Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 190
________________ टोकासहितं। खंडितमान,गो भवति ध्रुवमिति संबंधः । मानो हि सर्वथैकान्ताभिपानःस एव शृंगं स्वाश्रयस्य विवेकशून्यतया पशुकरणात्, खंडितं प्रतिध्वस्नं मानशृंगं यस्य स खंडितमान,गः, परित्यक्तसर्वथैकान्ताभिमान इत्यर्थः । तथा चाऽभद्रोऽपि मिथ्यादृष्टिरपि समंतभद्रः समन्ततः सम्यग्दृष्टिर्भवतीति तात्पर्य । अभद्रं हि संसारदुःखमनंतं तत्कारणत्वान्मिथ्यादशनमभद्रं तद्योगान्मिथ्यादृष्टिरभद्र इति कथ्यते स च समदृष्टिभूत्वोपपत्तिचक्षुषा समीक्षमाणस्तवैवेष्टं श्रद्वत्ते सर्वथैकान्तवादीष्टस्योपपत्तिशून्यत्वात्तत्रोपपत्तीनां मिथ्यात्वाचदभिमानविनाशात् , तथा तवेष्टं श्रदयानश्च पम्यग्दृष्टिः स्यात्समन्ताद्भद्रस्य कल्गणस्यानंतसुखकारणस्य सम्यग्दर्शनस्य प्रादुर्भावासमन्तभद्रो भवत्येव । सति दर्शनमोहविगमे परीक्षायास्तत्कारणत्वात् , तत्त्वपरीक्षा हि कुतश्चित्परीक्ष्यज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषात्कस्यचिकदाचि कथंचित् प्रवर्तेत, सा च प्रवर्तमाना तत्वनिश्चयमतत्त्वव्यवच्छेदेन घटयति, तद्धटना च दर्शनमोहोपशमक्षयक्षयोपशमस दावे तत्त्वश्रद्धानं सम्यग्दर्शनं प्रादुर्भावयति । तेनोपपत्तिचक्षुषा समीक्षां विदधानः सम्यग्दृष्टिः समंतभद्रः स्यादिति प्रतिपद्येमहि बाधकाभावात् । न हि परी. क्षायामुपपत्तिवलानैरात्म्यमेवोपशमविधेर्मार्ग इति व्यवतिष्ठते । स्यान्मतं, जन्मप्रबंधस्य कारणमहंकारस्तद्भावे भावात्तदभावे चाभावात्तस्य चाहंकारस्य कारणमात्मदृष्टिः, सा च. नैरात्म्यभावनया तद्विरुद्धया प्रशम्यते तदुपशमाच्चाहंकारश्चे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198