Book Title: Ramchandrasuri Gunchandrabhyam Virachitayam Dravyalankar Swopagna Tikayam Bauddh Granthebhya Uddhrut Patha
Author(s): 
Publisher: 
Catalog link: https://jainqq.org/explore/212315/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ .. // श्री शङ्केश्वरपार्श्वनाथाय नमः // // श्री शान्तिनाथाय नमः // // श्री सदगुरुः शरणम् // जैनाचार्यश्री हेमचन्द्रसूरिमुख्यशिष्याभ्याम् आचार्यरामचन्द्र-गुणचन्द्राभ्यां विरचितायां द्रव्यालङ्कारस्वोपज्ञटीकायां बौद्धग्रन्थेभ्य उद्धृताः पाठाः सिद्धहेमशब्दानुशासनादिविविधग्रन्थप्रणेतारः कुमारपालभूपालप्रतिबोधकाः कलिकालसर्वज्ञा जैनाचार्याः श्री हेमचन्द्रसूरयः विश्वविश्रुताः / तेषां रामचन्द्र-गुणचन्द्रप्रभृतयो बहवः शिष्या आसन , तेषु रामचन्द्रः प्रधानशिष्यः / आचार्यरामचन्द्रेण बहवो ग्रन्था विरचिताः, तेषु स्वोपज्ञटीकायुतो द्रव्यालङ्कारग्रन्थ आचार्यरामचन्द्र-गुणचन्द्राभ्यां संमील्य व्यरचि / रामचन्द्र-गुणचन्द्रयोविस्तरेण परिचयः The नाट्यदर्पण of रामचन्द्र and गुणचन्द्र. A Critical Study By Dr. K. H. Trivedi (Lalbhai Dalpatbhai Series No. 9), L. D. Institute of Indology, Ahmedabad-9 1966 इत्यस्मिन् ग्रन्थे Chapter V, Life, Date and Works of रामचन्द्र and गुणचन्द्र (pp. 209 - 244) इत्यत्र विस्तरेण वर्णितः / संक्षेपेण तु Jainism in Gujrat (A. D. 1100 to 1600) by C. B. Sheth ( Vijaya Devasur Sangh Series 6, Bombay, pp 92-93) इत्यत्र इत्थं वर्णितः - " रामचन्द्रसरि was a prominent pupil of हेमसूरि. He wrote the द्रव्यालंकारवृत्ति in V. S 1202 (A. D. 1145-6). He is called शतप्रबन्धक or the author of a hundred works, but it is more probable that he wrote a book called the शतप्रबन्ध. His other works are the कुमारविहारशतक, कौमुदीमित्रानन्दम् , द्वात्रिंशिका, नलविलास, निर्भयमीमव्यायोग, राघवाभ्युदय, यादवाभ्युदय, मल्लिकामकरन्दप्रकरण, रोहिणीमृगाङ्कप्रकरण, वनमाला नाटिका, सुधाकलश, हैमबृहद्वत्तिन्यास, व्यतिरेकद्वात्रिंशिका, आदिदेवस्तव, मुनिसुव्रतस्तव, नेमिस्तव, साधारणजिनस्तव etc. Page #2 -------------------------------------------------------------------------- ________________ द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धृताः पाठाः रामचन्द्र was the joint author of the द्रव्यालङ्कारवृत्ति and नाट्यदर्पणवृत्ति. सिद्धराज had confered on him the बिरुद ‘कविकटारमल्ल.' मेरुतुङ्ग says that he was one eyed................ गुणचन्द्र, महेन्द्र, वर्धमान, देवचन्द्र, उदयचन्द्र and बालचन्द्र were the pupils of हेमसरि. Of these गुणचन्द्र was the joint author of the द्रव्यालङ्कारवृत्ति and नाट्यदर्पणवृत्ति. महेन्द्रसरि wrote the अनेकार्थकैरवकौमुदी in V. S. 1241 and वर्धमानगणि composed the कुमारविहारप्रशस्ति. देवचन्द्र was the author of the चन्द्रलेखाविजय प्रकरण. द्रव्यालङ्कारस्वरूपम् जैनानां मते द्विविधानि द्रव्याणि-जीवा अजीवाश्च / अजीवाः पञ्चधा-पुद्गलाः, धर्मः, अधर्मः, आकाशम् , कालश्चेति / एवं च जैनमते जीव-पुद्गल-धर्मा-ऽधर्माऽऽकाश-कालभेदेन षड् द्रव्याणि / एतेषु कालो जीवाजीवपर्यायरूपत्वाजीवाजीवयोरन्तभूत इत्यपि जैनागमेषु वर्णितम् , एवं च कथञ्चित् पश्चापि द्रव्याणि जैनमते भवन्ति / एतेषां द्रव्याणां स्वरूपं बहुषु जैनग्रन्थेषु आगमिकशैल्या वर्णितं दृश्यते, किन्तु तार्किकशैल्या द्रव्यस्वरूपप्रतिपादनपरः कोऽपि ग्रन्थो जैनपरम्परायां नासीदिति रामचन्द्रगुणचन्द्राभ्यां तार्किकशैल्या तत्प्रणयनं व्यधायि / एतच्च द्रव्यालङ्कारटीकायाः प्रान्ते ताभ्यामेवेत्थं निर्दिष्टम् - "पूर्वैर्यस्य समुद्धतिर्न विहिता धीरैः कुतोऽप्याशयादावाम्यां स समुद्धृतः श्रुतनिधेद्रव्योत्करो दुर्लभः / एनं यूयमनन्तकार्यनिपुणं गृह्णीत तत् कोविदाः स्वातन्त्र्यप्रसवां यदीच्छत चिरं सर्वार्थसिद्धि हृदि // " अस्मिन् ग्रन्थे त्रयः प्रकाशा वर्तन्ते। तत्र प्रथमे जीवप्रकाशे चार्वाकमतनिरासेन जीवस्यास्तित्वं प्रसाध्य दर्शनान्तराभिमतजीवस्वरूपनिरासपूर्वकं जैनदर्शनानुसारेण जीवस्वरूपं वर्णितम् / द्वितीयस्मिन् पुद्गलप्रकाशे दर्शनान्तराभिमतनिरसनपूर्वकं जैनदर्शनाभिमतं पुद्गलस्वरूपं वर्णितम् / तृतीयेऽकम्पप्रकाशेऽवशिष्टानां धर्मादिद्रव्याणां स्वरूपं पूर्ववद् वर्णितम् / अस्य ग्रन्थस्य अतिविस्तृता स्वोपज्ञटीकापि एताभ्यामेव रामचन्द्रगुणचन्द्राभ्यो व्यधायि / अस्याष्टीकायाः तालपत्रोपरि विक्रमसंवत् 1202 वर्षे लिखित एक एव हस्तलिखित आदर्शो जेसलमेरदुर्गे जिनभद्रसूरिसंस्थापितग्रन्थभाण्डागारे Page #3 -------------------------------------------------------------------------- ________________ द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धृता: पाठाः विद्यते / किन्तु दुर्दैवात प्रथमप्रकाशस्य टीका तत्र न विद्यते, केवलं द्वयोरेव द्वितीयतृतीयप्रकाशयोष्टीका तत्रास्ति / अस्मिश्चादर्श मूलं नास्ति, केवलं टीकैव विद्यते, किन्तु टिप्पणे तानि तानि सूत्राणि तत्र तत्र निर्दिष्टानि / अस्याष्टीकाया: New Catalogue of Sanskrit and Prakrit Manuscripts JESALMER COLLECTION ( L. D. Series 36, L. D. Institute of Indology, Ahmedabad-9 1972) इत्यनुसारेण क्रमाकं 366 वर्तते / द्वितीये परिच्छेदे पत्राणि 1-197 / तृतीये परिच्छेदे पत्राणि 1-113 / द्रव्यालङ्कारसूत्रस्य विक्रमसंवत् 1492 वर्षे लिखितः पृथक् एक आदर्शः 'अहम्मदाबाद' नगरे ' हाजापटेलनी पोल' मध्ये 'संवेगीनो उपाश्रय' इत्यस्मिन् जैनस्थाने विद्यते, पत्राणि 1-12 / अपर आदर्शों राजस्थाने 'बेडा' नगरे विद्यते, इमो द्रव्यालङ्कारस्य हस्तलिखितादी ग्रन्थकाररचितप्रथमादर्शानुसारेण, यत आदी विरचिते द्रव्यालङ्कारे ग्रन्थकाराभ्यामेव क्वचित् क्वचित् संशोधनमपि विहितम् , एतच संशोधितं द्रव्यालङ्कारसूत्रं जेसलमेरनगरे यष्टीकाया आदर्शों वर्तते तत्र टिप्पणेषु तत्र तत्र निर्दिष्टं ग्रन्थकाराभ्याम् / __ आदौ लिखितां प्राचीनसूत्रपाठानुसारिणीमपि वृत्तिं तत्र तत्र मध्या निरस्य संशोधितसूत्रपाठानुसारिणी वृत्तिरपि जेसलमेरस्थे टीकादर्श तत्र तत्र लिखिता दृश्यते / टिप्पणान्यपि ग्रन्थकाराशयस्पष्टीकरणाथं तत्र तत्र अधस्ताल्लिखितानि वर्तन्ते / आचार्यहेमचन्द्रसूरीणां सत्तासमयः विक्रमसंवत् 1145-1229 वर्तते / विक्रमसंवत् 1230 वर्षे ( 1174 A. D.) रामचन्द्रस्य मृत्युः, 'जेसलमेर 'नगरस्थो द्रव्यालंकारटीकाया आदर्शस्तु विक्रमसंवत् 1202 वर्षे लिखितः, अतोऽयं ग्रन्थकाराभ्यां स्वयमेव संशोधित: प्रमाणभूतो ग्रन्थः / एतत्सामग्रयनुसारेण परमात्मनः सद्गुरूणां च कृपया अस्य ग्रन्थस्य सम्पादन मया कर्तुमारब्धमस्ति मुनेः धर्मचन्द्र विजयस्य साहाय्येन / अस्य च प्रकाशनं 'लालभाई दलपतभाई भारतीय संस्कृतिविद्यामन्दिरेण' (L. D. Institute of Indology, Ahmedabad-9) कर्तुं निर्धारितमस्ति / अस्मिन् ग्रन्थे प्राचीनेभ्यो न्याय-वैशेषिक-सांख्य-बौद्वादिग्रन्थेभ्यो बहवः पाठास्तत्र तत्र उद्धृताः / तेषु ये ये पाठा बौद्धग्रन्थेभ्य उद्धृतास्तेऽत्र निबन्धेऽस्माभिः संगृहीताः। Page #4 -------------------------------------------------------------------------- ________________ द्रव्यालङ्कार टीकायां बौद्धग्रन्थेभ्य उद्धृता: पाठा: इति शब्देन निर्दिश्य तदनन्तरं ये ये पाठा उद्धताः तेषां निर्देशः " " एतचिह्नान्तर्विहितः, तदनन्तरं यतो यतो बौद्धग्रन्थान् ते पाठा उद्धृताः तेषां मूलस्थानानां निर्देशः [ ] एतादृशे कोष्ठकेऽस्माभिर्विहितः, यत्र तु मूलस्थानानि न लब्धान्यस्माभिः तत्र [ ] एतादृशानि चतुरस्रकोष्ठकानि रिक्तानि स्थापितानि / द्रव्यालंकारटीकायामधस्ताद् लिखितं प्राचीनं विशिष्टं टिप्पणमपि टि० इति संकेतेन तत्र तत्र निर्दिष्टमस्मामिः। धर्मकीर्तिविरचितायाः सम्बन्धपरीक्षायाः प्रमाणविनिश्चयात् धर्मोत्तरविरचितप्रमाणविनिश्चयटीकातश्चानेके पाठा अत्रोद्धृताः, किन्तु ते ग्रन्थाः सम्प्रति संस्कृतभाषायां नोपलभ्यन्ते, किन्तु प्राचीनकाले भोटभाषायां विहिता अनुवादा Tibetan translations एव सम्प्रति लभ्यन्ते, अतो भोटभाषानुवादेषु गवेषणां विधाय तस्य तस्य उद्धृतपाठस्य भोटभाषानुवादा अपि पृथक् परिशिष्टे Appendix अस्माभिर्दर्शिताः / इदं तु ध्येयम्-प्रमाणविनिश्चयटीकाया अतिविस्तृतत्वात् सम्प्रति समयाभावाच्च द्रव्यालंकारटीकायामुद्धृता बहवः पाठाः प्रमाणविनिश्चयटीकायां विद्यमाना अपि अस्माभिर्न लब्धाः / किन्तु केनचित् संशोधकेन विदुषा यदि तद्गवेषणार्थ प्रयत्नः करिष्यते तदाऽवश्यं स फलेग्रहिर्भविष्यति, यतस्तत्र तत्र द्रव्यालंकारटिप्पणेषु ग्रन्थकाराभ्यामेव 'वृद्धधर्मोत्तरः, धर्मोत्तरानुमानम् , धर्मोत्तरवार्तिकम् ' इत्यादि लिखितमेव वर्तते। न्यायबिन्दुटीका लघुधर्मोत्तरनाम्ना जैनेषु प्रसिद्धा, प्रमाणविनिश्चयटीका च बृहद्धर्मोत्तरनाम्ना वृद्धधर्मोत्तरनाम्ना वा प्रसिद्धा / ___ यदा द्रव्यालंकारः सटीक: प्रकाशितो भविष्यति तदा केषाश्चिद् बौद्धग्रन्थानां भोटभाषानुवादानां