत्यभामा / सा रुक्मिण्यपि सजाकृते रथे तया पितृखला सह समारुह्योद्याने समायाता, कृष्णस्य मिलिता च. ततः चरित्रं कृष्णोऽपि प्रेमभरेण तां निजरथे समारोपयत्. अथ स्त्रीचातुर्यप्रविणा सा पितृस्वसा श्रीकृष्णं केनाप्यजी-॥६॥ यमानवैभवं विज्ञाय स्वोपरि समागच्छदोषापहारायो चैः पुच्चकार, भो भो सुभटाः! धावत धावत? इयं रुक्मिणी हरिणा बलात्कारेणापहीयते. इतो वासुदेवोऽपि स्वं मनोरथं परिपूर्ण विज्ञाय हर्षात् स्वं पांचजन्यं शंख पूरयित्वा रुक्मिणीयुतो निजं रथं वेगेन निजपुरंप्रति चालयामास. लक्ष्मणोऽपि तत्पृष्टे निजं 3 रथं प्रेरयतिस्म, अथैवं हरिणा ह्रीयमाणां रुक्मिणी विज्ञाय क्रोद्धोद्धतौ दमघोषरुक्मिनृपौ भरिसैन्ययुतौ / वाजिननादैश्च दिग्गणं पूरयंती तत्पृष्टे दधावतुः. एवं पृष्टे भूरिसैन्यं समागच्छंतं विलोक्य मनसि वि-18 हलीभृता रुक्मिणी श्रीकृष्णंप्रति प्राह-युवामेकाकिनी नाथ / तो त्वसंख्यबलान्वितौ // मत्कृतेऽयमपायोऽभू-युवयोराकुलास्मि तत् // 1 // एवंविधानि रुक्मिण्या वांसि श्रुत्वा, तां च व्याकुलीभृतां वि. ज्ञाय हरिराश्वासयामास. हे प्रिये ! त्वं भयं मा कुरु ? सर्वमप्येतन्महत्सैन्यमावयोरग्रे काकनाशं पलाय्य | दूरं यास्यति. एवमा श्वासिता रुक्मिणी निजस्वामिनं कृष्णंप्रीति प्राह, हे स्वामिन् ! युद्धं कुर्वद्भ्यां युवा
Page #9
--------------------------------------------------------------------------
________________ सत्यभामा / भ्यां कथंचनापि रुक्मिनृपो रक्षणीयः तस्य वधो नैव कायः, अथ तत्सैन्यं निकटे समागतं निरीक्ष्य तो मूल चरित्रं द्वावपि भ्रातरी तेन सह युद्धं कर्तु प्रवृत्ती. हलमुशलादिशस्त्रेस्तो द्वौ युद्धं कुर्वतोऽविद्विषां रथवाजिगज- | // 7 // सुभटान् चूर्णयामासतुः. एवं तयो योात्रोरतुलं बलं विज्ञाय रथस्था रुक्मिणी विस्मयं प्राप्ता. इतो युई। कुर्वता नारायणेन रुक्मिण्यां पश्यंत्यामेव शिशुपालशिरः कमलनालवच्छिन्नं. इतो बलदेवो रुक्मिनृपं ब13 वा प्रोवाच. भो रुक्मिभूप ! रुक्मिणीवधूवचनांत्वां जोवंतं मुंचामि. इत्युक्त्वा मुक्रबंधनं तं स मुमोच. सलज्जो रुक्मिभूपोऽपि तत्रैव नगरं निवेश्य तस्थौ. एवं लब्धजयौ तौ द्वावपि भ्रातरौ ततश्चलितो क्रमेण द्वारिकाया बहिरुद्याने समायातो. स्वर्गपुरसोदरां तां द्वारिकापुरीं दूरादेव दृष्ट्वा रुक्मिणी निजं स्वामिनं वामिन / इयं नगरी ननमतीवमनोहरा दृश्यते. परमहं त्वया छलेनानीतास्मि, अतः सपत्नीगणेऽहं हास्यास्पदं भविष्यामि. तत श्रुत्वा कृष्णस्तां जगाद, भो प्रिये! एतद्विषये त्वया मनागपि खेदो / न कार्यः, अहं त्वां सर्वासु मदोयराज्ञीषु मुख्यां पट्टराज्ञोमेव करिष्यामि, तेन तासां मध्यात्कापि तव मनागपि हास्यचेष्टां न करिष्यति. इत्युक्त्वा कृष्णस्तत्रैवोद्यानं तां गांधर्वविवाहेन पर्यणयत्. अथ तत्रैवो MASASSACROSC-SCA-SCAUSA प्राह
Page #10
