________________ 12 द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धृताः पाठाः भेदे चोभयरूपैकवस्तुवादो न युज्यते / भेदाभेदविकल्पस्तु विरोधेनैव बाधितः // 5 // विशेषरूपं यत् तेषु तत् प्रवृत्तेनियामकम् / साध्वेतत् किन्तु वस्तुत्वं तस्यैवेत्थं प्रसज्यते // 6 // " P. 173. तदुक्तम्"खस्य स्वभावः खत्वं चेत्यत्र वा किं निबन्धनम् / " [प्रमाणवार्तिकम् 3 // 67] इति / P. 181. एतेन यदुक्तम्- . "शब्दाः संकेतितं प्राहुर्व्यवहाराय स स्मृतः / तदा स्वलक्षणं नास्ति संकेतस्तेन तत्र न॥" [प्रमाणवार्तिकम् 3 / 92] इति, तत् प्रत्युक्तम् / / ___P. 184. तदुक्तम्-" ते तु स्वालम्बनमेवार्थक्रियायोग्यं मन्यमाना दृश्य विकल्प्याववेकीकृत्य प्रवर्तन्ते" [ ] इति / प्रमाण वाति के स्वत:5 प्रामाण्यमपाकतुं प्रयुक्ता, यथा "प्रमेयरूपं हि परिच्छिन्नं वस्तु प्रापयत् प्रमाणमुक्तम् / प्रमेयं च विषयः प्रमाणस्येति विषयवत्तया प्रामाण्यं व्याप्तम् / ततो यद् विषयवद् न भवति न तत् प्रमाणं यथा व्योमोत्पलम् , प्रत्यक्षानुमानाभ्यामन्यच्च विज्ञानं न विषयवदिति व्यापकाभावः" [प्रमाणविनिश्चयटीका पृ० 13 B] इति / सेयं परोक्ता व्यापकानुपलब्धिः प्रत्याख्याता / P. 188. यद् विनिश्चयः - " अनुमानं द्विधा, स्वार्थ त्रिरूपाल्लिङ्गतोऽर्थदृक् / अतस्मिस्तद्ग्रहाद् भ्रान्तिरपि सम्बन्धतः प्रमा / परार्थमनुमानं तु स्वदृष्टार्थप्रकाशनम् / " [प्रमाणविनिश्चयः पृ० 265 A, 266 B, 285 A] इति / ___P. 188. एतेन यदुक्तम्" तथा विषयभेदाद् भिद्यते प्रमाणम् / यतो निमित्तवान् प्रमाणभेदः, निनिमित्तत्वेऽतिप्रसङ्गात् / न चान्यद् निमित्तमुपपद्यते / विषयभेदश्चाश्रितः परेणापि प्रमाणानाम् / विषयापेक्षं च प्रमाणमप्रमाणं चेति विषयापेक्षेणैव तद्भेदेन भवितव्यम् / तस्माद् विषयभेदमात्रनिमित्तः प्रमाणभेदस्तद्भेदेन व्याप्तः। तेन यत् प्रत्यक्षानुमानार्थव्यतिरिक्तविषयं न भवति न तत् ताभ्यां मिनं प्रमाणं यथा ते एव प्रत्यक्षानुमाने प्रत्यक्षानुमानान्तराभ्याम् , यथा वा भ्रान्तिज्ञानम् / न भवति च प्रमाणं नाम प्रत्यक्षानुमानव्यतिरिक्तप्रमेयमिति व्यापकाभाव एव" [प्रमाणविनिश्चयटीका पृ० 13B-140] इति, तदपि निरस्तम् /