मूलसंस्कृतपाठगवेषणे विदुषां महत् साहायकमाचरिष्यति / जापानदेशे प्रकाशिताः Peking edtion इति प्रसिद्धा भोटभाषानुवादा: Tibetan translations अस्मन्मित्रस्य स्व० हिदेनोरी कितागावा (Prof. Hidenori Kitagawa, Nagoya, Japan) इत्यस्य साहाय्येन लब्धाः / प्रमाणविनिश्चयस्य Choni edition रूपा प्रतिकृतिस्तु Dr. Walter H. Maurer इत्यस्य साहाय्येन Congress Library, Washington, U. S. A. इत्यतो लब्धा / मम मित्रवर्याणां स्व. Prof. Dr. E. Frauwallner इत्येषां शिष्याभ्यां Prof. Dr. Tilman Vetter तथा Prof. Dr. Ernst Steinkellner इत्याभ्यां प्रकाशितो प्रमाणविनिश्चयस्य प्रथम-द्वितीयपरिच्छेदावपि अत्रोपयुक्तावस्मामिः, तथापि पृष्ठनिर्देशः Peking editon अनुसारेणैव कृत इति ध्येयम् / Page #5 -------------------------------------------------------------------------- ________________ द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उता: पाठा: अत्र येषां पाठानाम् अस्माभिः समयायभावाद् बौद्धग्रन्थानामतिविस्तृतत्वाच मूलस्थानानि न लब्धानि तानि यदि केनचिद् निर्देष्यन्ते तदा वयं तेषामुपकारं स्मरिष्यामः / इत्यावेदयति आदरियाणा पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकार(Via-विरमगाम) गुजरातराज्यम् पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यभारतवर्षम् पूज्यपादगुरुदेवमुनिराजश्रीभुवनविजयान्तेवासी India. 31-5-79 मुनि जम्बूविजयः। न्यायविन्दुः संकेतस्पष्टीकरणम् धर्मोत्तरविरचितटीकया दुर्वेकमिश्रविरचितेन धर्मोत्तरप्रदीपेन च सहितः / Edited by पण्डित दलसुखभाई मालवणिया, published by K. P. Jayaswal Research Institute, PATNA, Bihar, 1955. आचार्यमनोस्थनन्दिवृत्तियुतम् , Edited by स्वामी द्वारिकादास शास्त्री, Published by बौद्धमारती, वाराणसी, 1968. प्रमाणवार्तिकम् प्रमाणविनिश्चयः Peking Edition, published by Tibetan Tripitaka Research Institute, Japan. Volume 130, No. 5710 प्रमाणविनिश्चयटीका Peking Edition, Volume 136-137, No. 5727 सम्बन्धपरीक्षा Choni Edition. हेतुविन्दु धर्मकीर्ति' हेतुविन्द Teil I, edited by Prof. Ernst Steinkellner (Ost, AR Phil-hist.) SB. 252/1Wien, 1966. हेतुबिन्दुटीका भट्टार्चटविरचिता हेतुबिन्दुटीका दुईकमिश्रविरचितेन आलोकेन सहिता, Edited by पण्डित सुखलालजी संघवी Gaekwad's Oriental Series, No. CXIII, Baroda. 1949.. Page #6 -------------------------------------------------------------------------- ________________ द्रव्याटङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धता: पाठाः P. 14. 'तदाह ___ तस्मात् सर्वस्य भावस्य सम्बन्धो नास्ति तत्वतः // " [ सम्बन्धपरीक्षा] P. 14. "तदाह "परापेक्षा हि सम्बन्धः सोऽसन् कथमपेक्षते / संश्च सर्वनिराशंसो भावः कथमपेक्षते // " [सम्बन्धपरीक्षा] P. 35. एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् / ' __ कोऽन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीक्ष्यते // [प्रमाणवार्तिक 3 / 42] P. 35. यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता / [ P. 48 " इह तावत् परमाणूनां संसर्गग्रहे सति संस्थानावमासः स्यात् / न चाविकल्पं संसर्गग्राहि / असंसृष्टत्वं हि परमाणूनां रूपभेदो वा पररूपदेशपरिहारो वा शून्याकाशयोगो वा अन्तरालवतिमिन्नेन्द्रियग्राह्यवस्तुयोगो वा / तत्र न संसर्गावभासो रूपामेदप्रतिभासः, परमाणुमात्रपिण्डावभासप्रसङ्गात् / अत एव परत देशस्य परिहारा स्यात् / अन्तरालवर्तिभिन्नेन्दियग्राह्य वस्तु तु स्पर्शादिपरमाणवः / न चामीषाच क्षुषाऽप्रतिभासे संसर्गः प्रतिभातो भवति / न ह्यन्येन्द्रियजज्ञानविषयोज्येन्द्रियजे ज्ञानेऽवभासते / ततो निर्विकल्पधियां संसर्गावभास एव नास्ति, कुतस्तद्रूपसंस्थानस्य वित्तिभेदचिन्ता स्यात् / या पुनरियं संसर्गलक्षणसंस्थानावमासिनी धीः सविकल्पिका सा न प्रमाणम्" [प्रमाणविनिश्चयटीका पृ० ] इति / तदयुक्तम् / __P. 49. तदुक्तम्- “अधिगते तु स्वलक्षणे तत्सामर्थ्य जन्मा विकल्पस्तदनुकारी कार्यतस्तद्विषयकत्वात् स्मृतिरेव, न प्रमाणम् , अनधिगतवस्तुरूपानधिगतेः" [ हेतुबिन्दुः पृ० 3] _P. 49. यदुक्तम्-" तस्मादनधिगतार्थविषयं प्रमाणमिति 'अनधिगते स्वलक्षणे' इति विशेषणीयम् ' [ हेतुबिन्दुः पृ० 3] P. 50. यदुक्तम्- " तदेव परमार्थसत् , अर्थक्रियायोग्यलक्षणत्वाद् वस्तुनः" [न्यायबिन्दु 1 / 14, 15] 1-2 द्रव्यालङ्कारटिप्पणे इदं वर्तते / 3 वृद्धधर्मोत्तर आह-टि० / Page #7 -------------------------------------------------------------------------- ________________ MOLTOLAM द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धृताः पाठाः _P. 50. यदाह-"न च सामान्यं काश्चिदर्थक्रियामुपकल्पयति स्वलक्षणप्रतिपत्तेरूचं तत्सामोत्पविकल्पज्ञानग्राह्यम् " [हेतुबिन्दुः पृ० 3] इति P. 54. यदुक्तम्" 'अन्योन्यप्रत्ययापेक्षास्ते तथास्थितमूर्तयः। कर्मणां चापि सामर्थ्यादविनिर्भागवर्तिनः // सनिवेशेन ये भावाः प्राणिनां सुखदुःखदाः। कर्मभिर्जनितास्ते हि तेभ्य एवाविभागिनः॥" [6 ] इति / P. 56. यदुक्तम्- "बहूनां च निरवयवानां प्रतिभासः समुदायविषयः सावयव आभासते [ ] इति / __P: 57. एतेन यदप्युक्तम्." यत् सत् तभिरवयवम् , यथा ज्ञानम् , सच्च दृश्यमानं नीलम् , सावयवत्वे हि दिग्भागभेदनिमित्तो विरुद्धो धर्मः सत्त्वस्यासत्वाख्यो भवति / तेन स्वभावविरुद्धोपलब्ध्या व्यावर्तमानं सत्त्वं निरवयवत्वेन व्याप्यत इति स्वभावः" [ ] इति, तदपि प्रत्युक्तम् / P. 68 एतेन यदुक्तम्"नापि स्थूल एको विषयस्तथावमासी, पाण्यादिकम्पे सर्वस्य कम्पप्राप्तेः। अकम्पने च चलाचलयोः पृथसिद्धिप्रसङ्गाद् वस्त्रोदकवत् , एकस्यावरणे सर्वस्यावरणप्रसङ्गः अभेदात् / न वा कस्यचिदावरणमित्यविकलं दृश्येत" / ...........तथा "रक्त चैकस्मिन् रागः, अरक्तस्य वा गतिः। अवयवरागे वाऽवयविरूपमरक्तमिति रक्तारक्तं दृश्येत / तस्मान्नैकः कश्चिदर्थोऽस्ति यो विज्ञानं सरूपयति" [प्रमाणविनिश्चयः पृ० 262 A] इति, तत् प्रत्युक्तम् / - P. 77. 'यद् वृत्तिः - “इन्द्रियादीनां तु विज्ञानस्य कार्यस्य कादाचित्कत्वात् सापेक्षत्वसिद्धया प्रसिद्धिरुच्यते किमप्यस्य कारणमस्ति" [५माणातिक] इति / P. 77-78: धर्मोत्तरस्त्वाह" किं तस्य सतो भावस्य निवृत्तिधर्मा स्वभावः स्वहेतुभ्यो निष्पन्न आहोम्बिदनिवृत्तिधर्मा / यदि पूर्वः पक्षः, निवृत्तिधर्मतया स्वयमेव निवर्तेत / न च विनाशहेतुसापेक्षनिवृत्तिक एव हेतुभिर्जनित इति वक्तुं युक्तम् / तथाहि-यावद् विनाशहेतुसनिधिकालः तावत् स्थितिधर्मा भावः, अस्थितिधर्मत्वे प्रागेव निवृत्तिप्रसङ्गात् / विनाशहेतुसनिधिकाले X1 अस्य बौद्धग्रन्थादुद्धृतत्वेऽस्माकं सन्देहः 2 धर्मोत्तरानुमानम्-"विवादाध्यवासितं नीलं निरवयवम्, सत्वात् , यथा ज्ञानम्"-टि० / / 3 बृहद्धर्मोत्तरेण-टि० // / धर्मोत्तरवार्तिकम्-टि० // स्वत:१० Page #8 -------------------------------------------------------------------------- ________________ द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धृताः पाठाः च स एव कियत्कालावस्थायी स्वभावो यः प्रथमे क्षणे आसीत् , ततो नैव निवर्तेत कियत्कालावस्थायित्वात् / तस्मान विनाशहेतुसापेक्षनिवृत्तिकः कश्चिद् भावो हेतुमिजन्यते / अथानिवृत्तिधर्मा तस्य स्वभावः, तहि विनाशहेतुमिरपि न निवर्तयितुं शक्येत" [प्रमाणविनिश्चयटीका पृ० 289 A-B] इति / - P. 101. एतेन- "अस्त्यनुभवविशेषोऽर्थकृतो यत इयं प्रतीतिर्न सारूप्यादिति चेत् "1 इति परमतमाशङ्कय यदुक्तम्-"अथ किमिदानीं सतो रूपं न निर्दिश्यते ? इदमस्येति निर्देष्टुं न शक्यत इति चेत्, अनिरूपितेन नामायमात्मना भावान् व्यवस्थापयति इदमस्येदं नेति सुव्यवस्थिता भावाः" [प्रमाणविनिश्चयः पृ० 269 A ] इति, तत् प्रत्युक्तम् / P. 105. यद् विनिश्चयः - सहोपलम्भनियमादभेदो नीलतद्धियोः / अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति // [प्रमाणविनिश्चयः पृ० 263B-264A ] . P.107. तदुक्तम्- "ततः कल्पितभेदनिबन्धनः सहशब्दप्रयोग इति को विरोधः" [प्रमाणविनिश्चयटीका पृ० 186 A] इति। ___P. 107. एतेन यदुक्तम्- ... " विकल्पज्ञेयभेदार्थः, सहशब्दोऽपि भेदिनि / स तुल्यः कल्पनोत्थेऽपि, . 'योऽप्याह-'न सहशब्दोऽर्थान्तरेण विना क्वचिदस्तीति नील-तद्धियोः सहोपलम्भादेव नीलस्य भेदसिद्धेविरुद्धो हेतुः' इति, तदपि तस्यासमीक्ष्य भाषित्वम् / यतो मेदिन्यपि अर्थे विकल्पज्ञेयमेव भेदमवेक्ष्य सहशब्दः, विकल्पविषयत्वमन्तरेण शब्दार्थत्वाभावात् / स च विकल्पविषयो भेदो नील-तद्धियोरपि अस्ति, 'नीलं दृश्यते' इति भेदावमर्शात् / __नैक्यव्याप्तेविरुद्धता // यत् पुनरुच्यते 'विरुद्धो हेतुः स्यात् ' इति तत् पापात् पापीय: / साध्यविपर्ययव्यापनाद् विरुद्धत्वं भवति, न च सहोपलम्भो भेदेन व्याप्तः, अपि तु एकत्वनैव" [ ] इति, तदपि निराकारि। 