--------------------------------------------------------------------------
________________ सत्यभामा | याने लक्ष्म्या देव्या एकं मंदिरमासोत, तत्र मंदिरे च मानुष्याकारप्रमाणोपेता लक्ष्मीमूर्तिः स्थापिता चरित्र बभूव. तां मुर्तिमुत्थाप्य हरिस्तत्र तां रुक्मिणीमुपावेशयत. ततस्तां कृष्णेनोक्तं, हे प्रिये ! सत्यभामाद्या IPL // 8 // // 8 // मदीयाग्रमहिष्यो मया प्रेषिता अत्र लक्ष्मीदेवी वंदनार्थ समागमिष्यंति. तस्मिन्नवसरे त्वया क्षणं स्थैर्यभावेनैव स्थातव्य, लक्ष्मीमूर्तिबुध्ध्या च ताः सर्वा अपि किंकर्य इव तव चरणयोः प्रणामं करिष्यति. तत्प्रणामानंतरं च त्वया स्वात्मानं प्रकटीकृत्य ताभिः सह हास्यविनोदः कर्तव्यः. एवं च ताभिः प्रणता 8 8| त्वं सर्वासु राज्ञीष्वग्रमहिषी भविष्यसि. ऐवं कृष्णेनोक्ता सा रुक्मिण्यपि तत्कुतूहलकरणमंगीचकार. अहै येवं तां रुक्मिणी तत्रोद्ययाने लक्ष्मीमंदिरे मुक्त्वा कृष्णो बलभद्रयुतो नगरमध्ये निजावासे जगाम. एवं , रुक्मिणीरहितं कृष्णं गृहे समागतं वीक्ष्य स्त्रीस्वभावतो मनागीर्ष्याभिभूता सत्यभामा जगाद, हे स्वामिन् ! त्वया कीदृशी प्रियाजनीतास्ति ? क्व च स्थापितास्ति ? अहं तां नः सपत्नीं विलोकयितुमिच्छामि. तत् श्रुत्वा कुतुहलप्रियः कृष्णो मनाग विहस्य प्राह, भो सत्यभामे ! सा निजरूपयौवनमदोन्मत्ता मयोपवने लक्ष्मीमंदिरे स्थापितास्ति. यदि ने तद्विलोकनेच्छा तदा त्वं तत्र व्रज ? एवमुक्ता सत्यभामा स्त्री- 12
Page #11
--------------------------------------------------------------------------
________________ सत्यभामा चरित्रं // 9 // | चपलस्वभावतस्तस्या रूपविलोकनार्थ भृशमुत्कंठिता बभूव, यतः-यदि स्थिरा भवेद्विा-तिष्टंति यदि / वायवः // दैवात्तथापि नारीणां / न स्थेन्ना स्थीयते मनः // 1 // एवं रुक्मिणोविलोकनार्थ भृशमुत्कंठिता। | सत्यभामा पद्मावत्यादिकृष्णाग्रमहिषीयुता रथारूढा द्रुतं तत्रोद्याने लक्ष्मीमंदिरे प्राप्ता. अथ तत्रासनोपविष्टां स्थिरदेहां तां रुक्मिणी लक्ष्मीमूर्तिमेव मन्यमानाः सत्यभामाद्यास्ताः सर्वा अपि कृष्णाग्रमहिष्य स्तस्याः पादयोः प्रथमं प्रणामं चकः. ततो रुक्मिणीविलोकनार्थ यावत्ता अग्रे गंतुं प्रवृत्तास्तावत्सा रु. दक्मिणी द्रतमासनादत्थाय दत्तकरताला विस्मितास्ताः सर्वा अपि विनोदयामास. राजभत्यैश्च द्रतं तत्रा सने पुनः सा लक्ष्मीमतिः स्थापिता. अथ निजस्वामिनस्तां कपटकलां विज्ञाय मनस्सु दूनाः सत्यभामायास्ताः सर्वा अपि अग्रमहिष्यस्ततः पश्चालित्वा गृहे समागताः. इतस्तत्रागतं श्रीकृष्णं सत्यभामा प्राह, हे स्वामिन् ! वयं मुग्धास्त्वया सम्यग् वंचिताः, यक्मिण्याः पादयोः पातिताः. तत् श्रुत्वा हास्य * विधाच कृष्णो जगौ, भो सत्यभामे ! युष्माभिः सा यदा लक्ष्मीबुध्ध्या वंदिता, ततोऽतःपरं सैव पट्टराइय- स्तु. तदा क्रुद्धया सत्यभामया प्रोक्तं, स्वामिन् ! तां रुक्मिणीमेव पट्टराज्ञी विधित्सया त्वया नूनमहं छ
Page #12
