________________ सत्यभामा / सा रुक्मिण्यपि सजाकृते रथे तया पितृखला सह समारुह्योद्याने समायाता, कृष्णस्य मिलिता च. ततः चरित्रं कृष्णोऽपि प्रेमभरेण तां निजरथे समारोपयत्. अथ स्त्रीचातुर्यप्रविणा सा पितृस्वसा श्रीकृष्णं केनाप्यजी-॥६॥ यमानवैभवं विज्ञाय स्वोपरि समागच्छदोषापहारायो चैः पुच्चकार, भो भो सुभटाः! धावत धावत? इयं रुक्मिणी हरिणा बलात्कारेणापहीयते. इतो वासुदेवोऽपि स्वं मनोरथं परिपूर्ण विज्ञाय हर्षात् स्वं पांचजन्यं शंख पूरयित्वा रुक्मिणीयुतो निजं रथं वेगेन निजपुरंप्रति चालयामास. लक्ष्मणोऽपि तत्पृष्टे निजं 3 रथं प्रेरयतिस्म, अथैवं हरिणा ह्रीयमाणां रुक्मिणी विज्ञाय क्रोद्धोद्धतौ दमघोषरुक्मिनृपौ भरिसैन्ययुतौ / वाजिननादैश्च दिग्गणं पूरयंती तत्पृष्टे दधावतुः. एवं पृष्टे भूरिसैन्यं समागच्छंतं विलोक्य मनसि वि-18 हलीभृता रुक्मिणी श्रीकृष्णंप्रति प्राह-युवामेकाकिनी नाथ / तो त्वसंख्यबलान्वितौ // मत्कृतेऽयमपायोऽभू-युवयोराकुलास्मि तत् // 1 // एवंविधानि रुक्मिण्या वांसि श्रुत्वा, तां च व्याकुलीभृतां वि. ज्ञाय हरिराश्वासयामास. हे प्रिये ! त्वं भयं मा कुरु ? सर्वमप्येतन्महत्सैन्यमावयोरग्रे काकनाशं पलाय्य | दूरं यास्यति. एवमा श्वासिता रुक्मिणी निजस्वामिनं कृष्णंप्रीति प्राह, हे स्वामिन् ! युद्धं कुर्वद्भ्यां युवा