Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
१६०
युक्त्यनुशासनं ।
तेनैव मन्वर्थस्य प्रतिपादनात् मत्वर्थीयो न स्याद्वीरपुरुषको ग्राम इति यथा, सर्वशब्दादेस्तु पदादन्यत्र बहुब्रीहिरित्यपवादवचनात्सर्वशब्दादेः पदस्य कर्मधारय एव भवति यथा सर्ववीजी कर्षकः सर्वकेशी नट इति तेन सर्वान्ताः संत्यस्मिन्निति सर्वान्तवत्तीर्थमिदं परमागमवाक्यमिति संबंधनीयं । तरति संसारमहार्णवं येन निमित्तेन तत्तीर्थमिति व्युत्पत्तेः । सर्वान्ताः पुनरशेषधर्मा विशेषसामन्यात्मक द्रव्यपर्यायव्यक्ति विधिव्यवच्छेदाः प्रतिपत्तव्याः समासतस्तैरेवानंतानामपि धर्माणां संग्रहात् । तत्र स्यादस्त्येव वाक्यं स्वरूपादिचतुष्टयादिति विधिधर्मवाक्यं, स्यान्नास्त्येव पररूपादिचतुष्टयादिति व्यवच्छेदधर्मवाक्यं स्वरूपं तु वहिर्वाक्यस्य परस्परापेक्षया पदसमूहो निराकांक्षः सहभुवामिव नानामवक्तृकाणां क्रमवा मपि समूहस्य व्यवहारसिद्धेः प्रत्यासत्तिविशेषसद्भावात् । अन्तर्वाक्यस्य तु पूर्वपूर्वपदज्ञानाहितसंस्काररूपात्मनोऽन्त्यपदज्ञानात्समुदायार्थप्रतिभासस्तद्व्यतिरिक्तस्य स्फोटस्य प्रागेव प्रतिक्षिप्तत्वा तदेतत् द्विविधमपि वाक्यं स्वरूपत एवास्ति न पुनः पररूपतः सर्वात्मकत्वप्रसंगात्, पररूपत एव च नास्ति न पुन: स्वरूपतः सर्वाभावप्रसंगात् । ततो वस्तुत्वसिद्धिः स्पपररूपोपादानापोहनात्मकत्वाद्वस्तुनः तथा स्वद्रव्यं शब्दस्य तद्योग्यगलद्रव्यं शब्दात्मनो वाक्यस्य पुद्गलपर्यायत्वव्यवस्थितेः । पर्यायो हि कार्यद्रव्यरूपो गुणरूपः क्रियारूपो वानाद्यपर्यन्तद्र
1 प्रथम पुस्तके 'अनंतप्रवक्तृकाणा' मिति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198