________________ द्रव्यालङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धृताः पाठाः च स एव कियत्कालावस्थायी स्वभावो यः प्रथमे क्षणे आसीत् , ततो नैव निवर्तेत कियत्कालावस्थायित्वात् / तस्मान विनाशहेतुसापेक्षनिवृत्तिकः कश्चिद् भावो हेतुमिजन्यते / अथानिवृत्तिधर्मा तस्य स्वभावः, तहि विनाशहेतुमिरपि न निवर्तयितुं शक्येत" [प्रमाणविनिश्चयटीका पृ० 289 A-B] इति / - P. 101. एतेन- "अस्त्यनुभवविशेषोऽर्थकृतो यत इयं प्रतीतिर्न सारूप्यादिति चेत् "1 इति परमतमाशङ्कय यदुक्तम्-"अथ किमिदानीं सतो रूपं न निर्दिश्यते ? इदमस्येति निर्देष्टुं न शक्यत इति चेत्, अनिरूपितेन नामायमात्मना भावान् व्यवस्थापयति इदमस्येदं नेति सुव्यवस्थिता भावाः" [प्रमाणविनिश्चयः पृ० 269 A ] इति, तत् प्रत्युक्तम् / P. 105. यद् विनिश्चयः - सहोपलम्भनियमादभेदो नीलतद्धियोः / अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति // [प्रमाणविनिश्चयः पृ० 263B-264A ] . P.107. तदुक्तम्- "ततः कल्पितभेदनिबन्धनः सहशब्दप्रयोग इति को विरोधः" [प्रमाणविनिश्चयटीका पृ० 186 A] इति। ___P. 107. एतेन यदुक्तम्- ... " विकल्पज्ञेयभेदार्थः, सहशब्दोऽपि भेदिनि / स तुल्यः कल्पनोत्थेऽपि, . 'योऽप्याह-'न सहशब्दोऽर्थान्तरेण विना क्वचिदस्तीति नील-तद्धियोः सहोपलम्भादेव नीलस्य भेदसिद्धेविरुद्धो हेतुः' इति, तदपि तस्यासमीक्ष्य भाषित्वम् / यतो मेदिन्यपि अर्थे विकल्पज्ञेयमेव भेदमवेक्ष्य सहशब्दः, विकल्पविषयत्वमन्तरेण शब्दार्थत्वाभावात् / स च विकल्पविषयो भेदो नील-तद्धियोरपि अस्ति, 'नीलं दृश्यते' इति भेदावमर्शात् / __नैक्यव्याप्तेविरुद्धता // यत् पुनरुच्यते 'विरुद्धो हेतुः स्यात् ' इति तत् पापात् पापीय: / साध्यविपर्ययव्यापनाद् विरुद्धत्वं भवति, न च सहोपलम्भो भेदेन व्याप्तः, अपि तु एकत्वनैव" [ ] इति, तदपि निराकारि। 1 विनिश्चयसूत्र-टि० // - 2 बौद्ध एव यच्छब्देन नैयायिकमतमाशङ्कते-टिः //