1 विनिश्चयसूत्र-टि० // - 2 बौद्ध एव यच्छब्देन नैयायिकमतमाशङ्कते-टिः // Page #9 -------------------------------------------------------------------------- ________________ द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धृता: पाठाः P. 107. तदुक्तं-" तेनायं नियमार्थों दर्शितः-ज्ञेयोपलम्भो ज्ञानोपलम्भात्मक एव, नान्यथा / ज्ञानोपलम्भोऽपि ज्ञेयोपलम्भात्मक एवेति, अन्यथा त्वनिवर्तनम्" [प्रमाणविनिश्चयटीका पृ० 185 B] इति / P. 110. एतेन यदुक्तम्-" एतदुक्तं भवति-न मिनयोनियतः सहोपलम्मोऽन्योन्यसम्बन्धमन्तरेण / स च तादात्म्यनिमित्तकस्तावत् स्क्यमनभिप्रेतः / तदुत्पत्तावपि वह्विधूमयोरिव सहोपलम्भव्यभिचारः / विषयविषयिभावलक्षणस्तु साकारपक्षे निराकृत एव / निराकारपक्षेऽप्युक्तम्" [प्रमाणविनिश्चयटीका पृ० 186 A] इति, तत् प्रतिव्यूढम् / ___P. 110. तथा च-" यद् येन नियतसहोपलम्भं तत् ततो न व्यतिरिच्यते, यथैकस्माञ्चन्द्रमसो द्वितीयः, नियतसहोपलम्भश्च ज्ञानेन सह ग्राह्याकारो नीलादिः" [प्रमाणविनिश्चयटीका पृ० 189 B] इत्यभिधाय उक्तं-"मेदः सहोपलम्भानियमेन व्याप्तः प्रतिबन्धाभावात् , तस्य विरुद्धः सहोपलम्भनियमः, तेन व्यापकविरुद्धेन मेदो निराक्रियते" [प्रमाणविनिश्चयटीका पृ० 189 B-190 A] / ततो यदि ज्ञानार्थयोरभेदो न स्यात् तदा सहोपलम्भनियमोऽपि न स्यादिति / .. P. 112. शङ्करनन्दनस्त्वाह "सहसंवेदनं तावद् न सहावस्थानमतिवर्तते, सत्यपि हि संवेदने यदि नास्त्येव नीलं न किश्चित् संवेद्येत / तस्मात् सहसंवेदननियमेऽस्त्येव सहावस्थाननियमः / तदयम• तादात्म्ये प्रकारान्तरेण वक्तव्यः / तच्च न हेतुफलभावः, वह्निशून्यस्यापि धूमस्य दर्शनात् / न च प्रकाश्यप्रकाशकमावः, सर्वेषां स्वात्ममात्रपर्यवसितत्वेन तस्याघटनात् / न चाप्रतिबन्धे सम्भवति / न हि यद् यत्रानायत्तरूपं तस्य तेन सहावस्थाननियमो भवति / तस्मात् तादात्म्यादेवायं सहावस्थाननियमः / ततो यदि नाम ज्ञानस्य स्वसंविदिततयोत्पत्तः तादात्म्याभावेऽपि सहोपलम्भनियमस्तथापि सहावस्थाननियमो न सिध्यति" ] इति / P. 120. यदाहुः -" पारमार्थिकमपि प्रमाणं न निर्हेतुकम् / न च भावनाव्यतिरिक्तो हेतुः / भावना च सांव्यवहारिकप्रमाणपरिच्छिन्नार्थविषया / ततश्च तत् सांव्यवहारिकं प्रमाण सम्यग निरूपितं पारमार्थिकज्ञानहेतुः सम्पद्यते / ततस्तद्विषयो यत्नः परमार्थविषय एव / मिथ्याज्ञानेन हि विषयीकृता भावा नित्यादिभिराकारैर्भाव्यमाना न पारमार्थिकज्ञाननिबन्धनं भवन्ति / अनित्यादिभिस्त्वाकारैर्भाव्यमाना निबन्धनं भवन्त्येव / तस्मादतो व्यामाहं व्यावर्त्य परमार्थनयेऽवतारयितव्यो जनः, स्थूलविषयत्वादस्य व्यामोहस्य / एतद्वयामोहनिवृत्तिपूर्विका च परमार्थप्राप्तिः" [ ] इति / 1 धर्मोत्तरे -टि। Page #10 -------------------------------------------------------------------------- ________________ 10 द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धृता: पाठा: P. 127. तदुक्तम्- - "अर्थोपयोगेऽपि पुनः स्मात शब्दानुयोजनम् / अक्षधीयद्यपेक्षेत सोर्थों व्यवहितो भवेत् / / " . [प्रमाणविनिश्चयः पृ० 253 पं० 1] P. 124. एतेन यदुक्तम् - " मध्यव्यवस्थितस्याणोः पूर्वपश्चिमदक्षिणोत्तराधरोर्ध्वव्यवस्थितैः परमाणुमिर्योगोऽस्ति / न चैकेनैव रूपेण सर्वैरपि सम्बध्यते / यदि हि यत्रासो सम्बध्यमान एको व्यवस्थितस्तत्रापरोऽपि भवेत् तदा स्यादेकेनैव रूपेण सर्वेषा. मभिसम्बन्धः, तच नास्ति, परमाणूनां सप्रतिघत्वात् / अस्ति चाभिसम्बन्धः / ततो मध्यव्यवस्थितस्य षडंशवप्रसङ्गः" [ ] इति / ____P. 131. एतेन यदुक्तम्- " तद्धि अर्थसामर्थेन उत्पद्यमानं तद्रूपमेवानुकुर्यात् / न ह्यथै शब्दाः सन्ति तदात्मानो वा येन तस्मिन् प्रतिभासमाने तेऽपि प्रतिभासेग्न्" [प्रमाणविनिश्चियः पृ० 252 B ] इति, तत् प्रत्युक्तम् / ____P. 132. तेन यदुक्तम्-"शब्दस्य संकेतकालभावितत्वं स्मरणं च व्यापकम् , व्याप्यं शब्देन विशिष्टत्वग्रहणमर्थस्य / ततो न संकेतं तत्स्मरणं चान्तरेण शब्देन विशिष्टो गृह्यते" [प्रमाणविनिश्चयटीका पृ. 57 A पं. 