Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 177
________________ १६२ युक्त्यनुशासनं । वाह्येन्द्रियप्रत्यक्षत्वाद् गंधादिवदिति प्रतिपक्षानुमानस्य सत्यस्य सद्भावः, तथा न गुणःशब्दः संस्कारववाद्वाणादिवदित्यनुमानस्य च प्रतिद्वंद्विनः संप्रत्ययात्। संस्कारवत्त्वमसिद्धंशब्दस्येति चेत, न, वेगस्य संस्कारस्य शब्देषु भावात् वक्तृव्यापारादुत्पन्नस्य शब्दस्य यावद्वगं प्रसर्पणात् । शब्दस्य प्रसर्पणमसिद्ध शब्दान्तरारंभकत्वादिति चेत्, स तर्हि वक्तृव्यापारादेकः शब्दः प्रादुर्भवत्यनेको वा योफस्तहि कथं नानादिकानानाशब्दानारभेत सकृदिति चिंतनीयं । सर्वदिक्कनानाताल्वादिसंयोगजनितवारमाकाशसंयोगानामसमवायिकारणानां भावात् , समचायिकारणस्य चाकाशस्य सर्वगतत्वात् , सर्वदिक्कनानाशब्दानारभते सकृदेकोऽपि शब्द इति चेत् ; नैवं, तेषां शब्दस्यारंभकत्वस्याप्यनुपपत्तेः । यथैव ह्यायः शब्दो न शब्दान्तरजस्ताखाद्याकाशसंयोगादेवासमवायिकारणादुत्पत्तेस्तथा सर्वदिक्कशब्दान्तर,ण्यपि न शब्दारब्धानि ताल्वादिव्यापारजनितवाख्वाकाशसंयोगेभ्य एवासमवायिकारणेभ्यस्तेषामुत्पत्तिघटनात , तथोपगमे च संयोगाद्विभागाच्छब्दाच शब्दस्योत्पत्तिरिति सिद्धांतव्याघातः । शब्दान्तराणांप्रथमः शब्दोऽसमवायिकारणं तत्सदृशत्वादन्यथा तद्विमदृशशब्दान्तरोत्पत्तिप्रसंगो नियामकाभावादिति (केचि)चेत्, न, प्रयपशब्दस्य शब्दान्तरसशस्यान्यशब्दादसमवायिकारणादुत्पत्तिप्रसंगात्तस्याप्यपरपूर्वशब्दादिति शब्दसंतानस्यानादित्वापत्तिः। यदि पुनः प्रथमः शब्दः प्रवक्तव्यापारादेव प्रतिनियतादेवोत्पन्नः स्वसदृशानि शब्दान्तराण्या Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198