________________ 10 द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धृता: पाठा: P. 127. तदुक्तम्- - "अर्थोपयोगेऽपि पुनः स्मात शब्दानुयोजनम् / अक्षधीयद्यपेक्षेत सोर्थों व्यवहितो भवेत् / / " . [प्रमाणविनिश्चयः पृ० 253 पं० 1] P. 124. एतेन यदुक्तम् - " मध्यव्यवस्थितस्याणोः पूर्वपश्चिमदक्षिणोत्तराधरोर्ध्वव्यवस्थितैः परमाणुमिर्योगोऽस्ति / न चैकेनैव रूपेण सर्वैरपि सम्बध्यते / यदि हि यत्रासो सम्बध्यमान एको व्यवस्थितस्तत्रापरोऽपि भवेत् तदा स्यादेकेनैव रूपेण सर्वेषा. मभिसम्बन्धः, तच नास्ति, परमाणूनां सप्रतिघत्वात् / अस्ति चाभिसम्बन्धः / ततो मध्यव्यवस्थितस्य षडंशवप्रसङ्गः" [ ] इति / ____P. 131. एतेन यदुक्तम्- " तद्धि अर्थसामर्थेन उत्पद्यमानं तद्रूपमेवानुकुर्यात् / न ह्यथै शब्दाः सन्ति तदात्मानो वा येन तस्मिन् प्रतिभासमाने तेऽपि प्रतिभासेग्न्" [प्रमाणविनिश्चियः पृ० 252 B ] इति, तत् प्रत्युक्तम् / ____P. 132. तेन यदुक्तम्-"शब्दस्य संकेतकालभावितत्वं स्मरणं च व्यापकम् , व्याप्यं शब्देन विशिष्टत्वग्रहणमर्थस्य / ततो न संकेतं तत्स्मरणं चान्तरेण शब्देन विशिष्टो गृह्यते" [प्रमाणविनिश्चयटीका पृ. 57 A पं. 4] / ___P. 132. ततो यदुच्यते-“ अपेक्ष्यमाणत्वं साक्षाजनकत्वेन व्याप्तम् , परम्परयाऽतीतस्यापि व्यापारदर्शनात् / तद्भावमावित्वमेव हि अपेक्षा / साक्षाच्चाजनकत्वे तद्भावभावित्वस्याभाव:" [ प्रमाणविनिश्चयटीका पृ० 61 B] इति, तद् निःसारम् / - P. 133. एवं चैतदपि प्रत्युक्तम् " विशेषणं विशेष्यं च सम्बन्धं लौकिकी स्थितिम् / गृहीत्वा संकलय्येतत् तथा प्रत्येति नान्यथा" || [प्रमाणविनिश्चयः पृ० 253 A, प्रमाणवार्तिकम् 1 / 145] " संकेतस्मरणोपायं दृष्टसंकलनात्मकम् / पूर्वापरपरामर्शशून्ये तच्चाक्षुषे कथम् // " [प्रमाणविनिश्चयः पृ० 253 B, प्रमाणवार्तिकम् 1 / 174 ] P. 135. एतेन यदुक्तम्-" यद्यमिलापवद् विज्ञानं तदा चेतनाचेतनयोस्तादात्म्यमायातम्, न चैतद् युक्तम्" [ ] इति, तत् प्रत्युक्तम् / P. 136. तदुक्तम्-"विचारकत्वे चेन्द्रियमनोविज्ञानयोरभेदप्रसङ्गात् / अमेदेचातीतानागतवस्तुप्रभेदग्रहणाग्रहणोहानूहार्थभावापेक्षानपेक्षादिप्रसङ्गः" [प्रमाणविनिश्चयः पृ०२५३ B] / . P. 138. तदुक्तम्-" इन्द्रियकृतस्तु रूपग्रहणप्रतिनियमोऽस्तु" [प्रमाणविनिश्चयटीका पृ० 66A] इति /