4] / ___P. 132. ततो यदुच्यते-“ अपेक्ष्यमाणत्वं साक्षाजनकत्वेन व्याप्तम् , परम्परयाऽतीतस्यापि व्यापारदर्शनात् / तद्भावमावित्वमेव हि अपेक्षा / साक्षाच्चाजनकत्वे तद्भावभावित्वस्याभाव:" [ प्रमाणविनिश्चयटीका पृ० 61 B] इति, तद् निःसारम् / - P. 133. एवं चैतदपि प्रत्युक्तम् " विशेषणं विशेष्यं च सम्बन्धं लौकिकी स्थितिम् / गृहीत्वा संकलय्येतत् तथा प्रत्येति नान्यथा" || [प्रमाणविनिश्चयः पृ० 253 A, प्रमाणवार्तिकम् 1 / 145] " संकेतस्मरणोपायं दृष्टसंकलनात्मकम् / पूर्वापरपरामर्शशून्ये तच्चाक्षुषे कथम् // " [प्रमाणविनिश्चयः पृ० 253 B, प्रमाणवार्तिकम् 1 / 174 ] P. 135. एतेन यदुक्तम्-" यद्यमिलापवद् विज्ञानं तदा चेतनाचेतनयोस्तादात्म्यमायातम्, न चैतद् युक्तम्" [ ] इति, तत् प्रत्युक्तम् / P. 136. तदुक्तम्-"विचारकत्वे चेन्द्रियमनोविज्ञानयोरभेदप्रसङ्गात् / अमेदेचातीतानागतवस्तुप्रभेदग्रहणाग्रहणोहानूहार्थभावापेक्षानपेक्षादिप्रसङ्गः" [प्रमाणविनिश्चयः पृ०२५३ B] / . P. 138. तदुक्तम्-" इन्द्रियकृतस्तु रूपग्रहणप्रतिनियमोऽस्तु" [प्रमाणविनिश्चयटीका पृ० 66A] इति / Page #11 -------------------------------------------------------------------------- ________________ द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धृता: पाठा: __P. 140. एतेन " यत् प्रत्यक्षं तमामिलापसंसर्गयोग्यप्रतिभासं यथा निर्विकल्पकम् / यदमिलापसंसर्गयोग्यप्रतिभासं न तत् प्रत्यक्षं यथा शाब्द-लैङ्गिकविकल्पो" / [ ] इति प्रसङ्गविपर्ययो प्रत्याख्याती / _____P. 144. तदुक्तम्-" अधिगते तु स्वलक्षणे तत्सामर्थ्यजन्मा विकल्पस्तदनुकारी कार्यतस्तद्विषयत्वात् स्मृतिरेव, न प्रमाणम् अनधिगतवस्तुरूपानधिगतेः [ हेतुबिन्दुः पृ० 3] इति / __P. 144. भवद्भिरपि चोक्तम्- " एकस्मिन्नपि वा वस्तुनि घटादौ विकल्प्यमाने विकल्पप्रतिभासोऽनेकावस्थासाधारणः, प्रत्यक्षप्रतिभासस्तु असाधारणः / तस्मात् साधारणा साधारणविषयतया तयोर्भेदः" [ ] इति / P. 146. यत् प्रमाणवार्तिकम् - “सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः / स्वभावपरभावाभ्यां यस्माद् व्यावृत्तिभागिनः // " [प्रमाणवार्तिकम् 3 / 40] P. 147. तदुक्तम्" एकंप्रत्यवमर्थिज्ञानाघेकार्थसाधने / भेदेऽपि नियता: केचित् स्वभावेनेन्द्रियादिवत् // ज्वरादिशमने काचित् सह प्रत्येकमेव वा / दृष्टा यथा वौषधयो नानात्वेऽपि न चापराः॥" [प्रमाणवार्तिकम् 3273-74 ] P. 149. एतदपि प्रत्युक्तम्" एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी। एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता // " [प्रमाणवार्तिकम् 33109] __P. 154. तदुक्तम्- "इतरेतरभेदोऽस्य बीजं संज्ञा यदर्थिका / " [ प्रमाणवार्तिकम् 372 ] __P. 170-171. एतेन परसिद्धान्तदूषणदानव्यसनिभिः यदुक्तम्" सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः / चोदितो दधि खादेति किमुष्टुं नाभिधावति // 1 // अथास्त्यतिशयः कश्चिद् येन भेदेन वर्तते / स एव दधि सोन्यत्र नास्तीत्यनुभयं परम् / / 2 / / सर्वात्मत्वे च भावानां मिन्नौ स्यातां न धीचनी। मेदसंहारवादस्य तदभावादसम्भवः // 3 // [प्रमाणवार्तिकम् 3 / 182-185] प्रवृत्तिनियमो न स्याद् विषादिषु तदर्थिनः / मोदकाद्यपृथग्भूतसामान्यामेदवृत्तिषु // 4 // 1 एताः षडपि कारिका आचार्यश्री हरिभद्रसूरिविरचितायाम् अनेकान्तजयपताकायामपि प्रथमेऽधिकारे उद्धृता: // Page #12 -------------------------------------------------------------------------- ________________ 12 द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धृताः पाठाः भेदे चोभयरूपैकवस्तुवादो न युज्यते / भेदाभेदविकल्पस्तु विरोधेनैव बाधितः // 5 // विशेषरूपं यत् तेषु तत् प्रवृत्तेनियामकम् / साध्वेतत् किन्तु वस्तुत्वं तस्यैवेत्थं प्रसज्यते // 6 // " P. 173. तदुक्तम्"खस्य स्वभावः खत्वं चेत्यत्र वा किं निबन्धनम् / " [प्रमाणवार्तिकम् 3 // 67] इति / P. 181. एतेन यदुक्तम्- . "शब्दाः संकेतितं प्राहुर्व्यवहाराय स स्मृतः / तदा स्वलक्षणं नास्ति संकेतस्तेन तत्र न॥" [प्रमाणवार्तिकम् 3 / 92] इति, तत् प्रत्युक्तम् / / ___P. 184. तदुक्तम्-" ते तु स्वालम्बनमेवार्थक्रियायोग्यं मन्यमाना दृश्य विकल्प्याववेकीकृत्य प्रवर्तन्ते" [ ] इति / प्रमाण वाति के स्वत:5 प्रामाण्यमपाकतुं प्रयुक्ता, यथा "प्रमेयरूपं हि परिच्छिन्नं वस्तु प्रापयत् प्रमाणमुक्तम् / प्रमेयं च विषयः प्रमाणस्येति विषयवत्तया प्रामाण्यं व्याप्तम् / ततो यद् विषयवद् न भवति न तत् प्रमाणं यथा व्योमोत्पलम् , प्रत्यक्षानुमानाभ्यामन्यच्च विज्ञानं न विषयवदिति व्यापकाभावः" [प्रमाणविनिश्चयटीका पृ० 13 B] इति / सेयं परोक्ता व्यापकानुपलब्धिः प्रत्याख्याता / P. 188. यद् विनिश्चयः - " अनुमानं द्विधा, स्वार्थ त्रिरूपाल्लिङ्गतोऽर्थदृक् / अतस्मिस्तद्ग्रहाद् भ्रान्तिरपि सम्बन्धतः प्रमा / परार्थमनुमानं तु स्वदृष्टार्थप्रकाशनम् / " [प्रमाणविनिश्चयः पृ० 265 A, 266 B, 285 A] इति / ___P. 188. एतेन यदुक्तम्" तथा विषयभेदाद् भिद्यते प्रमाणम् / यतो निमित्तवान् प्रमाणभेदः, निनिमित्तत्वेऽतिप्रसङ्गात् / न चान्यद् निमित्तमुपपद्यते / विषयभेदश्चाश्रितः