________________ द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धृताः पाठाः रामचन्द्र was the joint author of the द्रव्यालङ्कारवृत्ति and नाट्यदर्पणवृत्ति. सिद्धराज had confered on him the बिरुद ‘कविकटारमल्ल.' मेरुतुङ्ग says that he was one eyed................ गुणचन्द्र, महेन्द्र, वर्धमान, देवचन्द्र, उदयचन्द्र and बालचन्द्र were the pupils of हेमसरि. Of these गुणचन्द्र was the joint author of the द्रव्यालङ्कारवृत्ति and नाट्यदर्पणवृत्ति. महेन्द्रसरि wrote the अनेकार्थकैरवकौमुदी in V. S. 1241 and वर्धमानगणि composed the कुमारविहारप्रशस्ति. देवचन्द्र was the author of the चन्द्रलेखाविजय प्रकरण. द्रव्यालङ्कारस्वरूपम् जैनानां मते द्विविधानि द्रव्याणि-जीवा अजीवाश्च / अजीवाः पञ्चधा-पुद्गलाः, धर्मः, अधर्मः, आकाशम् , कालश्चेति / एवं च जैनमते जीव-पुद्गल-धर्मा-ऽधर्माऽऽकाश-कालभेदेन षड् द्रव्याणि / एतेषु कालो जीवाजीवपर्यायरूपत्वाजीवाजीवयोरन्तभूत इत्यपि जैनागमेषु वर्णितम् , एवं च कथञ्चित् पश्चापि द्रव्याणि जैनमते भवन्ति / एतेषां द्रव्याणां स्वरूपं बहुषु जैनग्रन्थेषु आगमिकशैल्या वर्णितं दृश्यते, किन्तु तार्किकशैल्या द्रव्यस्वरूपप्रतिपादनपरः कोऽपि ग्रन्थो जैनपरम्परायां नासीदिति रामचन्द्रगुणचन्द्राभ्यां तार्किकशैल्या तत्प्रणयनं व्यधायि / एतच्च द्रव्यालङ्कारटीकायाः प्रान्ते ताभ्यामेवेत्थं निर्दिष्टम् - "पूर्वैर्यस्य समुद्धतिर्न विहिता धीरैः कुतोऽप्याशयादावाम्यां स समुद्धृतः श्रुतनिधेद्रव्योत्करो दुर्लभः / एनं यूयमनन्तकार्यनिपुणं गृह्णीत तत् कोविदाः स्वातन्त्र्यप्रसवां यदीच्छत चिरं सर्वार्थसिद्धि हृदि // " अस्मिन् ग्रन्थे त्रयः प्रकाशा वर्तन्ते। तत्र प्रथमे जीवप्रकाशे चार्वाकमतनिरासेन जीवस्यास्तित्वं प्रसाध्य दर्शनान्तराभिमतजीवस्वरूपनिरासपूर्वकं जैनदर्शनानुसारेण जीवस्वरूपं वर्णितम् / द्वितीयस्मिन् पुद्गलप्रकाशे दर्शनान्तराभिमतनिरसनपूर्वकं जैनदर्शनाभिमतं पुद्गलस्वरूपं वर्णितम् / तृतीयेऽकम्पप्रकाशेऽवशिष्टानां धर्मादिद्रव्याणां स्वरूपं पूर्ववद् वर्णितम् / अस्य ग्रन्थस्य अतिविस्तृता स्वोपज्ञटीकापि एताभ्यामेव रामचन्द्रगुणचन्द्राभ्यो व्यधायि / अस्याष्टीकायाः तालपत्रोपरि विक्रमसंवत् 1202 वर्षे लिखित एक एव हस्तलिखित आदर्शो जेसलमेरदुर्गे जिनभद्रसूरिसंस्थापितग्रन्थभाण्डागारे