Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 158
________________ टोकासहितं । गुनां स्कन्धभेदमन्तरेणाभावादसिद्धो व्यतिरेकस्ततस्तद्भाव एव भवनशीलत्वाभावादसिद्ध साधनमिति चेत् , न, सदा स्वतंत्रपरमाणुनामसंभवात् । तथाहि-विवादापनाः परमाणवः स्कंधभेदपूर्वकाः परमाणुतात् द्वयणुकादिभेदपूर्वकपरमाणुवदिति न ते सर्वदा स्वतंत्रास्ततस्तद्भावभावित्वं साधनं सिद्धमेव । एतेन कपालानां कुंभभेदकारणत्वं साधितं तद्भावभाविस्वाविशेषात् । ननु च पटभेदपूर्वकाणां केषांचित्तन्तूनामुपलभा. तद्भावे भावस्य प्रसिद्धावपि परेषां पटपूर्वकालभाविनां पटभेदाभावेऽपि भावान तद्भाव एव भावः सिध्येदिति चेत् न, तेषामपि कार्पासप्रवेणीभेदपूर्वकत्वेनोपालंभात्स्कंधभेदपूर्वकस्वसिद्धः। स्यान्मतं, महापरिमाणप्रशिथिलावयवकासपिडसंघातपूर्वकस्याल्पपरिमाणघनावयवकासपिंडस्य स्कंधमेदमन्तरेण भावात् कथं परमाणूनां स्कंधभेदपूर्वकत्वसिद्धिरिति । तदप्यसत्, परमाणनामेव स्कंधभेदपूर्वकत्वनियमसाधनात्, परेषां स्कंधानां स्कंधान्तरसंघातपूर्वकत्वस्याऽपि प्रसिदः, यद्धि यद्भावभाव्येव प्रसिद्धं तत्कारणमिति स्याद्वादिनां मतं, ततो ये स्कंधभेदभावभाविन एव ते स्कंधभेदपूर्वका एवं यथा परमाणवो 'भेदादणु'रिति वचनात् । ये तु संघातभावभाविन एव ते संघातपूर्वका एव यथा धनः कार्यासपिंड इति सर्वमनवयं परमाणोरपि कार्यद्रव्यत्वसिद्धः । तदेवमाकाशमनंशमकार्यद्रव्यत्वात्परमाणुवदित्यनुमानं न साध्यसिद्धिनिबंधनमुदाहरणस्य साधनविकलत्वाद्धेतोश्चासिद्धत्वात् पर्या Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198