परेणापि प्रमाणानाम् / विषयापेक्षं च प्रमाणमप्रमाणं चेति विषयापेक्षेणैव तद्भेदेन भवितव्यम् / तस्माद् विषयभेदमात्रनिमित्तः प्रमाणभेदस्तद्भेदेन व्याप्तः। तेन यत् प्रत्यक्षानुमानार्थव्यतिरिक्तविषयं न भवति न तत् ताभ्यां मिनं प्रमाणं यथा ते एव प्रत्यक्षानुमाने प्रत्यक्षानुमानान्तराभ्याम् , यथा वा भ्रान्तिज्ञानम् / न भवति च प्रमाणं नाम प्रत्यक्षानुमानव्यतिरिक्तप्रमेयमिति व्यापकाभाव एव" [प्रमाणविनिश्चयटीका पृ० 13B-140] इति, तदपि निरस्तम् / Page #13 -------------------------------------------------------------------------- ________________ 13 द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धृता: पाठाः P. 189. यदाह" प्रवृत्तिविषयस्य व्यवस्थापकं प्रमाणमिष्यते / तत्र सत्यपि बायेनार्थेन सबन्धे वाच्यभृतेन पदेभ्यो य: पदार्थप्रत्यय उत्पद्यते न तेन कश्चित् प्रवृत्तिविषय उपस्थापितो येन घटार्थी कुतश्चिद् निवृत्य क्वचित् प्रवर्तेत / तथाहि-देशविशेषसम्बद्धे वस्तुनि प्रवृत्तिविषये पुरुषः प्रवर्तितुमुत्सहते / न च केनचिद् देशेन विशिष्टो घटो घटशब्देनोपदर्शित इति कथं तस्मात् प्रवृत्तिः" [ ] इति / - P. 190. यत् प्रमाणवार्तिकम् - " तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः। ख्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः"॥ [प्रमाणवार्तिकम् 3 / 27] इति / _P. 193. एतेन यदुक्तम्" स्वयं हि वस्तु क्वचिद् दृश्यमानं नान्तरीयकं वस्तु तत्रैव सन्निहितमुपदर्शयत् प्रवृत्त्यङ्गं कुर्यात् / शब्दस्तु यत्र पुरुषे दृश्यते न तत्र साध्यार्थोपसंहारः शक्य: कर्तुम् / यत्र च प्रदेशादौ घटो व्यवस्थितस्तत्र शब्दो न दृश्यते / तेन स्वदेशे शब्द: प्रतिपाद्यमर्थमनुपसंहरन प्रवृत्तिनिमित्तीकुर्यात् / तथा न कश्चित् प्रदेशं प्रतिपाद्येनार्थेन विविक्तं दर्शयेत् यः परिहारात्मकप्रवृत्तिविषयः स्यात् " [ ] इति, तदपि निरस्तम् / अथ तृतीयः प्रकाशः P. 3. तदुक्तम्___ "क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया / भूतियैषां क्रिया सैव कारकं सैव चोच्यते // " [ ] इति / __P. 49. " सक्रियस्य हि यदूपमक्रियस्य विरोधि तत् / - ततः कार्यक्रियाकाले पूर्वरूपव्ययो ध्रुवः // " [ ] ___P. 61. यदुक्तं परेण'यो हि यद्रूपो नोपलभ्यते न स तद्रूपः, यथा सुखं दुःखरूपेणानुपलभ्यमानं न तद्रूपम् , तथा च दधिरूपेण नोपलभ्यते क्षीरमिति न तद्रूपम् / सचं हि तादृशस्य दृश्यस्य उपलभ्यतया व्याप्तं तन्मात्रनिमित्तत्वादुपलम्भस्य / उपलभ्याभावाच्च व्याप्यस्यापि सत्वस्य निवृत्तिः / इतररूपोपलम्भश्च तद्रूपानुपलम्भः” [ ] इति, तदपि प्रत्युक्तम् / P. 62. तथेदमपि प्रत्युक्तम्"अथ केयं शक्तिः -" किं स एव भावः, उतान्यदेव किञ्चित् 1 स एव चेत्, तथैवो1 अस्य बौद्ध ग्रन्थादुद्धृतत्वेऽस्माकं सन्देहः॥ 2 अस्य बौद्धग्रन्थादुद्धृतत्वेऽस्माकं सन्देहः। Page #14 -------------------------------------------------------------------------- ________________ 14 द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धृताः पाठाः पलभ्येत विशेषाभावात् / अन्यच्चेत् , कथमन्यभावे तदस्ति / उपचारमात्रं तु स्यात् / एतेन परत्र भाव: प्रत्युक्तः" [ ] इति / P. 71. भट्टार्चटस्त्वाह" यद्युत्तरं कार्यात्मकं भावान्तरमेवाभावस्तदाऽग्निसंयोगादयोऽङ्गारादिजन्मनि व्याप्रियन्त इतीष्टमेवास्माकम् , किन्तु भावान्तरकरणेऽभ्युपगम्यमानेऽग्न्यादीनामिन्धनादावव्यापारात् तदवस्थमेवेन्धनादिकम् / ततश्च यथा अग्न्यादिसंयोगात् प्रागिन्धनादेरुपलब्धिरन्या च तत्साध्यार्थक्रिया तथाङ्गाराद्युत्पत्तावुपलब्ध्यादेः प्रसङ्गः" [हेतुबिन्दुटीका पृ० 78 ] इति, तदेतं भट्टार्चटाशयविटपिनमुत्पाटयति / __P. 72. यदप्युक्तं भट्टाचंटेन" यदि भावान्तरं प्रध्वंसाभावो य एतेऽनुपजातविकाराः प्रदीप-बुद्धथादयो ध्वंसन्ते तेषां कतरद् भावान्तरं प्रध्वंसो व्यवस्थाप्येत" [ हेतुबिन्दुटीका पृ० 79] इति, तत् परसिद्धान्तानवबोधवाधितमित्युपेक्षामर्हति / ___P: 74. तदाह भट्टार्चटः" पर्युदास एवैको नअर्थश्व स्यात् / सोऽपि वा न भवेत् / यदि हि किश्चित् कुतश्चिद् निवर्यंत तदा तद्वयतिरेकि संस्पृश्येत तत्पर्युदासेन / तच्च नास्ति सर्वत्र निवृत्तिर्भवतीत्युक्ते वस्त्वन्तरस्यैव कस्यचिद् विधानात् / तथा चानेन वस्त्वन्तरमेवोक्तं स्यात् , न तयोविवेकः / अविवेके च न पयुदासः" [ हेतुबिन्दुटीका पृ० 81] इति / ____P. 76. अत्र कीर्तिविनाशाहेतुत्वं साधनायोपन्यस्यति "सापेक्षाणां हि *भावानां नावश्यंभावितक्ष्यते / निरपेक्षो भावो विनाशे। सापेक्षत्वे हि घटादीनां केषाश्चिद् नित्यताऽपि स्यात् / यद्यपि बहुलं विनाशकारणानि सन्ति, तेषामपि स्वप्रत्ययाधीनसन्निधित्वाद् नावश्यं सबिधानमिति कश्चिद् न विनश्येदपि। न ह्यवश्यं हेतवः फलवन्तः, वैकल्यप्रतिबन्धसम्भवात् / " [प्रमाणवार्तिकस्ववृत्तिः Hindu Vishvavidyalaya Nepal Rajya Sankrit Series पृ० 65, प्रमाणविनिश्चयः पृ. 