________________ // 4 // सत्यभामा / अथैवं नारदवासि निशम्य प्रहृष्टः कृष्णस्तत्कालं तां रुक्मिणा मार्गयितुं विचक्षणमेकं दूतं रूक्मिभूचरित्रं है पपाश्वे प्रेषयामास. स दूतोऽपि तत्र गत्वा रुक्मिनृपाय कृष्णोक्तं संदेशं कथयामास. मो दूत! मया पुरैव // 4 // ममेयं भगिनी रुक्मिणी शिशुपालाय दत्तास्ति कन्या हि सकृदेव दीयते किंच तस्मै कुलहीनाय गोपा लाय मे भगिनीं दातुं सर्वथैवाहं नेच्छामि. यतः-कुलं च शीलं च सनाथता च / विद्या च वित्तं च व-2 पुर्वयश्च // वरे गुणाः सप्त विलोकनीया-स्ततः परं भाग्यवशा हि कन्या // 1 // किंच स गोपालः कृष्णा बहपत्नाको वर्तते. अतोऽहं मम स्वसारं सपत्नीनां कष्टे पातयितुं न वांछामि, यतः-वरं रंक कलत्रत्वं / 13 वरं वैधव्यवेदना // वरं नरकवासो वा / मासपल्याः पराभवः // 1 // अतः स शिशुपालनृप एव तस्या यो18 ग्यो वरोऽस्ति, तेन सह परिणोता च सा भृशं शोभां प्राप्स्यति, यतः-हेम रत्नाश्रितं भाति / जयोत्स्ना चंद्राश्रिता पुनः // नागवल्ल्या मुखं यद्व-तथेयं तेन निश्चितं // 1 // इत्यायुक्त्वा रुक्मि नृपेण स कृष्णदूतः पश्चाद्वालितः एवं निराशाभूतः स दूतस्ततो निःसृत्य द्रुतं श्राकृष्णपार्श्वे समागत्य रुक्मिनृपोक्तं सर्व वृत्तांतं कथायामास.