--------------------------------------------------------------------------
________________ // 10 // सत्यभामा , लिता, ततोऽतःपरं सैव ते पट्टराइयस्तु. इत्युक्त्वा क्रुधा मुखं मोटयंती सत्यभामा ततो निःसृत्य निजा- मूल चरित्रं वासे जगाम. एवं तां रुक्मिणीमेव पट्टराज्ञी विधाय श्रीकृष्णःसुखेन राज्यं करोतिस्म. एवं च तस्य श्री- In10 // ष्णवासुदेवस्य पद्मावती गौरी गांधारी लक्ष्मणा सुसीमा जंबूवती सत्यभामा रुक्मिणीत्यभिधाना अष्टौ पट्टराइयोऽभवन्. अर्थकदा श्रीसमुद्रविजयांगजो नेमिकुमारो राज्यादि तृणवत्त्यक्त्वा, वर्ष यावच्च दानं दत्वा गिरिनारगिरिं गत्वा संयमं जग्राह. क्रमेण स केवलज्ञानं प्रपेदे. स श्रीनेमेजिनो भव्यजीवान् प्र-51 तिबोधयन्नन्यदा द्वारिकाया नगर्या बहिरुयाने समवासार्षीत्. देवेश्च समवसरणं विहितं. तदोद्यानपालेन / तूर्णं गत्वा श्रीकृष्णाय निवेदितं, हे स्वामिन् ! नगर्या बहिरुयाने श्रीनेमिप्रभुः समवसृतोऽस्ति, देवेश्च / है समवसरणं कृतमस्ति. तत् श्रुत्वा हृष्टः कृष्णस्तस्मै उद्यानपालाय पारितोषिकं दत्वा समुद्रविजयवसुदेवादिपरिवारयुतः प्रभोदनार्थ नगर्या बहिरुद्याने जगाम. तत्र च प्रभुंत्रिःप्रदक्षिणीकृत्य तन्मुखाद्धर्मोप देशं श्रोतुमुचितस्थाने स समुपविष्टः प्रभुणापि धर्मोपदेशो दत्तः, यथा-स्वर्गस्तस्य गृहांगणे सहचरी / साम्राज्यलक्ष्मीः शुभा / सौभाग्यद्विगुणावलिविलसति स्वैरं वपुर्वेश्मनि // संसारः सुतरः शिवं करतल- 2
Page #13
--------------------------------------------------------------------------
________________ // 11 // 11 // सत्यभामा क्रोडे लुठत्यंजसा / यः श्रद्धाभरभाजनं जिनपतेः पूर्जा विधत्ते जनः // 1 // रस्नानामिव रोहणक्षितिधरः चरित्रं खं तारकाणामिव / स्वर्गः कल्पमहीरुहामिव सरः पंकेरुहाणामिव / पाथोधिः पयसामिवेंदुमहसां स्थानं गुणानामय-मित्यालोच्य विरच्यतां भगवतः श्रीसंघपूजाविधिः // 2 // सर्वज्ञो हृदि वाचि तद्गुणगणः कायेन देशव्रतं / धमें तत्परता परः परिणतो बोधो बुधलाध्यता // त्रीतिः साधुषु बंधुता बुधजने जैने | रतिः शासने / यस्यैवं भवभेदको गुणगणः स श्रावकः पुण्यभाक् // 3 // कृत्वात्पदपूजनं यतिजनं न-18 वा विदित्वागमं / हित्वा संगमधर्मकर्मठधियां पात्रेषु दत्वा धनं // गत्वा पद्धतिमुत्तमकमजुषां जिवातरारिद्रजं / स्मृत्वा पंचनमस्त्रियां कुरु करकोडस्थमिष्टं सुग्वं // 4 // इत्यादिधर्मोपदेशश्रवणानंतरं श्री-18 कृष्णः प्रभुं प्रणम्य पप्रच्छ, हे स्वामिन् ! ममैता अग्रमहिष्यः सत्यो वा न ? भगवानाह भो कृष्ण ! स। अपि तवैता अग्रमहिष्यः सत्यः संति. तद्विषये मनागपि त्वया संशयों न विधेयः. ततः कृष्णेन पुनः / / | पृष्टं, हे भगवन् ! वर्षमध्ये का तिथिः सर्वोत्कृष्टा वर्तते ? प्रभुराह, हे कृष्ण ! मार्गशीर्षस्य शुकादशी तिथिः सर्वोत्कृष्टा वर्तते, यतस्तस्यां तिथी पंचसु भरनेषु, पंचसु चेरवतेषु तीर्थकराणां पंच पंच कल्याण
Page #14