276 A ] इति / ___"अयं च प्रमाणार्थों दर्शितः - यो यद्भावं प्रत्यनपेक्षः स तद्भावनियतः / यदि निरपेक्षोऽपि भावः कालदेशा[वस्था Tibetan]न्तरापेक्षया विनश्येत् तदा देशकालावस्थान्तरापेक्षत्वाद् निरपेक्षोन स्यात् / * 'धर्माणाम् ' इति प्रमाणषिनिश्चये पाठः // Page #15 -------------------------------------------------------------------------- ________________ 15 द्रव्यालङ्ककारटीकायां बौद्धग्नन्थेभ्य उद्धृता: पाठाः ततश्च यधेकमपि क्षणं तिष्ठेत् कालान्तरापेक्षया निरपेक्षत्वं बाध्येत / तस्मात् क्षणमात्रावस्थानेऽपि सापेक्षत्वसम्भवाद् निरपेक्षत्वं विरुद्धोपलब्ध्या विपक्षाद् व्यावय॑ते" [प्रमाणविनिश्चयटीका पृ० 290 B- 291 A] / ___P. 76. यदुक्तम्" न ध्रुवभावी भूतस्यापि भावस्य विनाशः, हेत्वन्तरापेक्षणात्" [ ] इति / ___P. 77. तस्माद् धर्मकीर्ति-धर्मोत्तरयोरेवंपरमेव वचः, यथा"यो धर्मिणो धर्मों हेतुव्यतिरेकिणा हेत्वन्तरेण क्रियते, स नावश्यम्भावी, यथा वाससि रागः, विनाशोऽपि यदि तथा स्यात् सोऽपि ध्रुवं न स्यादिति न व्यतिरिक्तहेतुकृतोऽसौ" [ ] इति। P. 79. शङ्करनन्दनस्त्वाह"यथाविधोऽन्वयः तथैवावगमोऽवगच्छंस्तद्वयवस्थानिमित्तं स्यात् , अन्वयश्चाविनाशो नित्यत्वमनेककालसम्बद्धता वा अभिधीयते / न च तथा प्रत्यक्षेण ग्रहणं सम्भवति / एवं हि संभवेत् , यदि प्रत्यक्षं वस्तु गृह्णन् कालत्रयसम्बन्धितावभासं स्यात् , तच्च नास्ति, इन्द्रियापेक्षितया प्रत्यक्षेण वर्तमानकालसहभावित्वमात्रस्य ग्रहणात् / इन्द्रियस्य हि भूतभविष्यतोः सम्बन्धानहत्वात् / तदाहनार्थाभेदोऽपरं रूपं रूपात् कालद्वयानुगात् / तस्य नानुभवात् सिद्धिर्वर्तमानार्थसंश्रयात् // " ] इति / ____P. 82. पुनरप्याह'- “न रूपविशेषाविष्करणमन्तरेणास्ति प्रत्यक्षं किञ्चित् / ततः क आकारोऽन्वयस्यावभासत इति निवेद्यताम्" [ ] इति / ___P. 82. ततो यदुच्यते- " तन्न प्रत्यक्षव्यापारेण नित्यताव्यवस्थापनम्, किन्तु प्रातिभज्ञानादेव [ ] इति तदपाक्रियत / _P. 85. यदुक्तं हेतुबिन्दौ" समनन्तरप्रत्ययाद् विज्ञानाचक्षुर्विज्ञानस्योपलम्भात्मता / तस्यैवोपलम्भात्मनः सतश्चक्षुरिन्द्रियाद् रूपगहणयोग्यताप्रतिनियमः / विषयात् तत्तुल्यरूपता / इत्यभिन्नत्वेऽपि वस्तुतः कार्यस्य कारणानां मिन्नेभ्यः स्वभावेभ्यो भिन्ना एव विशेषा भवन्ति " [हेतुबिन्दुः पृ० 10-11] इति / 1 शङ्करः -टि० / Page #16 -------------------------------------------------------------------------- ________________ 16 द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धृताः पाठाः ___P. 86. लक्षणं चेदम्" जनकैराधेयातिशयस्य कार्यस्य समस्तविशेषकोडीकरणसमर्थ आत्मा यस्मादुत्पद्यते तदुपादानम् / यथा चक्षुरादिभ्यश्चक्षुर्विज्ञानस्य समस्तोफ्कारमयं बोधरूपत्वं समनन्तरप्रत्ययादुत्पन्न मिति तदुपादानम्" [ ] इति / __P. 86. एवं चानेनाप्युपादानलक्षणेन न दोष:" अवस्थाभेदेऽपि यदेकाकारपरामर्शप्रत्ययनिबन्धनतया स्वसन्ततिपतितकार्यप्रसतिनिमित्तं तदुपादानकारणम्" [ हेतुबिन्दुटीका पृ० 95] इति / ___P. 95. अर्चटस्त्वाह" व्यतिरिक्तमपि भावांशादभावांशमिच्छता भावांशः स्वभावेनासंकीर्णरूपः कल्पनीयः, अन्यथा स एव भावांशो न सिध्येत् / न च स्वभावेनासंकीर्णरूपतायामसत्यां पृथग्भूताभावांशसद्भावेऽपि सा युक्तिमती, स्वहेतुबलायातस्य संकीर्णरूपस्याकिश्चित्कराभावांशसम्भवेऽपि त्यागायोगात् / न च तेनैव तद्विनाशनम् , विनाशहेतोरयोगात् / तेन संकीर्ण न्यायोपगमेन / तस्मात् स्वभाव एव भावानां पररूपविकलत्वादभावांशो नान्यः" हेतुबिन्दुटीका पृ० 25-26 ] इति / P. 103. एतेन यदुक्तम्"विरोधिसमिधेर्दोषस्तजन्मा न भवेदपि। सति तस्मिस्तदात्मा तु नानिष्टोऽपि निवर्तते।" [ ] इति, तदपि प्रत्युक्तम् / " मुक्तो न मुक्त एव हि संसार्यपि सर्वथा न संसारी। मानमपि मानमेव हि हेत्वाभासोऽप्यसावेव // 1 // एवं सप्रतिपक्षे सर्वस्मिन्नेव वस्तुतत्त्वेऽस्मिन् / स्याद्वादिनः सुनीत्या न युज्यते सर्वमेवेह // 2 // " ] इति / तदपि निरस्तम् / [ 1 अस्य बौद्धग्रन्थादुद्धृतत्वेऽस्माकं सन्देहः / अनेकान्तजयपताकायामपि उद्धृतमेतत् //