________________ द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धृता: पाठा: __P. 140. एतेन " यत् प्रत्यक्षं तमामिलापसंसर्गयोग्यप्रतिभासं यथा निर्विकल्पकम् / यदमिलापसंसर्गयोग्यप्रतिभासं न तत् प्रत्यक्षं यथा शाब्द-लैङ्गिकविकल्पो" / [ ] इति प्रसङ्गविपर्ययो प्रत्याख्याती / _____P. 144. तदुक्तम्-" अधिगते तु स्वलक्षणे तत्सामर्थ्यजन्मा विकल्पस्तदनुकारी कार्यतस्तद्विषयत्वात् स्मृतिरेव, न प्रमाणम् अनधिगतवस्तुरूपानधिगतेः [ हेतुबिन्दुः पृ० 3] इति / __P. 144. भवद्भिरपि चोक्तम्- " एकस्मिन्नपि वा वस्तुनि घटादौ विकल्प्यमाने विकल्पप्रतिभासोऽनेकावस्थासाधारणः, प्रत्यक्षप्रतिभासस्तु असाधारणः / तस्मात् साधारणा साधारणविषयतया तयोर्भेदः" [ ] इति / P. 146. यत् प्रमाणवार्तिकम् - “सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः / स्वभावपरभावाभ्यां यस्माद् व्यावृत्तिभागिनः // " [प्रमाणवार्तिकम् 3 / 40] P. 147. तदुक्तम्" एकंप्रत्यवमर्थिज्ञानाघेकार्थसाधने / भेदेऽपि नियता: केचित् स्वभावेनेन्द्रियादिवत् // ज्वरादिशमने काचित् सह प्रत्येकमेव वा / दृष्टा यथा वौषधयो नानात्वेऽपि न चापराः॥" [प्रमाणवार्तिकम् 3273-74 ] P. 149. एतदपि प्रत्युक्तम्" एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी। एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता // " [प्रमाणवार्तिकम् 33109] __P. 154. तदुक्तम्- "इतरेतरभेदोऽस्य बीजं संज्ञा यदर्थिका / " [ प्रमाणवार्तिकम् 372 ] __P. 170-171. एतेन परसिद्धान्तदूषणदानव्यसनिभिः यदुक्तम्" सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः / चोदितो दधि खादेति किमुष्टुं नाभिधावति // 1 // अथास्त्यतिशयः कश्चिद् येन भेदेन वर्तते / स एव दधि सोन्यत्र नास्तीत्यनुभयं परम् / / 2 / / सर्वात्मत्वे च भावानां मिन्नौ स्यातां न धीचनी। मेदसंहारवादस्य तदभावादसम्भवः // 3 // [प्रमाणवार्तिकम् 3 / 182-185] प्रवृत्तिनियमो न स्याद् विषादिषु तदर्थिनः / मोदकाद्यपृथग्भूतसामान्यामेदवृत्तिषु // 4 // 1 एताः षडपि कारिका आचार्यश्री हरिभद्रसूरिविरचितायाम् अनेकान्तजयपताकायामपि प्रथमेऽधिकारे उद्धृता: //