________________ द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धृता: पाठाः विद्यते / किन्तु दुर्दैवात प्रथमप्रकाशस्य टीका तत्र न विद्यते, केवलं द्वयोरेव द्वितीयतृतीयप्रकाशयोष्टीका तत्रास्ति / अस्मिश्चादर्श मूलं नास्ति, केवलं टीकैव विद्यते, किन्तु टिप्पणे तानि तानि सूत्राणि तत्र तत्र निर्दिष्टानि / अस्याष्टीकाया: New Catalogue of Sanskrit and Prakrit Manuscripts JESALMER COLLECTION ( L. D. Series 36, L. D. Institute of Indology, Ahmedabad-9 1972) इत्यनुसारेण क्रमाकं 366 वर्तते / द्वितीये परिच्छेदे पत्राणि 1-197 / तृतीये परिच्छेदे पत्राणि 1-113 / द्रव्यालङ्कारसूत्रस्य विक्रमसंवत् 1492 वर्षे लिखितः पृथक् एक आदर्शः 'अहम्मदाबाद' नगरे ' हाजापटेलनी पोल' मध्ये 'संवेगीनो उपाश्रय' इत्यस्मिन् जैनस्थाने विद्यते, पत्राणि 1-12 / अपर आदर्शों राजस्थाने 'बेडा' नगरे विद्यते, इमो द्रव्यालङ्कारस्य हस्तलिखितादी ग्रन्थकाररचितप्रथमादर्शानुसारेण, यत आदी विरचिते द्रव्यालङ्कारे ग्रन्थकाराभ्यामेव क्वचित् क्वचित् संशोधनमपि विहितम् , एतच संशोधितं द्रव्यालङ्कारसूत्रं जेसलमेरनगरे यष्टीकाया आदर्शों वर्तते तत्र टिप्पणेषु तत्र तत्र निर्दिष्टं ग्रन्थकाराभ्याम् / __ आदौ लिखितां प्राचीनसूत्रपाठानुसारिणीमपि वृत्तिं तत्र तत्र मध्या निरस्य संशोधितसूत्रपाठानुसारिणी वृत्तिरपि जेसलमेरस्थे टीकादर्श तत्र तत्र लिखिता दृश्यते / टिप्पणान्यपि ग्रन्थकाराशयस्पष्टीकरणाथं तत्र तत्र अधस्ताल्लिखितानि वर्तन्ते / आचार्यहेमचन्द्रसूरीणां सत्तासमयः विक्रमसंवत् 1145-1229 वर्तते / विक्रमसंवत् 1230 वर्षे ( 1174 A. D.) रामचन्द्रस्य मृत्युः, 'जेसलमेर 'नगरस्थो द्रव्यालंकारटीकाया आदर्शस्तु विक्रमसंवत् 1202 वर्षे लिखितः, अतोऽयं ग्रन्थकाराभ्यां स्वयमेव संशोधित: प्रमाणभूतो ग्रन्थः / एतत्सामग्रयनुसारेण परमात्मनः सद्गुरूणां च कृपया अस्य ग्रन्थस्य सम्पादन मया कर्तुमारब्धमस्ति मुनेः धर्मचन्द्र विजयस्य साहाय्येन / अस्य च प्रकाशनं 'लालभाई दलपतभाई भारतीय संस्कृतिविद्यामन्दिरेण' (L. D. Institute of Indology, Ahmedabad-9) कर्तुं निर्धारितमस्ति / अस्मिन् ग्रन्थे प्राचीनेभ्यो न्याय-वैशेषिक-सांख्य-बौद्वादिग्रन्थेभ्यो बहवः पाठास्तत्र तत्र उद्धृताः / तेषु ये ये पाठा बौद्धग्रन्थेभ्य उद्धृतास्तेऽत्र निबन्धेऽस्माभिः संगृहीताः।