________________ द्रव्याटङ्कारटीकायां बौद्धग्रन्थेभ्य उद्धता: पाठाः P. 14. 'तदाह ___ तस्मात् सर्वस्य भावस्य सम्बन्धो नास्ति तत्वतः // " [ सम्बन्धपरीक्षा] P. 14. "तदाह "परापेक्षा हि सम्बन्धः सोऽसन् कथमपेक्षते / संश्च सर्वनिराशंसो भावः कथमपेक्षते // " [सम्बन्धपरीक्षा] P. 35. एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् / ' __ कोऽन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीक्ष्यते // [प्रमाणवार्तिक 3 / 42] P. 35. यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता / [ P. 48 " इह तावत् परमाणूनां संसर्गग्रहे सति संस्थानावमासः स्यात् / न चाविकल्पं संसर्गग्राहि / असंसृष्टत्वं हि परमाणूनां रूपभेदो वा पररूपदेशपरिहारो वा शून्याकाशयोगो वा अन्तरालवतिमिन्नेन्द्रियग्राह्यवस्तुयोगो वा / तत्र न संसर्गावभासो रूपामेदप्रतिभासः, परमाणुमात्रपिण्डावभासप्रसङ्गात् / अत एव परत देशस्य परिहारा स्यात् / अन्तरालवर्तिभिन्नेन्दियग्राह्य वस्तु तु स्पर्शादिपरमाणवः / न चामीषाच क्षुषाऽप्रतिभासे संसर्गः प्रतिभातो भवति / न ह्यन्येन्द्रियजज्ञानविषयोज्येन्द्रियजे ज्ञानेऽवभासते / ततो निर्विकल्पधियां संसर्गावभास एव नास्ति, कुतस्तद्रूपसंस्थानस्य वित्तिभेदचिन्ता स्यात् / या पुनरियं संसर्गलक्षणसंस्थानावमासिनी धीः सविकल्पिका सा न प्रमाणम्" [प्रमाणविनिश्चयटीका पृ० ] इति / तदयुक्तम् / __P. 49. तदुक्तम्- “अधिगते तु स्वलक्षणे तत्सामर्थ्य जन्मा विकल्पस्तदनुकारी कार्यतस्तद्विषयकत्वात् स्मृतिरेव, न प्रमाणम् , अनधिगतवस्तुरूपानधिगतेः" [ हेतुबिन्दुः पृ० 3] _P. 49. यदुक्तम्-" तस्मादनधिगतार्थविषयं प्रमाणमिति 'अनधिगते स्वलक्षणे' इति विशेषणीयम् ' [ हेतुबिन्दुः पृ० 3] P. 50. यदुक्तम्- " तदेव परमार्थसत् , अर्थक्रियायोग्यलक्षणत्वाद् वस्तुनः" [न्यायबिन्दु 1 / 14, 15] 1-2 द्रव्यालङ्कारटिप्पणे इदं वर्तते / 3 वृद्धधर्मोत्तर आह-टि० /