________________ सत्यभामा चरित्रं // 9 // | चपलस्वभावतस्तस्या रूपविलोकनार्थ भृशमुत्कंठिता बभूव, यतः-यदि स्थिरा भवेद्विा-तिष्टंति यदि / वायवः // दैवात्तथापि नारीणां / न स्थेन्ना स्थीयते मनः // 1 // एवं रुक्मिणोविलोकनार्थ भृशमुत्कंठिता। | सत्यभामा पद्मावत्यादिकृष्णाग्रमहिषीयुता रथारूढा द्रुतं तत्रोद्याने लक्ष्मीमंदिरे प्राप्ता. अथ तत्रासनोपविष्टां स्थिरदेहां तां रुक्मिणी लक्ष्मीमूर्तिमेव मन्यमानाः सत्यभामाद्यास्ताः सर्वा अपि कृष्णाग्रमहिष्य स्तस्याः पादयोः प्रथमं प्रणामं चकः. ततो रुक्मिणीविलोकनार्थ यावत्ता अग्रे गंतुं प्रवृत्तास्तावत्सा रु. दक्मिणी द्रतमासनादत्थाय दत्तकरताला विस्मितास्ताः सर्वा अपि विनोदयामास. राजभत्यैश्च द्रतं तत्रा सने पुनः सा लक्ष्मीमतिः स्थापिता. अथ निजस्वामिनस्तां कपटकलां विज्ञाय मनस्सु दूनाः सत्यभामायास्ताः सर्वा अपि अग्रमहिष्यस्ततः पश्चालित्वा गृहे समागताः. इतस्तत्रागतं श्रीकृष्णं सत्यभामा प्राह, हे स्वामिन् ! वयं मुग्धास्त्वया सम्यग् वंचिताः, यक्मिण्याः पादयोः पातिताः. तत् श्रुत्वा हास्य * विधाच कृष्णो जगौ, भो सत्यभामे ! युष्माभिः सा यदा लक्ष्मीबुध्ध्या वंदिता, ततोऽतःपरं सैव पट्टराइय- स्तु. तदा क्रुद्धया सत्यभामया प्रोक्तं, स्वामिन् ! तां रुक्मिणीमेव पट्टराज्ञी विधित्सया त्वया नूनमहं छ