--------------------------------------------------------------------------
________________ चरित्रं 12 // // 12 // सत्यभामा / कानि जातानि. एवं तत्र तिथौ सर्वाणि मिलित्वा पंचाशत् (50) कल्याणकानि, जातानि संति. अतः कारणात् सा तिथिर्वर्षमध्ये सर्वोत्कृष्टा वर्तते. तेन तस्यां तिथौ सविशेषं तपः कार्य, तपो हि सर्वकर्म- क्षयं विधाय मोक्षसुखं यच्छति, यतः-विरज्य विषयेभ्यो ये-स्तेपे मोक्षफलं तपः // तैरेव फलमंगस्य / / | जगृहे तत्ववेदिभिः // 1 // यद् दूरं यद् दुगराध्यं / यच्च दूरे व्यवस्थितं // तत्सर्व तपसा साध्यं / तपो | हि दुरतिक्रमं // 2 // यस्माद्विघ्नपरंपरा विघटते दास्यं सुराः कुर्वते / कामः शाम्यति दाम्यतींद्रियगणः | कल्याणमुत्सर्पति // उन्मीलंति महर्षयः कलयति ध्वंसं च यत्कर्मणां / स्वाधीनं त्रिदिवं करोति चपलं श्लाघ्यं तपस्तन्न किं // 3 // सो अतवोकायवो / जेण मणो अमंगलं नचिंतेइ // जेण न इंदियहाणी।। जेण य जोगा न हायंति // 4 // एवं प्रभुमुखादेकादशीतपोमाहत्म्यं श्रुत्वा श्रीकृष्णो निजाग्रमहीषीभिः / से सह तपःप्रभृतिभिस्तां तिथिमाराधयामास. तद् दृष्ट्वा सर्वे लोका अपि तां तिथिं तपसाराधयामासुः. वाः / सत्यभामादयः कृष्णाग्रमहिष्यस्तत्तप आराधयंत्यो विहितभृरिप्रयत्नैर्देवैरपि तत्तपसः कथमपि न चलिता. ततः क्रमेण ताः सत्यभामारुक्मिण्यादयोऽष्टावप्यग्रमहिष्यों नेमिप्रभुपावें दीक्षां जगृहुः. ततस्ताः सर्वा | बरCSC
Page #15
--------------------------------------------------------------------------
________________ सत्यभामा , अपि निरंतरं षष्टाष्टमादिविविधतपांसि कर्तुं प्रवृत्ताः, क्रमेण च क्षीणसर्वकर्माः केवलज्ञानमवाप्य श्रीशचरित्रं / जयगिरौ गत्वाशनपुर्वकं स्वयुःक्षये मुक्तिं ययुः // इति सत्यभामाचरित्रं संपूर्ण // श्रीरस्तु.॥ // 13 आ चरित्र श्रीशुभशीलगणीजीए रचेला कथाकोष नामना ग्रंथमाथी उद्धरीने तेनी मूलभाषामां बनता प्रयासे सुधारो वधारो करी जामनगरनिवासी पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयने माटे पोताना श्रीजनभास्करोदय प्रेसमा छापीने प्रसिद्ध कर्यु. // समाप्तोऽयं ग्रंथः गुरुश्रीमच्चारित्रविजयसुप्रसादात् //
Page #16
--------------------------------------------------------------------------
________________ 000009889seeeeee8988 Abbbbbbbbbbbbbbbbbbbbbbbbbbbbbbbbb ΕΕΕΕΕΕ ξ 1 gia offeeHHIT HAIHA ι Πφφφφφφφφφφφφφφφφφφφφφφφφφφφφφφφφφφφφς 000000 eggiesistegasileieseisleeves